द्विद्विचक्रबाह्यविस्ताराः षट्सप्ताष्टवितस्तयः
चक्रनाभिद्वयान्तर्हि छाया मोक्षोत्तरस्य तु १
हारबाह्यं च तावत्स्यात् विस्तारार्धाधिकायितम्
चतुस्त्रिद्व्यंगुलोत्सेध बाहल्याकभं च भारकाम् २
सप्तवार च तन्त्र + व्यासोत्सेधश्च पूर्ववत्
आयामानुगतास्तिर्यक् कल्पकं पं दृढी कृ ता ३
मध्यभारोपरिकृ तो मध्यनिर्गमनाग्रता
ललाटान्त्रिहस्तं दीर्घं चोर्ध्वाग्रं मुकु लाकृ तिः ४
मध्यागार इति प्रोक्तं कु बेरे युगभारभाक्
भारोपर्यंगुलघनाः फलकाः प्रस्तरोभवेत् ५
अक्षमक्षोत्तरं चक्रं पटं पारोपधानकम्
उत्सेधात्पंचषण्मात्रं बाहल्यद्विद्विमात्रकम् ६
अष्टादशांगुलं दैर्घ्यं पार्श्वे पारोपधारकम्
पोतकारससंयुक्तं अधः पट्टं दृढीकृ तम् ७
अक्षोर्ध्वोत्तरबाहुल्याद् अधच्छिद्रं न्यमध्यमम्
तदधस्त्वक्षरक्षार्थं पार्श्वयोर्बन्धनं भवेत् ८
उपधानविशालेन तुल्यं व्यासार्धनीव्रतम्
अक्षस्यावशिदैघ्याढ्यं दारुजं चतुरश्रकम् ९
अधः पंचकिलैश्चैव सशिखाभिर्द्रढी कृ तम्
स्वार्ध्वबन्धो धुरः पादोत्सेधं चैकार्धमिष्यते १०
अक्षान्तरसमं चक्रविस्तारं परिकीर्तितम्
अनाभिर्दशांगुलोत्सेधोऽपितस्यायामवृत्तकम् ११
तत्पट्टस्याभिमध्ये तु द्वात्रिंशद्वात्रिरष्टकम्
अष्टाष्टकं तु वा तत्र युक्त्या संख्यासमन्वितम् १२
आराणां दूलमग्रं तु त्र्यंगुलं सार्धमात्रकम्
मूले तु पणवाकारं मूलेग्रे शिखरान्वितम् १३
पादोत्सेधत्रिभागैकभागं स्याच्चुलिकोच्छ्रयम्
अग्रे पाश्वे च फलकं गुलिका पटिकान्तरे १४
पृष्ठे पंचांगुलोत्सेधं मुण्डपट्टिकया वृतम्
अन्तरे काणुपादस्य मुकु लाग्रान्तरान्तिकैः १५
भारे भारोपधाने चैवक्षो चाक्षोत्तरे तथा
कु बेर कू बरस्याग्रे त्वधः पश्चै कीलकैः १६
तत्तद्व्योग्यैश्च तत्स्थाने बन्धयेच्छभयेदपि
अक्षान्तेक्षान्तराच्चोर्ध्वे दारुकीलं प्रयोजयेत् १७
सर्वराजाधिपत्ये च राजयुद्धे महोत्सवे
मंगले देवपूजायां रथारोहणमिष्यते १८
व्यासं द्वित्रिगुणायामं चतुश्चक्रसमन्वितम्
भारोभयध्युत्तरोपेतं त्यश्रस्व पादोत्तरान्वितम् १९
भूतैश्चतुष्पदाद्यैश्च नाटकाभिरलंकृ तम्
चतुरष्टार्क संख्याभिः स्तम्भैर्युक्तं समञ्चकम् २०
षट्सहार्धपंचपंचैव तालेन चरणोदया
सप्ततालं तु वा दैर्घ्यं त्रिचतुर्वा तु विस्तरम् २१
स्वस्वपादवशात्तत्र पूर्ववच्चोत्तरादिकम्
एकद्वित्रितलोपेतं एकं वाथ चतुर्मुखम् २२
++ मण्डपो युक्तं वा सभा शाला शिरः क्रियः
त्रिचतुः पंचषट्सप्तहस्तं चान्तरमिष्यते २३
चक्रोत्सेधं चतुःपंच षट्तालं वाष्टनीव्रतम्
अक्षे चाक्षोत्तरे चैव हारे हारोपधानके २४
यथोक्तविपुलोत्सधोर्दारकीलद्रढी कृ तम्
एकद्वित्रितलोपेतं प्रासादवदलंकृ तम् २५
सर्वालंकारसंयुक्तं रंशे तद्योजयेद्दृढम्
तथैव गलिमानीकं योजनीयं विचक्षणैः २६
इति मयमते यानाधिकाराध्यायः ४५