२९ गौतममते यानसंहितायां रथमानम्

वक्ष्ये हं रथमानं च शृणुष्व निधनेश्वर
देवद्विजनृपाणां च योग्यमारोहणार्थकम् १
द्विचक्रादिदशान्तं च एकैके न प्रवर्धनात्
द्विचक्रं शकटं चैव सर्वकार्यार्थसाधनम् २
त्रिचक्रं नित्यपूजायां यागादीनां चतुष्टयम्
युद्धे तु भूयतीनां च पंचचक्रं विधीयते ३
महोत्सवविशेषेण षट्सप्ताष्ट च चक्रयुक्
नवचक्रं विशेषेण दिग्युतार्थं तु भूपतेः ४
यथा योग्यं तथा कु र्यात् चक्रं तु शिल्पवित्तमः
चक्रसंख्या ततः प्रोक्ता विस्तारायाममुच्यते ५
वितस्तित्रयमारभ्य षट्षडंगुलवर्धनात्
एकादिदशवितस्त्यन्तं रथतारमिहोच्यते ६
त्रिहस्तं तु समारभ्य हस्तैके न प्रवर्धनात्
नवहस्तान्तविस्तारं सप्तमानं रथे विदुः ७
गर्भगेहे विधेर्वानि समं त्रिपादमर्धकम्
पादाधिकं विशेषेण अर्धाधिकमथापि वा ८
द्वारोत्सेधसमं वापि पादं वार्धाधिकं तु वा
त्रिपादद्विगुणं चैव त्रिगुणान्तमुदीरितम् ९
उत्तमं मध्यमं चैव हीनं चेति त्रिभेदकम्
विस्तारमेवमाख्यातं आयामं तु विधीयते १०
तद्विस्तारसमाख्यापि पादमर्धाधिकं तु वा
त्रिपादद्विगुणं चैव त्रिगुणान्तमुदीरितम् ११
आयामत्रिविधभेदेन हारयामं विधीयते
विस्तारसममुत्सेधं मध्यमर्धं त्रिपादकम् १२
द्विगुणं चोच्छ्रितं तस्मात् त्रिगुणान्तमुदीरितम्
अक्षोत्तरादिस्थूप्यन्तं उपाधानादि चोक्तवत् १३
उपपीठादिकं चैव अधिष्ठानं विधीयते
अधिष्ठानादि चोत्सेधं पूर्वोक्तं द्विगुणोन्नतम् १४
भारसंख्यादिकं चैव द्विहारादिनवान्तकम्
त्र्यंगुलं समारभ्य एकैकांगुलवर्धनात् १५
दशांगुलावधिर्यावत् भारविस्तारमुच्यते
विस्तारात्तु विशेषेण एकैकांगुलकम्पनम् १६
अक्षसूत्राद्बहिः कु र्याद् हस्तं त्रिपादमेव वा
मुखे पृष्ठादिकं कु र्यात् तदग्रं बोधितोन्नतम् १७
मुखवामं विशेषेण भक्तिवामं तदेव हि
दरविस्तारतुल्यं स्यात् कु लीरांघ्रिविशालकम् १८
अक्षोरातदयं चैव कु लीरांघ्रिविशेषतः
भारो भारोत्तरे चैव कु लीरांघ्रिं नियोजयेत् १९
कु लीरांघ्रियुतं चैव अयः पट्टैर्द्रढी कृ तम्
अयः पट्टैश्च कीलैश्च स्वाग्रकीलैर्द्रढी कृ तम् २०
तिर्यग्भारं विशेषेण विस्तारार्धघनं भवेत्
त्र्यंगुलं समारभ्य एकैकांगुलवर्धनात् २१
षडंगुलान्तविस्तारं तुल्या सार्धघनं भवेत्
चिद्रभारमिति प्रोक्तं तदूर्ध्वे चोपधानकम् २२
उपधानत्रिवर्गं च अश्वपंक्तिभिरावृतम्
तदूर्ध्वे गजपंक्तिः स्याद् तदूर्ध्वे भूतपंक्तिकम् २३
वग्यमर्धार्धमेवोक्तं कपोतन्तु विशेषतः
भारोत्सेधं त्रिभागैकं अर्धं पादं कपोतकम् २४
उपधानानदयः पत्यं कपोतांशमुदाहृतम्
पट्टनाराचकीलैश्च स्वाग्रकीलैर्द्रढीकृ तम् २५
एकद्वित्रिचतुष्पंचषट्सप्ताष्टकहस्तकम्
विस्तारभक्तिकं चैव आयामं तु विशेषतः २६
समपात्या तदायामं एकद्वित्रिक्रमाधिकम्
बाह्यमाभ्यन्तरं मध्यं मानसूत्रं विशेषतः २७
मध्यसूत्रं तु तच्छेष्ठं मानसूत्राद्विशेषतः
एकद्वित्रिचतुः पंच पंक्त्यात्येकतलं भवेत् २८
त्रिचतुः पंचषट्सप्त द्वितलं प्रविधीयते
षट्सप्तनागनन्दं च पंक्त्या च त्रितलो भवेत् २९
नवपत्येकादशं चैव द्वादशान्तं चतुस्तलम्
षडंगुलं समारभ्य एकैकांगुलवर्धनात् ३०
मनुमात्रान्तविस्तारं अक्षतारं तु तद्घनम्
अक्षायामं विशेषेण रथतारद्वयाधिकम् ३१
सार्धांशं तु त्रिपादं च अक्षायामं विधीयते
मानसूत्रां तु तद्बाह्ये नेम्यन्तरं विशेषतः ३२
षडंगुलं समारभ्य द्विद्व्यंगुलविवर्धनात्
चतुर्विंशांगुलान्तं स्याद् भारा नेम्यन्तरं भवेत् ३३
तदग्रे तु शिखायामं अंगुली तद्विशेषतः
वितस्त्येकं समारभ्य द्विद्व्यंगुलविवर्धनात् ३४
द्वात्रिंशदंगुलं प्रोक्तं शिखायामं विधीयते
पार्श्वद्वयं समं तत्र अक्षायाममुदाहृतम् ३५
रथतारसमं चैव नेम्या तारमिति स्मृतम्
अर्धं त्रिपादहीनं वा विस्तारं तु विशेषतः ३६
त्रिहस्तं तत्समारभ्य त्रित्र्यंगुलविवर्धनात्
पंचहस्तावधिर्यावत् एकोनत्रिंशदंशकम् ३७
चक्रतारत्रिभागैकं कु क्षिविस्तारमेव च
पंचांशं द्व्यंशकं वापि सप्तांशे तु त्र्यंशकम् ३८
नाभिवृत्तमलंकृ त्य वृत्तं वा चतुरश्रकम्
कु क्षितारत्रिभागैकं नाभिविस्तारमिष्यते ३९
वितस्त्येकं समारभ्य द्वित्र्यंगुलविवर्धनात्
एकहस्तं तु वृध्या तु चक्रमाभिघनं भवेत् ४०
नाभितारं त्रिभागैकं पंचांशं द्व्यंशमेव वा
सप्तांशे तु चतुर्भागं चक्रभागघनं भवेत् ४१
अथवा चक्रमार्गेण अंगुल्यं तु विशेषतः
त्र्यंगुलं समारभ्य एकैकांगुलवर्धनात् ४२
नवांगुलावधिर्यावत् चक्रमार्गघनं भवेत्
कु क्षिविस्तारवलं पूर्णचन्द्रोपमं दृढम् ४३
पार्श्वद्वयोर्विशेषेण कु क्षिवृत्तं दृढीकृ तम्
अंगुलत्रिच्चतुर्भागैः नाभेर्घनं न पार्श्वयोः ४४
नाभिवृत्तमलंकृ त्य अयः पट्टैर्द्रढी कृ तम्
कु क्षिताराद्यवक्षीणं शिखावृत्तसमन्वितम् ४५
नाभिबह्याच्छिखायामं अंगुलेन विशेषतः
त्रिचतुः पंचषट्सप्तचाष्टनन्दांगुलं भवेत् ४६
चक्रवृत्तं तु तद्द्रव्यैः पंचद्रव्यैस्तु योजयेत्
विस्तारं त्रिचतुर्भागं मध्ये कीलं तु योजयेत् ४७
निच्छिद्रं निर्व्रणं तत्र वर्जयेत्पूर्णचन्द्रवत्
अयः पट्टैस्तु वलयं महावृत्तेन बन्धयेत् ४८
नाभिबाह्यावृतं तत्र अर्कादीन्देवतान्न्यसेत्
कु म्भमध्यादिसंयुक्तं तत्तत्पार्श्वो पुरोक्तवत् ४९
एवं चक्रमलंकृ त्य पूर्वोक्तविधिमार्गतः
शान्तिकं पौष्ठिकं चैव जयदं चोद्गतं तथा ५०
सर्वकामिकमित्येते एवं नात्मा प्रकीर्तितम्
अधिष्ठानादि चोत्सेधं शान्तिकं तु विधीयते ५१
उपपीठादिचोत्सेधं पौष्टिकं समुदाहृतम्
उपधानादिस्थूप्यन्तं जयदं तदुदाहृतम् ५२
अक्षावधिविशेषेण स्थूप्यन्तं चाद्भुतं भवेत्
द्विगुणाद्यधिकं चैव सर्वकामिकमुच्यते ५३
विस्तारे सप्तभागं तु त्र्यंशोच्चं तु शान्तिकम्
विस्तारार्धं तदुत्सेधं पौष्टिकं तु विधीयते ५४
विस्तारस्य त्रिपादोच्चं जयदं समुदाहृतम्
विस्तारद्विगुणोत्सेधं अद्भुतं तु विधीयते ५५
द्विगुणादधिकोत्सेधं सर्वकाममिति स्मृतम्
शान्तिकं नित्यपूजायां पौष्टिकं यागकर्मणि ५६
जयदं नृपतेर्युद्धे अद्भुतं तु महोत्सवे
सार्वकामिकमित्युक्तं द्विद्विजे नृपतेर्भवेत् ५७
पूर्वोक्तविधिमार्गेण सर्वसिद्धिकरं परम्
अधिष्ठानादधस्तात्तु उपपीठं प्रयोजयेत् ५८
शोभार्थं च बलार्थं च उन्नतार्थं च योजयेत्
अधिष्ठानसमोच्चं वा पादमर्धं त्रिपादकम् ५९
द्विगुणोत्सेधमानं तु हीनं वाप्यधिकं नयेत्
उपपीठस्य चोत्सेधं षड्विंशदंशकं भवेत् ६०
उपानोच्चद्विभागेन पद्मोच्चं चैव तत्समम्
अर्धांशं याजनं चैव पद्ममर्धांशकं विदुः ६१
पट्टिकोच्च द्विभागेन अधः पद्मार्धमंशकम्
कर्णमर्धांशमित्युक्तं उत्तरं चैकभागया ६२
याजनं चार्धभागं स्यात् कपोतोच्चं द्विभागिकम्
आलिंगार्धं त्रिभागेन एकांशान्तरितं भवेत् ६३
द्विभागं प्रतिकोत्सेधं एकांशं प्रतियाजनम्
उपपीठस्य चोत्सेधं भद्रो भद्रमानकम् ६४
विस्तारं त्रिचतुः पंचेष्वेकांशं भद्रमुच्यते
मुखे पृष्ठे विशेषेण पश्चाद्द्वयसमं भवेत् ६५
तले तले विशेषेण भद्रो भद्रं तदुक्तवत्
उपभद्रान्वितं पूर्वं योजयेच्छिल्पवित्तमः ६६
अधिष्ठानस्य चोर्ध्वे तु नाटकान्तेषु योजयेत्
देवास्तदूर्ध्वे कर्तव्यं प्रस्तरान्ते विशेषतः ६७
भक्त्यन्तरेण चैवोक्तं महाकिलद्रढीकृ तम्
एकद्वित्रिकिलं वाथ यथाबलवशान्ययेत् ६८
सिंहैश्च मकरैर्व्यालैः भूतैः पत्रादि शोभितम्
नृत्तगीतादिवाद्यैश्च उपपीठं विशेषतः ६९
उपपीठादिधिष्ठा निर्गमः कथ्यतेऽधुना
एकभक्तिविशालं वा त्रिभागं वार्धभक्तिकम् ७०
उपपीठांघ्रिमारभ्य अधिष्ठानविनिर्गमम्
अधिष्ठानोदयं चैव एकविंशतिभाजिते ७१
उपानोच्चद्विभागं स्याद् पद्ममभ्रंशके न तु
कर्णमेकांशमित्युक्तं पद्मं पादसमन्वितम् ७२
सार्धांशं मुकु लोच्चं तु पादांशं पद्मतुंगकम्
तदूर्ध्वे वाजनं चार्धं बाणांशं कर्णमुच्यते ७३
एकांशमुत्तरं चैव वाजनं चार्धमेव वा
एकांशं कम्पमित्युक्तं ऊर्ध्ववाजनकं भवेत् ७४
द्व्यर्धांशं तु कपोतोच्चं आलिंगं पादमुच्यते
अर्धांशं तु समायुक्तं एकांशं प्रतिवाजनम् ७५
प्रतिवाजनमर्धांशं एवं कु र्याद्विचक्षणः
तदूर्ध्वे नाटकं प्रोक्तं गह्यमानं विधीयते ७६
नाटकोदयमेवं स्याद् एकविंशतिभाजिते
वेदिकोच्चं गुणांशं तु सार्धांशं पट्टिकोदयम् ७७
स्थूप्यंशं कण्ठमानं तु अर्धांशमुत्तरं भवेत्
ऊर्ध्ववाजनपादांशं तदूर्ध्वे पद्ममूर्ध्वकम् ७८
वाजनं पादमेवं स्याद् अर्धांशं तु कपोतकम्
पादमालिंगमेवं स्याद् अर्धांशमन्तरी भवेत् ७९
प्रतिरर्धेन भागेन वाजनं चार्धभागिकम्
तदूर्ध्वे वाजनं कार्यं अधिष्ठानसमोदयम् ८०
अर्धं त्रिपादमेवं तु अधिष्ठानवशान्नयेत्
देवासनोदयं गृह्य पंचदशांशकं गच्छेत् ८१
द्विभागं वेदिकोच्चं तु अष्टांशं कण्ठमानकम्
अर्धांशमुत्तरं चैव वाजनं पादमेव वा ८२
अर्धांशं पादमेवोक्तं ऊर्ध्वज्व निपादकम्
अर्धांशं तु कल्पोतं स्यात् पादमालिंगमेव च ८३
पादमन्तरितं चैव ++ पादं प्रतिकं भवेत्
ऊर्ध्ववाजनपादांशं देवासनमुदाहृतम् ८४
अतोत्सेधांशमानेन पंचविंशतिकं भजेत्
अधिष्ठानं युगांशं तु पादमष्टांशकं भवेत् ८५
त्र्यंशं मंचमानं स्यात् त्रिपादं वेदिकोदयम्
अर्धांशं गलमानं तु युगांशं शिखरोदयम् ८६
पदार्धं स्थूपिकामानं एकभूमिवशं न्यसेत्
द्विभूमिर्वा विशेषेण पंचत्रिंशतिकं भवेत् ८७
अधिष्ठानं युगांशं तु सप्तांशं पादतुंगकम्
गुणांशं मंचमानं स्यात् ऊर्ध्वपादं षडंशकम् ८८
द्विभागं प्रस्तरोत्सेधं अर्धांशं वेदिकोदयम्
अर्धांशं गलमानं तु वाणांशं शिखरोदयम् ८९
द्विभागं स्थूपिकामानं द्वितलं सर्वसिद्धिदम्
यवदुत्सेधमानं स्यात् ++++++ ९०
मसूकरं युगांशं तु पादं सप्तांशमीरितम्
प्रस्तरोच्चं त्र्यंशं स्यात् षडंशं चरणोदयम् ९१
द्विपादं मंचमानं तु युगार्धमूर्ध्वपादकम्
सार्धांशमूर्ध्वमंचोच्चं अर्धांशं वेदिकोदयम् ९२
सार्धांशं गलमानं तु युगांशं शिखरोदयम्
सत्रिपादांशकं स्थूपीमानान्तं त्रितलादिषु ९३
पंचपंचविधं चैव नवाधिकं भजेत्तदा
धरातलं युगांशं तु अष्टांशं पादतुंगकम् ९४
प्रस्तरोच्चं त्रिधार्धांशं अष्टांशं चांघ्रितुंगकम्
द्व्यर्धांशं मंचमानं तु षडंशं चरणोदयम् ९५
तदूर्ध्वे प्रस्तरं कु र्यात् व्यासमेवं विधीयते
युगार्धमूर्ध्वपादं तु सार्धांशं मंचमानकम् ९६
एकांशं वेदिकोच्चं तु गुणांशं गलमानकम्
त्र्यंशार्धं शिखरोत्सेधं द्विभागं स्थूपिकोदयम् ९७
चतुस्तले विधेयानि रथमह्यामृदं परम्
प्रासादमानवत्कुर्यात् यथालंकारशोभितम् ९८
अधिष्ठानोपरिष्टात्तु पुरतो नालसंस्थितम्
नावोत्सेधं विशेषेण तालमानैर्विधीयते ९९
त्रिविधं तत्समारभ्य वितस्त्येकविवर्धनात्
सप्ताष्टान्तवितस्त्यन्तं उत्सेधं परिकीर्तितम् १००
पात्रचित्रादिकं चैव रत्नां गादिविभूषितम्
उत्सेधं नवपक्यंशे एकांशं मूलविस्तृतम् १०१
मूलतारं त्रिभागैकं अग्रतारमिति स्मृतम्
मूलादग्रं क्रमात्क्षीणं यथायुक्तिवशं नयेत् १०२
त्रिपद्मशोभितं कु र्यात् तदग्रे मुकु ला कृ तिम्
अधिष्ठानाद्युपानादि ++++++++
++++++++++ एकचित्तकभागिका
पुरतो मण्डपं कु र्याद् भद्रं भद्राभिशोभितम् १०३
तदूर्ध्वे सारथिं कु र्याद् यथाशोभाविशेषतः
ऋषभध्वजमेवं वा गरुडध्वजसंनिभम् १०४
भूपतिना ध्वजं चैव तत्तध्वजेन संयुतम्
ध्वजदण्डं पुरः स्थाप्य वस्त्रमाल्यैर्विभूषितम् १०५
तले तले विमानानि कू टकोष्ठादिशोभितम्
अधिष्ठानोर्ध्वपादेन तालमानैर्विधीयते १०६
एवं द्वित्रिचतुष्पंच षट्सप्ताष्टतालमानकम्
एकादिसप्तहस्तान्त हस्तमानवशोच्यते १०७
तत्पादाधिकमेवोक्तं योजयेत्तु विचक्षणः
सप्ताष्टनन्दपक्यन्तं यथा युक्तिवशं नयेत् १०८
चतुस्तम्भसमायुक्तं षोडशस्तम्भसंयुतम्
द्वात्रिंशत्स्तंभसंयुक्तं चतुष्षष्ट्या प्रसंयुतम् १०९
पादोच्चे पंक्तिनन्दाष्ट एकांशं वेदिकोदयम्
वेदिकोच्चं तु सप्तांशे गुणांशं गलमानकम् ११०
एकांशं कम्पमित्युक्तं द्विभागं वेदिकोदयम्
ऊर्ध्ववाजनमेकांशं वेदिकांशमुदीरितम् १११
पादायामं त्रिभागैकं पंचभागैर्द्विभागिकम्
कु म्भमण्ड्यादिसंयुक्तं गज्यमानं तु पूर्ववत् ११२
पंचदण्डायतं चैव चतुर्दण्डायतं भवेत्
त्रिदण्डायतमेवोक्तं उत्तमं मध्यमाधमम् ११३
भानुरुद्रदशांशे तु नन्दनागांगकैर्युतम्
एकांशमग्रहीनं तु दण्डस्याग्रविशालकम् ११४
चतुर्द्वारसमायुक्तं द्वारपालैश्च संयुतम्
चतुस्तोरणसंयुक्तं सर्वालंकारशोभितम् ११५
श्वेतैरक्तैश्च पीतैश्च मुक्तैः श्यामैश्च वर्तितम्
स्तम्भप्रच्छादनं चैव मुक्तादामैरलंकृ तम् ११६
नानावस्त्रैरलंकृ त्य नानालंकारशोभितम्
दर्पणं चामरं चैव छत्रं चेदिदि संयुतम् ११७
नानाध्वजसमायुक्तं तले तले न्यसेत्क्रमात्
शालाः कालार्जुनो निम्बो मधूककिरिणी तथा ११८
व्याघ्रं च पनसं चैव नागपुन्नागमेव च
खदिरं चैव पु + री च +++ तिंत्रिणी ११९
वृक्षाः स्वेन समाख्यानां आयादीत्युच्यते शुभम्
लिंगबेरवशात्तत्र भारनान्त तथोच्छ्रये १२०
समं वा द्विगुणं वापि गर्भगेहवशादिभिः
द्वारोच्चवशतो वापि अर्कादि मानवद्भवेत् १२१
रविविस्तारमाथान्तं ++ नामवति क्रमात्
आयादिशुभषष्ठं च रथोत्सेधे च शान्तये १२२
आयादि षट्च्छुभैर्युक्तं राजराष्ट्रशुभं भवेत्
अनुक्तमत्र यत्सर्वं तत्तच्छोभावशान्नयेत् १२३
अन्यशास्त्रेषु संगृह्य योजयेत्तु विशेषतः
इति स्वायंभुवे गौतममते यानसंहितायां रथमानं नाम सप्तत्रिंशोध्यायः ४६