३१ विघ्नेशार्चनम्

शुभमस्तु
अथातः संप्रवक्ष्यामि विघ्नेशयजनं परम्
भुक्तिमुक्तिप्रदं नॄणां पुत्रपौत्रविवर्धनम् १
ग्रामवृद्धिकरं पुण्यं विपिने खेटनेऽपि च
पुरे वा कु ब्जके वापि विशेषाद्राजधानिके २
एतेषु कल्पयेद्धीमान्हस्तिपृष्ठमथापि वा
पूर्वादिषु चतुर्दिक्षु द्वारं संकल्प्य बुद्धिमान् ३
बलिपीठादि कर्तव्यं काम्यार्थं तु विशेषतः
ग्रामपालादि वीरान्तं विघ्नेशं चाधुनोच्यते ४
विनायकं वाथ नृत्तं वा स्थापये तु क्रमेण तु
पत्तनेच्छिष्टरक्षोक्षिप्रहेरम्बौ खेटके ५
लक्ष्मीं च विजयं चैव प्रभो नागं च नृत्तं च
कु ब्जके तु विशेषतः
राजधानौ हरिद्रं च सर्वेषामपि कारयेत् ६
सर्वस्थानेषु कर्तव्यं प्रकल्पयेत्
शैत्यव्रक्षादिके षु वा ७
ऐशान्यां सुखदं प्रोक्तमाग्नेय्यां जयदं विदुः
याम्यायां भवनार्थं तु नैरृत्यां बुद्धिविवर्धनम् ८
सौम्यायामन्नकामार्थादैशान्यां सर्वकामदम्
वीरयग्रे शान्त्यदं प्रोक्तं मध्ये सु ++++ ९
++++ स्थाने न्यस्तवस्तु गणाधिपः
स्वतः प्रधानं सागं च स्थानतस्मृतम् १०
परिवारसमायुक्तं कु र्यात्स्वतः प्रधान
+++++++++ विघ्नेशं पूजयेद्गुरुः ११
प्रागुक्तविधिना स्नात्वा सकलीकरणं कु रु
पूजाद्रव्याणि संगृह्य प्रोक्षयेत्पूर्व ++ १२
+++ दाय पूजयेद्वाररक्षकौ
तत्तत्स्थानात्समुद्धृत्य ग्रामं चे तु विशेषतः १३
एवं निर्मितमेवोक्तं ग्रामेशयजनं स्मृतम्
अन्यस्थानानि मूर्तिनां क्रियाभेदो न विद्यते १४
मूर्त्तभेदेन कर्तव्यं मन्त्रभेदमिति स्मृतम्
द्वारस्य दक्षिणे भागे मयेशं पूरणोदरम् १५
चतुर्हस्तं च लम्बोष्ठं तप्तकाञ्चनसन्निभम्
पाशाकरभयं दक्षेलस्सुकं क्रमार्जितम् १६
एवं ध्यात्वा समभ्यर्च्य स्वनामपदध्यतः
द्वारस्य वामपार्श्वे तु माधवं कृ ष्णवर्णकम् १७
लम्बोदरं महाकायं चतुर्हस्तं तु लक्षयेत्
अक्षाभयकरं दक्षे वरदांशौ तु वामके १८
एवं ध्यात्वा समभ्यर्च्य द्वाराग्रे वाहनं यजेत्
पूर्ववद्वारमभ्यर्च्य प्रविश्याद्यन्तरे ततः १९
वास्तु ब्रह्माणमभ्यर्च्य बेरशुद्धिं समाचरेत्
कु रु संकल्लयेत्तत्र विदिक्षु च दिशासु च २०
धर्मज्ञानं च वैराग्यमैश्वर्यं चैव पदादिकम्
अधर्मादीलिकां प्रोक्तपूर्वादियुगदिक्षु च २१
गुणत्रयेण संछाद्य तस्योर्ध्वेब्जासनं न्यसेत्
तन्मध्ये विन्यसेन्मूर्ति नृत्तध्यानमनुस्मरन् २२
खान्तं रान्तसमायुक्तं यान्तं मायासमन्वितम्
त्रयोदशान्तसंयुक्तं षष्ठस्वरसमन्वितम् २३
मूलमन्त्रमिदं प्रोक्तं नायके स्य विशेषतः
पश्चादावरणं पूज्य गर्भावरणमेव च २४
पुरुषं पूर्वदेशे तु अघोरं दक्षिणे ततः
सद्यं तु पश्चिमे न्यस्य वामदेवं तथोत्तरे २५
ईशानेत्वीशमन्त्रेण चाग्नेयां हृदयं यजेत्
नैरृत्यां तु शिखा पूज्य वायव्यां कवचं यजेत् २६
परिवारांस्तथा पूज्य ततस्याग्रे मुष्टिकं यजेत्
शुक्रं बृहस्पतिं चैव अश्विन्यौ च तथैव च २७
विश्वेदेव च विप्रेन्द्रं ज्येष्ठदेवीं तथैव च
शास्तारं चैव दुर्गान्ता प्रदक्षिणक्रमेण तु २८
विन्यसे तु विशेषेण पूजयेत्स्वस्वनामतः
वरदानष्टमूर्तिंश्च प्राग्दलादिविन्यसेत् २९
स्वप्रभृतं स्वक्रं च वामनं शङ्खपालनम्
महावीरं भैरवं च वीरेशं चोग्ररूपिणम् ३०
शुक्लं कृ ष्णं हरीतारं श्यामं रक्तं तथानलम्
काश्मीरं धूम्रवर्णं तु सुप्रभूतादि वर्णकम् ३१
खड्गखेटकहस्तांश्च भीमरूपान्सुदंष्ट्रकान्
सर्वाभरणसंयुक्तानूर्ध्वके शालकान्वितान् ३२
द्विनेत्रान्भीमवदना नस्वनामाद्यक्षरैर्यथा
एवं कृ त्वा यजेत्तत्र गन्धाद्यैरुपचारकैः ३३
नैवेद्यं दापयेत्तस्मै ताम्बूलं दापयेत्ततः
पाद्यमाचमनीयार्घ्यं स्वस्थानेषु प्रकल्पयेत् ३४
धूपदीपं हृदा दत्वा आरात्रिकमथाचरेत्
ऋग्यजुःसामवेदांश्च सूत्रमेवं समाचरेत् ३५
नागमेवसमायुक्तं नृत्तगीतसमाकु लम्
सर्ववाद्यसमायुक्त षयेत्पारशवस्मृतः ३६
विबुधमीशदिग्भागे निर्माल्यं दापयेत्क्रमात्
शङ्खध्वनिसमायुक्तं पूजयेत्तु विशेषतः ३७
शेषमेवं तु यत्कर्म पूर्ववत्तत्समाचरेत्
अस्मिन्शास्त्रमहं वक्ष्ये शृणुत्वं निधनेशः ३८
मोहादज्ञानतो भ्रान्त्या कर्तुरिच्छावसेन वा
विपरीतार्चनं कु र्यात्स्थानवृद्धिं न कारयेत् ३९
कर्तृणां च स्थपत्यौ च राजराष्ट्रसमं भवेत्
दिनत्रयादिसमान्तं वत्सरत्रयमेव वा ४०
इत ऊर्ध्वं न कर्तव्यं तेनापि मरणधृवम्
तस्मात्सर्वप्रयत्नेन उत्थं कर्मसमाचरेत् ४१
स्वस्वमन्त्रैः समभ्यर्च्य सकलानां यथाक्रमम्
इतयदर्चनमित्युक्तमादिशैवो यथा कु रु ४२
इति स्वायम्भुवे गणेशार्चनपटलः