अथ वक्ष्ये विशेषेण विघ्नेशोत्सवमुत्तमम्
सर्वपापहरं पुण्यं सर्वलोकसुखावहम् १
ग्रामवृद्धिकरं शान्तं नृपाणां सर्वसिद्धिदम्
ग्रामे वा नगरे वापि पत्तने राजधानिके २
पुरे वा कु ब्जके चैव कु +स्तम्बे वा महापथे
आगमोक्तक्रमेणैव यथास्थानं प्रकल्पयेत् ३
सर्वस्थानेषु मूर्तीनां मुत्सवं त्रिविधं भवेत्
नव सप्ताह पञ्चाह नवाहादि विभेदतः ४
आदौ तीर्थं विनिश्चित्य पूर्वेण पञ्चमेऽपि वा
त्रिदिने तद्दिने वापि ध्वजारोहणमारभेत् ५
त्रिगुणे द्विगुणे वापि तद्दिने वाह्निरात्रिके
अधिवासनपूर्वं तु ध्वजमारोपयेद्गुरुः ६
त्रिहस्तादिसमारभ्य रन्ध्रहस्तान्तमेव वा
पुष्यमासादिमासेषु तत्तत्मासर्क्षमेव च ७
अथवा तु चतुर्थ्यां तु भूताष्टम्यां तथैव च
सर्वमासेषु कर्तव्यं पर्वान्तं तीर्थमाचरेत् ८
अर्धं त्रिपादविस्तारं शिरः पुच्छसमन्वितम्
वेत्रद्वयसमायुक्तं तन्मध्ये वाहनं लिखेत् ९
आयादिशुभसंयुक्तं स्थितं वा शयनं तु वा
श्वेतवर्णादिवर्णानां सर्वलक्षणशोभितम् १०
विश्वमात्रं समारभ्या वीच्यङ्गुलविवर्धनात्
मनमात्राङ्गुलैर्युक्तं यावत्त्रिंशाङ्गुलावधि ११
पद्मासनसमायुक्तं पार्श्वे दीपद्वयान्वितम्
रत्नचामरसंयुक्तं पूर्णकु म्भं तथैव च १२
दर्पणं स्वस्तिकं शङ्खं श्रीवत्सं चाब्जकं तथा
उक्तवर्णसमायुक्तमुक्तस्थाने प्रकल्पयेत् १३
एवं ध्वजं समापाद्या ध्वजदण्डमथोच्यते
यज्ञिकी वृक्षमाख्यातं सारसारमुकादयः १४
हर्मस्योछ्रयतारं तु द्विगुणं त्रिगुणोऽपि वा
पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् १५
एकविंशात्करान्तं तु दण्डदैर्घ्यं विधाय च
पक्षाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् १६
नाहमानमिति प्रोक्तं त्रिगुणान्तं यथोचितम्
तन्नाहमष्टधा कृ त्वा एकांशन्यूनमग्रकम् १७
ध्वजदण्डमिदं प्रोक्तं ध्वजयष्टिरिहोच्यते
अष्टौ नन्ददशांशं वा सृब्रपत्तवक+++ न्धांशमेव च १८
दण्डघात प्रमाण तद्वेदीं दण्डं च कल्पयेत्
त्रयाणां मानमित्युक्तं अष्टांशेनैव कल्पयेत् १९
तं दण्डमष्टधा कृ त्वा मेकांशमुपदण्डकम्
ध्वजदण्डं पटं चैव स्कन्धवेदिं च दण्डकम् २०
स्कन्धवेदिं च दण्डं च अङ्गुलेन प्रकल्पयेत्
यावत्युग्मांगुलप्राय्यं त्याज्यमेकाङ्गुलात्परम् २१
हस्तमानं समारभ्य द्विहस्तान्तक्रमेण तु
ईशदृक् नादनन्दाख्य वसुनन्दयुगांशकम् २२
वृद्धिमानमिदं प्रोक्तं भानेरंशमथोच्यते
नागतारमुनिप्रस्थानासीनन्दांशकं क्रमात् २३
के त्वादि षट्कशुद्धिं च मात्राङ्गुलैन कारयेत्
एवमायादिसंयुक्तं ज्ञात्यायांशसमन्वितम् २४
दण्डोत्सेधेन कर्तव्यं पटविस्तार एव च
दण्डस्कन्धं तु चायामं नाहं वा विस्तृतं भवेत् २५
पञ्चाङ्गुला समारभ्य नवाङ्गुलसमावधि
उपदण्डस्य नाहं तु दण्डाग्रे वलयस्थितिः २६
उछ्रयोर्यागसिध्यर्थं स्कन्धत्रयमथाचरेत्
द्वादश्याङ्गुलमारभ्या यावत्रिंशाङ्गुलान्तकम् २७
पञ्चाङ्गुलं समारभ्य यावदेवकारन्तकम्
स्कन्धिविस्तारमुद्दिष्टो तद्घनं युक्तिना कु रु २८
मूलाग्रे वर्तुलाकारं कारयेच्चुलुकाकृ ति
द्वयं सुषिरसंयुक्तं अन्धछिद्रमथैकतः २९
वलयं पश्चिमे भागे उपदण्डाग्रमेव च
रज्जुस्थं वलयं मध्ये स्याद्वासुकिञ्चैदेवतम् ३०
वलये चन्द्रदेवत्यं गणेशं दण्डनायकम्
पीठे शक्तिं च संपूज्य मूलाग्रे वाहनं न्यसेत् ३१
महामर्यादि मध्ये वा पीठाग्रे वा तदग्रके
दण्डस्थानमिदं प्रोक्तं तन्मूले वेदिकां कु रु ३२
अधिष्ठानवशात्तत्र वेदीमानवशान्नयेत्
विस्तारसममुत्सेधं पट्टिकान्तस्मरावधि ३३
एवमेवक्रमेणैव विपरीतं विपात्करम्
तस्मात्सर्वप्रयत्नेन लक्षणेन विचक्षणः ३४
नानाधिष्ठानसंयुक्तमुपपीठं युतं तु वा
वेदिकालक्षणं वापि इष्टकादीन्प्रकल्पयेत् ३५
प्रासादाभिमुखाः सर्वे पूर्ववत्शुद्धिमाचरेत्
आरम्भस्य दिनात्पूर्वे त्रिदिने पञ्चमेऽपि वा ३६
अङ्कुराण्यर्पयेद्धीमान्पूर्वोक्तविधिना सह
एतद्ध्वजाङ्कुरं प्रोक्तं अधिवासनमारभेत् ३७
आरम्भस्य दिने रात्रौ नैवेद्यान्तं तु कल्पयेत्
स्नानान्ते वाथ कर्तव्या अधिवासं सुराशिके ३८
आचार्यः सकलीकृ त्य गणेशं पूजयेद्बुधः
विज्ञाप्योत्सवकार्यं तु वाहनं पूजयेत्ततः ३९
कृ सरान्नं निवेद्यं च स्नपनाद्यैर्विशेषतः
ततो शिरीषरजनीं तण्डुलं च पृथक्पृथक् ४०
चूर्णयित्वा विशेषेण स्थालिकायां तु विन्यसेत्
देवस्याग्रे विशेषेण गोमयालेपनं कु रु ४१
तच्चूर्णं चैव पद्मस्याल्लताकारमथापि वा
तदूर्ध्वे स्थलिलं कृ त्वा साष्टपत्रं सकर्णिकम् ४२
तत्पटं हृदयेनैव नयनोन्मीलनं कु रु
स्थलिकायां न्यसेद्धीमान्स्थण्डिलोर्ध्वे विशेषतः ४३
उत्तरे स्थण्डिलं कृ त्वा पूर्ववन्नलिनं लिखेत्
अब्जमध्येऽङ्कुशं न्यस्य तत्पूर्वे स्थण्डिलं कु रु ४४
तदूर्ध्वे नवसङ्ख्यैश्च कलशान्पूजयेत्ततः
सकू र्चान्सापिधानांश्च सवस्त्रान्वारिपूरितान् ४५
पटे घटेवसंपूज्य मूषिकं मूलमन्त्रतः
यज्ञादिशूलपर्यन्तं पूर्वादिक्रमशोऽर्चयेत् ४६
तत्तत्स्वनाममन्त्रेण पूजयेद्गन्धपुष्पकैः
ततो होमं प्रकर्तव्यं अग्निकार्योक्तमार्गतः ४७
अग्निमध्ये विशेषेण मुष्टिकं तु सुपूजयेत्
तन्मन्त्रेण ततो हुत्वा होमयेच्छतसङ्ख्यया ४८
समिदाज्यचरून्लाजान्सत्वन्नं पृथुकं तथा
तत्सङ्ख्या होमयेत्कार्य कू श्माण्डादीनि मन्त्रकैः ४९
पटे घटे च मूर्तीनां शत सङ्ख्यां च होमयेत्
जयादिरभ्याधानां च राष्ट्रभृच्च क्रमाध्वरेत् ५०
मिन्दाहुतिं च कू श्माण्डं प्रायश्चित्ताहुतिं चरेत्
पूर्णाहुतिं च शिरसा तत्तत्स्थाने सुयोजयेत् ५१
संपूज्य गन्धपुष्पाद्यैः कृ सरान्नं निवेदयेत्
सर्ववाद्यसमायुक्तं नृत्तगीतसमाकु लम् ५२
प्रातः संपूज्य विधिना शुचीवोहं जपेद्गुरुः
वास्तुशुद्धिं ततः कृ त्वा वास्तुदेवान्संपूजयेत् ५३
सर्ववाद्यैरलङ्कृ त्य स्वस्तिमङ्गलवाचकैः
रथे वा शिबिकायां वा परिचारकमूर्धनि ५४
तत्पटं सम्यगारोप्य अङ्कुशं बिम्बसंयुतम्
ग्रामप्रदक्षिणं कृ त्वा ध्वजस्थानं प्रविश्य च ५५
गोमयालेपनं कृ त्वा पिष्टचूर्णैरलङ्कृ तम्
तद्देवं पश्चिमे न्यस्य सायुधं चोत्तरे न्यसेत् ५६
गणेशं पूजयेत्पश्चात्पुण्याहं वाचयेत्ततः
अस्त्रमन्त्रेण संप्रोक्ष्य पूर्वं दण्डे समर्चयेत् ५७
दर्भमालां पटं चैव त्रयरज्जुं सुयोजयेत्
क्षुद्रघण्डा समायुक्तमस्त्रमन्त्रेण बन्धयेत् ५८
तत्कु म्भे बीजमादाय मूषिकं हृदिन्यसेत्
आरोपयेत्पटं शीघ्रं तन्मूलं च स्मरेद्गुरुः ५९
दण्डस्य वामपार्श्वे तु मूलै रज्वां सुबन्धयेत्
तत्कु म्भस्थजलैश्चैव तत्तत्स्थानेऽभिषेचयेत् ६०
निवेद्यादीनि पूजानि उपचाराणि सर्वतः
उक्तमन्त्रैः समभ्यर्च्य सर्वघोषसमन्वितम् ६१
शुद्धनृत्तसमायुक्तमथवा गणिका चरेत्
स्तोत्रमङ्गलसंयुक्तं जयशब्दसमाकु लम् ६२
तत्काले स्तोत्रपाठैश्च आचार्यः शिष्य एव वा
भस्माथ दापयेऽन्येभ्य सर्वभक्तजनैः सह ६३
भेरिकाताडनं रात्रौ कर्तव्यं तु यथाविधिः
देवदेवस्य चाग्रे तु गोमयालेपनं कु रु ६४
पुरोचूर्णैलिखेत्पद्मं तदूर्धं स्थण्डिलद्वयम्
प्राक्स्थण्डिले न्यसेद्भेरीं पश्चिमे त्वायुधं न्यसेत् ६५
सायरक्षावसाने तु रुचिरासनसंस्थितः
गणेशं पूजयेत्पूर्वं संक्रे यं च यथाक्रमम् ६६
पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रमन्त्रतः
अङ्कुशं पूजयेत्पूर्वं देवानाहूय देशिकः ६७
भेरीं वस्त्रेण संवेष्ट्य पूर्ववत्पूजयेत्क्रमात्
भेर्याः सन्ताडनं कु र्यादेकद्वित्रिशताडधेत् ६८
त्रियम्बके न मन्त्रेण ताडये तु क्रमेण तु
पश्चात्पारशवं चैव प्रोक्षयेत्पुरुषेण तु ६९
नववस्त्रेण गन्धं च सोत्तरीयं ससूत्रकम्
तत्काले दापयेत्कार्यं देशिका यज्ञया सह ७०
वाद्यकश्च ततः कार्यं दिशतालेन नाशयेत्
सर्ववाद्यसमायुक्तं नृत्तगीतसमाकु लम् ७१
नानाच्छत्रसमायुक्तं नानाभक्तजनैः सह
अन्नलिङ्गसमायुक्तमंकु शं पादुकानि च ७२
बलिबेरं विना वापि गणिकाभिः समावृतः
ब्रह्मादीशानपर्यन्तमिन्द्रादीशान्तमेव च ७३
पायसान्नं घृतान्नं च तत्तन्मन्त्रेण दापयेत्
तत्तत्काले स्तोत्रपाठैश्च पीठं क्षालनपूर्वकम् ७४
दिशितालसमायुक्तं तत्तन्नृत्तं च गीतकम्
तटाककू पसिद्धिश्च चैत्यवृक्षश्चतुष्पथः ७५
तत्तत्स्थानादिवीथ्यग्रे वीथिमध्ये समीपके
प्राप्यस्थाने बलिं कु र्यात्स्वाहान्तं मन्त्रमुच्चरन् ७६
चतुष्पथे पिशाचेभ्यः त्रिपथा राक्षसा भवेत्
सभास्थाने सरस्वत्यै ज्येष्ठा सा तु जलाशये ७७
ग्रगोधे क्षेत्रपालस्य विघ्नेशस्यापि पिप्पले
चैत्यवृक्षे गृहस्यापि कू पे कु म्भोदरस्य तु ७८
गो स्थाने चण्डरुद्रस्य भीमरूपस्य गोपुरे
दिनदेवबलिं दद्याल्लोकपालान्बलिं ददेत् ७९
प्रासादं तु प्रविश्याथ अङ्कुरं पूर्ववन्नयेत्
स्वर्णादिसूत्रं संग्राह्य कु र्यात्प्रतिसरक्रियाम् ८०
तत्तत्प्रभिमबेरं च अङ्कुशं देशिकैः सह
तत्तत्पूर्वोक्तक्रमेणैव तत्सूत्रं बन्धयेद्दृढम् ८१
नित्यार्चनविधायेव नैवेद्यान्तं यथा कु रु
यागशालां प्रविश्याथ सौरादिमङ्गलान्तकम् ८२
पूजये तु क्रमेणैव तत्सूत्रं बन्धयेद्दृढम्
पूजयेत्तु क्रमेणैव पूर्वमेव सुभाषितम् ८३
तत्र वेदीं तदूर्ध्वे तु तच्चूर्णं कमलं लिखेत्
तदूर्धे स्थण्डिलं कृ त्वा चाष्टद्रोणेन शालिना ८४
तदर्धैस्थण्डिलैर्भूष्यैस्तदर्धैश्च तलैरपि
तदर्धैर्लाजसंयुक्तं नवकोष्ठं प्रकल्पयेत् ८५
मध्यमे मूर्तिकु म्भं तु आवृतं परिवारकैः
ब्रह्म ईशानयोर्मध्ये वर्धनीं पश्चिमाननम् ८६
ससूत्रं सापिधानं च सवस्त्रं पल्लवान्वितम्
कु ञ्जद्वयं तु माषं स्यात्कलशं मध्येथ निक्षिपेत् ८७
माषविंशतिनिष्कस्यात्कु म्भमध्ये स्वपुष्पकम्
तदर्धं वर्धनीं चैव तदर्धार्धमथापि वा ८८
तत्तद्ध्यानमनुस्मृत्य उपदेशस्य मार्गतः
आसनावरणादीनि विघ्नेशं पूजयेद्बुधः ८९
विघ्नेशाभिमुखान्सर्वान् पूर्वादिक्रमशोऽर्चयेत्
तत्तत्स्वनाममन्त्रैश्च गन्धपुष्पादिभिर्यजेत् ९०
लोकपालान्समभ्यर्च्य यागेशन्त सुपूजयेत्
अंश पूजयित्वा तु विद्यापीठं सुपूजयेत् ९१
ततो होमं प्रकर्तव्यमेकाग्नेस्तु विशेषतः
चतुरश्रस्य कु ण्डस्य लक्षणं पूर्ववत्कु रु ९२
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत्
अग्निमध्ये तु तं ध्यात्वा परिवारगणैः सह ९३
नाममन्त्रैः समभ्यर्च्य धूपदीपेन पूजयेत्
समिदाज्यचरूं लाजान्हृदयादीनि मन्त्रकैः ९४
अपूपं पृथुकं सक्तुनालिके रगुलं तथा
विल्वमूलं फलं चैव गणेशस्य षडङ्गकैः ९५
शतमर्धं तदर्धं वा तदर्धं चैव होमयेत्
यावत्कु लेऽपचारं तु तावत्कर्म समाचरेत् ९६
अह्निरात्रीं प्रकर्तव्यं बलिहोमं समाचरेत्
होमावसाने तत्काले देवानाहूय ताडयेत् ९७
अङ्कुशं प्रतिमं चैव हविर्लिङ्गं च पादुकम्
रङ्गे वा शिबिकायां वा परिचारसमावहेत् ९८
घण्डारवसमायुक्तं गणिकादिभिरावृतम्
नानाछत्रसमायुक्तं नानावाद्यसमन्वितम् ९९
नानाभक्तजनैः सार्धं जयशब्दसमन्वितम्
द्वारादि द्वारशोभान्तं शुद्धान्नं च बलिं ददेत् १००
ध्वजादिबलिपीठान्तं गुलान्नं च बलिं ददेत्
दिनदेवबलिं दत्वा तत्तत्पीठस्य वामके १०१
गणेशस्कन्दभूतांश्च नागविष्णुशिवस्तथा
ब्रह्मा च ब्रह्मपत्नी च क्षेत्रपालाश्च देवताः १०२
अपूपं पद्मपत्रं च शुद्धान्नं करवीरकम्
रजनी मल्लिका पुष्पं शङ्खपुष्पं घृतं मधु १०३
तुलसीं च फलं चैव अर्कं चैव घृतं तथा
श्वेताब्जं पायसं चैव नीलोत्पलं च शर्क रः १०४
रक्तपुष्पं च मांसं च दिनदेवाः क्रमेण तु
तत्तद्द्रव्यं चरुं मिश्रं तत्तत्पुष्पसमन्वितम् १०५
तत्तन्मन्त्रसमायुक्तं दिनं प्रति बलिं द्वयम्
एवं बलिक्रमं कृ त्वा प्रविशेदालयं प्रति १०६
धूपदीपं ददेत्कार्यं नीराजनमथाचरेत्
उपचाराणि सर्वाणि यदुक्तं कारयेद्दृढम् १०७
ततो यानं प्रकर्तव्यं वीथीं तोरणसंयुताम्
दर्भमाला समायुक्तां नानाश्चर्यसमन्विताम् १०८
उद्दिश्य देवान्सर्वांश्च नानाचित्रैरलङ्कृ तान्
सर्ववाद्यसमायुक्तं सर्वभक्तजनैः सह १०९
पुरतः सर्वविप्राश्च तदन्ते ब्रह्मयोगिनः
ततस्तपस्विका प्रोक्तास्तदन्ते नृत्तमाचरेत् ११०
तत्र देव्याश्च सर्वेषा सत्पार्श्वे नृपवर्तिनाः
आचार्यो मूर्तिपैश्चैव दक्षपार्श्वे च वर्तिना १११
नानाछत्रसमायुक्तं नानाचामरसंयुतम्
तत्पृष्ठे वंशकाश्चैव विनोदालोकनन्दनः ११२
अन्यासांश्च लीलां च अन्यजातिषु मिश्रकम्
तत्पार्श्वेण सर्वभक्ताश्च पु++र++ ११३
शनैः प्रदक्षिणं कु र्यात्सर्वत्र ज्वलदीपिकैः
कर्पूरेण च मिश्रं तु ताम्बूलं विकिरेत्क्रमात् ११४
वीथिमध्ये तदग्रे तु प्राप्य देवालयेति
भक्ष्यादीनि विवेद्याथ ताम्बूलं च निवेदयेत् ११५
नृत्तगीतं च वाद्यं च तोषयेच्छम्भुमादरात्
प्रथमं मूषिकं चैव द्वितीयं पिच्छवाहनम् ११६
भृतारूढ त्रितयं च चतुर्थं वृषहनम्
पञ्चमं शक्तिवैकल्यं गाजारूढं तु षष्ठमम् ११७
सप्तमं नृत्तकल्याणं मृगयात्राष्टमं भवेत्
नवमं च रथारोहं दशमं तीर्थकर्म च ११८
नवाहादीनि कर्तव्यं तत्तद्वाहनमुत्तमम्
सप्ताहं वा प्रकर्तव्यं तत्तद्वाहनमुत्तमम् ११९
सप्ताहं वा प्रकर्तव्यमष्टमं नवमं विना
पञ्चाहं वा प्रकर्तव्यं षष्ठाद्यमष्टमं विना १२०
अह्निरारौ प्रकर्तव्यं तत्तद्वाहनमुत्तमम्
अथवान्यप्रकारेण यानक्रममिहोच्यते १२१
पञ्चमं शिबिकारूढं रङ्गं वापि प्रकल्पयेत्
सप्तमं शक्तिवैकल्य अष्टमं गजमेव वा १२२
नवममृगयात्रां च दशमरथमेव च
तद्दिने तीर्थकर्मं च अवरोहं यथा भवेत् १२३
तत्तद्दिनविहीनं चेदपरे द्वयमाचरेत्
रथविच्छिन्नहीने च रङ्गे यानमिहोच्यते १२४
सर्वदेवान्समाहूय रङ्गे सर्व सुपूजयेत्
तत्तद्देवान्समारोप्य यानान्ते स्नपनं कु रु १२५
तत्तत्प्रतिमबेरं च च्छिस ++++
++++++++++++++++ १२६
दत्वा पाद्यादि नित्यपूपादि निवेद्यकैः
ताम्बूलं च निवेद्यैव स्तोत्रमङ्गलसेवितम् १२७
+++++ च गणिका बहुरूपकैः
नानाविधैश्च नृत्तैश्च नानाजाति समाचरेत् १२८
वीणादिवाद्यसंयुक्तं शम्भुं तत्रैव तोषयेत्
भ्र ++++++++++++ बुलदापयेत् १२९
तत्पूर्वे परिवेदमं च पूर्वमेव क्रमेण तु
वात्रार्थस्नपनं पश्चाच्छान्तिहोमं च कारयेत् १३०
नित्यं नैमित्तिकं +++++++++++ चरेत्
महेशं पूजयेत्तत्र सर्वकलार्चनवत्कु रु १३१
सप्ताहदिवसात्पूर्वे रात्रौ होमावसानके
नटेश्वरं समभ्यर्च्य सर्वालङ्कारशोभितम् १३२
कौतुकं बन्धयेद्धीमान्पूर्वोक्तविधिना ततः
ग्रामप्रदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् १३३
अधिवासनकार्यं तु पूर्वमेव +++++
+++++ कं सर्वं पूर्वमेव समाचरेत् १३४
एवं नटेशकल्याणं मृगयात्रां ततो भवेत्
तद्रात्रौ च निवेद्यान्ते तीर्थार्थं कौतुकं मतम् १३५
तीर्थसंग्रहणं यावत्तावत्तीर्थान्तमाचरेत्
चूर्णोत्सवं ततः कृ त्वा यागकु म्भाभिषेचनम्
विबुधस्याध्वरं कु र्यात्सिद्धिदेवान्विसर्जयेत् १३६
अपरे दिवसे चैव शुद्धस्नानं समाचरेत्
प्र++++++++++++++ निवेदयेत् १३७
शेषकर्मणि सर्वाणि शिववत्कारयेद्बुधः
आयुरारोग्यजयदं सदा विजयवर्धनम् १३८
इह लोके सुखं प्रा++++++++++
प्रायश्चित्तार्थकर्माणि प्रायश्चित्तोक्तवर्त्मना १३९
मन्त्रभेदं विशेषोस्ति क्रियाभेदो न विद्यते
तस्मात्सामान्यमेवोक्तं सर्वधामसु ++++ १४०
इति गणेशोत्सवपटलः