अथ वक्ष्ये विशेषेण कृ त्तिकादीपलक्षणम्
कार्तिकाख्ये तु मासे तु तदृक्षे तिथिसंयुते १
उत्तमादित्रयं प्रोक्तं तद्भेदं शृणु सुव्रत
तन्मासे चैव कर्तव्यं योगयुक्तविशेषतः २
एकमासे द्विपक्षे तु पूर्णयुक्तं समाचरेत्
तस्मिन्पर्वणि तत्रैव कृ त्तिकर्क्षयुतं यदि ३
तत्र दीपं प्रकर्तव्यं विशेषं किं चिदस्ति हि
पर्वयुक्तं विना चेत्तु पूर्वपक्षं समाचरेत् ४
वारद्वयगते ऋक्षे तिथिर्वा योगसंभवेत्
पर्वयुक्तं विना द्वौ तु अपरे दीपमाचरेत् ५
पर्वऋक्षसमायुक्तं उत्तमं तु प्रशस्यते
मध्यमं चैव विज्ञेयं चतुर्थं चाधमं भवेत् ६
एवं क्रमेण कर्तव्यं धनधान्याभिवृद्धिदम्
सामान्यमुत्तमं प्रोक्तं सर्वप्राणिहितावहम् ७
आदित्यै गलिते चाग्निनक्षत्रे च हरिद्रके
दीपारोहं प्रकर्तव्यं वारापेक्षा न विद्यते ८
रव्यस्तमयवेलायां दीपारोहणमाचरेत्
कर्तुरष्टमराश्यादि लग्नदोषनिरीक्षणम् ९
विष्टिवैनाशिकर्क्षादि प्रोक्षणं नात्र संमतम्
तद्दिनात्पूर्वदिवसे अंकु रं पूर्ववत्कु रु १०
पूर्वरात्रे विशेषेण अधिवासनमारभेत्
मण्डपस्यैशदिग्भागे पूर्वे वा चोत्तरेऽपि वा ११
गोमयालेपनं कृ त्वा वितानाद्यैरलंकृ ता
रजनीपिष्टचूर्णं च नानाचित्रं च लेखयेत् १२
स्नानान्ते च निवेद्यान्ते पूजान्ते वा सुराशिके
देवदेवं च विज्ञाप्य विघ्नेशं पूजयेद्बुधः १३
पुण्याहं वाचयेत्तत्र स्थण्डिलं कारयेत्सुधीः
तल्लक्षणं पुरा प्रोक्तं कल्पयेत्तु विचक्षणः १४
षडूर्ध्वासनं तु संपूज्य नवपात्राणि विन्यसेत्
पंचपात्राण्यथैकं वा यथा वित्तानुसारतः १५
गोघृतैस्तान्समापूर्य वर्तिभिश्च समन्वितम्
ततो होमं प्रकर्तव्यं कु ण्डे वा स्थण्डिलेऽपि वा १६
नवाग्निं वाथ पंचाग्निं एकाग्निमथवा चरेत्
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् १७
समिदाजचरुं लाजान् सर्षपांश्च यवांस्तिलान्
सक्तु मुद्गैश्च कर्तव्यं षडंगैर्ब्रह्ममन्त्रकैः १८
एतैर्द्रव्यैः क्रमेणैव अष्टोत्तरशतं क्रमात्
द्रव्यान्ते व्याहृतिं हुत्वा द्रव्यैरेवं पृथक्पृथक् १९
मूलमन्त्रेण कर्तव्यं पूर्णाहुतिमथाचरेत्
तदग्नौ रोपयेद्दीपान् मध्यमादि यथाक्रमम् २०
ईशानाद्युत्तरान्तं तु दीपमारोपयेत्ततः
तत्रैव सर्वदीपांश्च प्रधानाभिमुखान्न्यसेत् २१
तत्प्रधानं तु पूर्वास्यं ऐशान्याभिमुखं तु वा
वामादिशक्तयश्चाष्टौ यजेन्मध्ये मनोन्मनीम् २२
ब्रह्माद्यान्पंचदीपे तु शिवदीपे शिवं यजेत्
पूजयेद्गन्धपुष्पाद्यैः +++ धूपदीपकैः २३
तदन्ते कौतुकं बध्वा दीपपात्रस्य वक्त्रके
एवं रात्रौ प्रकर्तव्यं अग्निबीजं जपेद्बुधः २४
प्रातः स्नानादिकं कृ त्वा आचार्यः सकलीकृ तः
नित्यसंध्यावसाने तु शिवपूजां विशेषतः २५
गणेशं पूजयेत्पूर्वं पुण्याहं वाचयेत्ततः
पंचगव्यं च संस्थाप्य पंचामृतं च साधयेत् २६
फलानि स्नानवस्तूनि स्नपनं साधयेद्बुधः
द्वारं संपूज्य विधिवत् लिंगशुद्धिं समाचरेत् २७
पंचामृतेन संस्नाप्य पंचब्रह्ममनुस्मरन्
तदन्ते मन्त्रपुष्पाणि मंत्रान्नं च निवेदयेत् २८
सकलादीनि बेराणि स्नानाद्यैः पूजयेद्बुधः
प्रभूतहविषं दद्यात् पूर्वोक्तविधिना सह २९
शान्तिहोमं च कर्तव्यं उपचाराणि पूर्ववत्
सायंकाले समारभ्य दीपारोहणमाचरेत् ३०
वृषपृष्ठे वृषाग्रे वा पीठाग्रे वा पुरोऽपि वा
गोपुराग्रेऽथ पूर्वे वा पश्चिमे सालि मध्यमे ३१
दण्डस्थानमिति प्रोक्तं दण्डद्रुममथोच्यते
क्रमुकं नालिके रं च चम्पकं चन्दनं तथा ३२
वंशं वाऽथार्जुनी वापि तिन्त्रिणी शिंशुपा तथा
मयूरं वकु लं वापि तालस्तम्बमथापि वा ३३
दीपदण्डमिति प्रोक्तं सारद्रुममथापि वा
अथवान्यप्रकारेण अस्तमानमथाचरेत् ३४
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात्
यावद्विंशतिहस्तान्तं उत्तमं मध्यमाधमम् ३५
पक्षांगुलं समारभ्य द्विद्व्यंगुलविवर्धनात्
चत्वारिंशांगुलं यावद् दण्डनाहं क्रमेण तु ३६
तन्मूले मुनिभागेन एकांशमग्रहीनकम्
दीपकीलत्रयं दण्डे योजयेच्चक्रवत्क्रमात् ३७
तद्दण्डं वसुधा कृ त्वा एकांशं भूमिवेशनम्
स्थापयेद्दीपदण्डं तु तज्जले वेदिकां कु रु ३८
एकांशं वेदिकोत्सेधं त्रिमेखलसमन्वितम्
विस्तारं तत्समोपेतं एकांगुलिविवर्धनात् ३९
अथवा वेदिकां कु र्याद् वेदिलक्षणवत्कु रु
क्षुद्रदण्डे प्रकर्तव्यं महादण्डे विशेषतः ४०
पृथिवीं खानयेत्तत्र दण्डस्थैर्यानुमानतः
तत्र वेदीं विना कार्या धिष्ण्यं चैव प्रकल्पयेत् ४१
अग्रदण्डे विशेषेण यन्त्रदीपं विसर्जयेत्
मूलचक्रं समाश्रित्य यावच्चक्रान्तरं विना ४२
पूर्वोक्तदीपसंयुक्तं कर्तव्यं शक्तिना सह
घटिकां बन्धयेद्यत्र वृत्तावृत्तं यथा तथा ४३
पूर्वे वा दक्षिणे वापि यन्त्रद्वारं प्रकल्पयेत्
एकद्वित्रि च हस्तं वा द्वारविस्तारमीरितम् ४४
विस्तारद्विगुणायामं क्रमेण विधिवत्ततः
बन्धकीलं तु दण्डाग्रे न्यस्त्वा हस्तप्रमाणतः ४५
दण्डाग्रे दक्षिणे वापि मण्डपं कारयेत्सुधीः
कू टं वापि प्रपां कु र्यात् सप्तपंचत्रिहस्तकम् ४६
गोमयालेपेनं कृ त्वा पंचचूर्णैर्विचित्रयेत्
वितानदर्भमालाद्यैः श्चतुस्तोरणभूषितम् ४७
स्थण्डिलं हस्तमात्रेण निर्दोषैः सिकतैः सितैः
अग्न्याधानादिकं सर्वं अग्निकार्योक्तवर्त्मना ४८
लवणं निम्बपत्रं च कार्पासं बीजमेव च
नेत्रमन्त्रमनुस्मृत्य अष्टोत्तरशतं हुनेत् ४९
जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत्
प्रायश्चित्तार्थकं कृ त्वा दीपस्थालीं नयेत्ततः ५०
प्रस्थपूर्णघृतेनैव फु त्तलीं पात्रमध्यमे
वह्निबीजं समादाय तद्दीपे योजयेत्सुधीः ५१
देवदेवं च विज्ञाप्य तद्दीपं पुत्तलीं नयेत्
वामादिशक्तयश्चाष्टौ तद्दीपे योजयेत् क्रमात् ५२
तद्दीपं प्रतिमां तत्र आलयं तु प्रदक्षिणम्
तं मण्डपं प्रविश्याथ प्रतिमां पूजयेत्ततः ५३
नृत्तगेयसमायुक्तं सर्ववाद्यसमायुतम्
कु रवशब्दसमायुक्तं जयशब्दसमाकु लम् ५४
शंखध्वनिसमायुक्तं स्वस्तिमंगलवाचकैः
आदित्ये गलिते काले दीपारोहणमाचरेत् ५५
गृहस्थो ब्रह्मचारी वा तद्दीपं गृह्य पाणिना
दण्डे सुशीघ्रमारोप्य चाग्रे तूत्तरदिङ्मुखः ५६
किलमध्ये न्यसेद्धीमान् दीपपात्रेषु योजयेत्
अग्रादिमूलपर्यन्तं ज्वालामालादिभूषितम् ५७
ध्यायेत्तज्ज्योतिपद्मं तु लिंगं पुराणपूर्वकम्
तत्काले त्वग्निकु ण्डानि दर्भैस्सर्वाण्यशेषकम् ५८
पारोहणकर्ता च वस्त्रयुग्मेन पादयेत्
प्रासादे देवताः सर्वा दीपैश्चैव विभूषयेत् ५९
पालिके षु कपोतेषु महानासी तलं प्रति
प्रासादमूर्ध्निदेशे तु मण्डपे गोपुरे तथा ६०
परिवारालये चैव बाह्ये बाह्यन्तरेऽपि वा
प्रासादे सर्वयामेषु दीपं सर्वत्र योजयेत् ६१
सायरक्षावसाने तु निशि पूजां तु कारयेत्
शीतकुं भेन संस्नाप्य शिवपूजां विशेषतः ६२
पृथुकं लाजापूपं च देवदेवं निवेदयेत्
सर्वान्देवान्निवेद्याथ नित्यपूजां पुरोक्तवत् ६३
अथवान्यप्रकारेण दीपारोहणमुच्यते
दीपदण्डप्रमाणं च ++ पुरोक्तवत् ६४
अंकु रं चाधिवासं च मण्डपं च विसर्जयेत्
रव्यस्तमयकालायां तदृक्षे दीपमाचरेत् ६५
विघ्नेशं पूजयेत्पूर्वं पुण्याहं तत्र वाचयेत्
दीपस्थालीं समादाय घृतं प्रस्थेन पूरयेत् ६६
पुत्तलीघृतमध्ये स्यात् शिवदीपं च रोपयेत्
स्वस्तिवाचकसंयुक्तं कु रवशब्दसमन्वितम् ६७
सर्ववाद्यसमायुक्तं जयशब्दसमन्वितम्
परिचारैस्समादाय आलयं तु प्रदक्षिणम् ६८
दण्डाग्रे स्थण्डिलं कृ त्वा दीपं तस्योपरि न्यसेत्
गणेशं पूजयेत्तत्र संकल्पमिति बुद्धिमान् ६९
पुण्याहं वाचयेत्तत्र दण्डशुद्धिं समाचरेत्
रक्षाबन्धं च कर्तव्यं सदाशिवं यजेत्ततः ७०
वामादिशक्तयश्चाष्टौ तन्मूले समपूजयेत्
दीपमारोपयेद्धीमान् पूर्वे वा चोत्तरेऽपि वा ७१
सायरक्षां समारभ्य पूर्ववत्पूजनं कु रु
पृथुकं दापयेच्छम्भोः सर्वभक्ताय दापयेत् ७२
एवं कृ ते सर्वपुण्यं सर्वसस्यविवर्धनम्
राष्ट्रग्रामनृपाणां च पुत्रदारसमृद्धिदम् ७३
सर्वदेवप्रियार्थं स्यात् प्रियं पातालवासिनाम्
कृ त्तिकादीपमेवं तु तन्निषेयं च कथ्यते ७४
इति स्वायंभुवे कृत्तिकादीपपटलः ४४