अथ वक्ष्ये विशेषेण शिवरात्रिविधिक्रमम्
सर्वमासेषु कर्तव्यं माघमासे प्रशस्यते १
कृ तत्रेतायुगे चैव द्वापरे च कलौ युगे
युगे युगे तु संपूज्य कृ ते किं +++ यजेत् २
त्रेतायां विघ्नकृ त्पूज्यो द्वापरे चाच्युतो यजेत्
ब्रह्मेन्द्रमृषिभिश्चैवं कलौ संपूजितो हरिः ३
शिवरात्रिसमुद्दिष्टः तद्भेदः किं कथं प्रभो
एतच्चतुर्विधं प्रोक्तं पक्षसिद्धान्तमेव हि ४
पूर्वसिद्धान्तमेवं स्यात् पक्षान्तश्रद्धमेव हि
परसिद्धान्तमेवं हि तद्भेदं शृणु सुव्रत ५
माघमासे द्विपक्षे तु अपरे व्रतमाचरेत्
उदयादि समारभ्य दीपान्तं च त्रयोदशी ६
अस्तमयं समारभ्य उदयान्तं चतुर्दशी
तद्रात्रिः शिवरात्रिः स्याद् उत्तमोत्तममिष्यते ७
एतत्तु पक्षसिद्धान्तं मम प्रीतिकरं भवेत्
अस्तमयं समारभ्य यामत्रयं चतुर्दशी ८
शेषं पर्वयुतं चेत्तु शिवरात्रिरिति स्मृतम्
तद्रात्रिः शिवरात्रिः स्यात् शिवपूजां समारभेत् ९
पूर्वसिद्धान्तमेवं हि सर्वदोषहरं भवेत्
अस्तमयं समारभ्य यावद्विंशति नाडिका १०
पश्चात्पर्वयुतं चेत्तु दोषयुक्ता न संभवेत्
तद्रात्रिः शिवरात्रिः स्यात् शिवपूजां समारभेत् ११
एवं सिद्धान्तपक्षं हि बालानामभिवृद्धये
दीपकालं समारभ्य विंशत्यूना चतुर्दशी १२
तद्रात्री सकला प्रोक्ता पर्वदोषो न विद्यते
तद्रात्रिः शिवरात्रिः स्यात् शिवपूजां समारभेत् १३
परसिद्धान्तमेवं हि सर्वप्राणिहितावहम्
यामद्वयं च भूता च पर्वयामद्वयं भवेत् १४
शिवपूजा न कर्तव्या सर्वदोषकरा भवेत्
रात्रौ चतुर्षु यामेषु पूजा नियम उच्यते १५
प्रथमे तत्र यामे तु द्वाराद्यामन्त्रणान्तकम्
नित्यार्चनं समाप्याथ सायमुपात्रमेकवत् १६
तदन्ते देवदेवेशं गव्यादिस्नपनान्तकम्
अभिषिच्य समभ्यर्च्य पंचावरणसंयुतम् १७
नित्यनैमित्तिकाख्यं च नैवेद्यं विनिवेद्य च
होमबल्यादिकं सर्वं यथापूर्वं समाचरेत् १८
द्वितीययामे +++++ पूजासमन्वितम्
विशेषयजनं कार्यं भोगस्थानार्चनं ततः १९
निर्वत्य तत्क्षणाद्देवं शिबिकामधिरोप्य च
मूललिंगे समायोज्य तृतीयप्रहरार्चनम् २०
कल्पयित्व यथा न्यायं चतुर्थे प्रहरे पुनः
अरुणोदयकालार्चायुक्तं यजनमाचरेत् २१
प्रतियामं च चण्डेशं क्षेत्रपालं च पूजयेत्
तद्दिनात्पूर्वरात्रे तु बलिपात्राधिवासयेत् २२
अधिवासंक्रमेणैव कारयेद्देशिकोत्तमः
विघ्नेशं पूजयेत्पूर्वं सौरपूजामतः परम् २३
पूर्वे तु स्नपनं प्रोक्तं अष्टोत्तरशतं भवेत्
पंचगव्यं बिल्वपत्रं मुद्गान्नं पूर्वयामके २४
द्वितीये स्नपनं प्रोक्तं पंचाशत्कलशं भवेत्
पनं चाक्तारबिन्दं पायसान्नं द्वितीयके २५
तृतीये स्नपनं चैव पंचविंशति संख्यकम्
मधुजनादि समायुक्तं कृ सरान्नं निवेदयेत् २६
चतुर्थे स्नपनं किं तु भवेत्षोडशसंख्यकम्
इक्षुसारं तथा नन्द्या वर्तं गौर्वों निवेदयेत् २७
यामं प्रतिविशेषेण पंचबिल्वैः समर्चयेत्
परेया दधिघृतं चैव नालिके रफलं क्रमात् २८
रसवस्तुभिरन्यैश्च स्नपयेत्परमेश्वरम्
++ वस्त्रैरलंकृ त्य सर्वपुष्पैः समर्चयेत् २९
शुद्धान्नं व्यंजनोपेतं यामं प्रति निवेदयेत्
यामं प्रति विशेषेण बलिहोमं समाचरेत् ३०
पूजाविधानमेवं स्यात् तिथिनिर्णय उच्यते
त्रयोदश्यस्तके पूर्वे चतसृष्वेव नाडिषु ३१
भूतविद्धा तु या तत्र शिवरात्रिव्रतं चरेत्
प्रदोषस्य विनिर्ग्राह्या शिवरात्रिश्चतुर्दशी ३२
रात्रौ जागरणं यस्मात् तस्मात् मुपोषयेत्
अर्धरात्रियुतं यत्र माघकृ ष्णचतुर्दशी ३३
शिवरात्रिव्रतं तत्र सोश्वमेधफलं भवेत्
भवेद्यत्र त्रयोदश्यां भूतव्याप्ता महानिशा ३४
शिवरात्रिव्रतं तत्र कु र्याज्जागरणं तथा
माघकृ ष्णचतुर्दश्यां आदिदेवो महानिशि ३५
शिवलिंगान्तयोद्भूता कोटिसूर्यसमप्रभम्
तत्कालव्यापिनी सा स्यात् शिवरात्रिव्रते तिथिः ३६
अर्धरात्रादतश्चोर्ध्वं युक्ता यत्र चतुर्दशी
तत्त्रिधा चैव कु र्वीत शिवरात्रिं व्रतं प्रति ३७
अर्धरात्रादधश्चोर्ध्वं वियुक्ता या चतुर्दशी
नैव तत्र व्रतं कु र्याद् आयुरैश्वर्यहानितः ३८
पूर्वेद्युरपरेद्युर्वा निशीथे तु चतुर्दशी
व्याप्ता सा दृश्यते यस्यां तस्यां कु र्याद्व्रतं नरः ३९
लिंगाविर्भावकाले तु व्याप्ता ग्राह्या चतुर्दशी
तदूर्ध्वं योन्यथा भूता सा कार्या व्रतिभिस्सदा ४०
अमावास्यायुता वापि त्रयोदश्या युतापि वा
चतुर्दश्यधिका रात्रिः शिवरात्रिरिति स्मृता ४१
कृ ष्णाष्टमी च भूता च निशाद्वयगताधिका
ग्राह्या रात्र्योः समासे तु पूर्वस्यां व्रतमाचरेत् ४२
शिवरात्रिसमं पुण्यं न भूतं न भविष्यति ४३
इति स्वायं भुवे शिवरात्रिपूजाविधिपटलः ४३