अथ वक्ष्ये विशेषेण संकोचविधिरुच्यते
मण्डूकसर्पमेवं तु भृंगिपुष्पं च संभवेत् १
आर्षादिषु च लिंगेषु मण्डूकसर्पसंग्रहम्
प्रमादाद्भृंगिपुष्पं च नवीकर पूर्वकरम् २
स्वायंभुवे विशेषेण मूलसंकोचमाचरेत्
उत्तमं चरराशिः स्यान्मध्यमं भवराशिकम् ३
भटाशि शुभसंयुक्तं राक्षादीनां न विद्यते
चरस्थिरोभयं चैव मेषाद्याश्च पुनः पुनः ४
द्वारं चाहं च गर्भं च त्रित्रिमेषादिसंज्ञिकम्
पूर्वोक्तलक्षणोपेतं मण्डपं कारयेत्सुधीः ५
अंकु रार्पणकार्यं तु पूर्वमेवक्रमेण तु
स्थापनादिवसात्पूर्वे रात्रौ चैव विशेषतः ६
मूलाग्रे तु विशेषेण पूर्ववत्स्थण्डिले कृ ते
कु म्भान्संस्थाप्य विधिवद्विधिना देशिकोत्तमः ७
मूललिंगं समाराध्य गन्धाद्यैर्भूषणैस्सह
प्रस्तुत्य देवदेवेशं ककु कस्समनुज्ञया ८
एकमासं समाराध्य अब्दद्वयसमासिते
ष्वन्तरेन वित्वानां पुनः स्थापनयाद्यहि ९
इति विज्ञाप्य कर्ता तद् देशिके न सहैव तु
लिंगाद्देवं समावाह्य लिंगमध्ये तु विन्यसेत् १०
पीठाद्देवीं समावाह्य मध्यमे वर्धनीं न्यसेत्
तदग्रे होमकर्मार्थं स्थण्डिलं सिकतैः शुभैः ११
अग्न्याधानादिकं सर्वं प्रागुक्तविधिना चरेत्
मूलेनैव तु मन्त्रेण आषाढ्या समिधा हुनेत् १२
घृतं घृतेन मन्त्रेण घृतमन्नं तु वर्मणा
प्रत्येकं शतमर्धं वा तदर्धं वापि होमयेत् १३
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिमथाचरेत्
वारैरंगारकाद्यैश्च नक्षत्रैस्तुरगादिभिः १४
मेषाद्यैर्मासिकैश्चैव तिथिभिः प्रथमादिभिः
जुहुयात्सप्ततः पश्चात् यावत्कालक्षणार्हकम् १५
एतेष्वन्धतदग्नौ तु क्षणहोममिति स्मृतम्
क्रमाभानुद्धृत्य ++ पूर्वोक्तभूषणैस्सह देशिकः १६
संस्थाप्य वेदिकायां तु सर्वं पूर्ववदाचरेत्
सुदृढं पंचरं स्थाप्य पंजरस्थाय संभवेत् १७
मन्त्रन्यासं च कर्तव्यं कु म्भान्पूजान्हृदि न्यसेत्
विद्येशादीनि कु म्भानि तत्तत्स्थानेऽभिषेचयेत् १८
मन्त्रपुष्पं तदन्ते तु पायसं च निवेदयेत्
स्थापनं शान्तिहोमं च कारयेद्विधिपूर्वकम् १९
महाहविर्निवेद्याथ तोषयेत्परमेश्वरम्
शिल्पिकर्मावसानान्तं यथाविधिपुरस्सरम् २०
दिनं प्रतिविशेषेण नवकं शान्तिहोमकम्
एवं क्रमेण कर्तव्यं कारयेत्तु विचक्षणः २१
पंजरस्तु विसृज्याथ अन्ये संप्रोक्षणं कु रु
मूलसंकोचमित्युक्तं बालस्थापनमाचरेत् २२
इति स्वायंभुवे प्रतिष्ठातन्त्रे मूलसंकोचविधिपटलः ४७
स्वायम्भुवम्