२५ मुद्रालक्षणपटलः

अथ मुद्रा प्रसिध्यर्थं तत्तल्लक्षणमुच्यते
संज्ञात्वा सर्वमुद्राणां विधानफलमुच्यते १
शोधनी कालकण्ठी च मुकु ली शशिकर्णिका
निष्ठुरा पद्ममुद्रा च नमस्कारमनोरथम् २
शान्ता च लिंगमुद्रा च ध्वजाख्या वाहिनी तथा
गायत्री च तथा नेत्रं अस्त्रं चैव प्रतिष्ठितम् ३
पाणिमूले तु सस्वेशे मन्त्रद्देनदपासुरः
कृ त्वैकं ताडयेत्पाणिं मुद्रेयं शोधनी भवेत् ४
कृ त्वा मुष्टिं ततोत्ताने तदानंगुलयोजयेत्
अंगुष्ठाग्रे तु संलग्ने कालकण्ठी तु दर्शयेत् ५
द्वौ हस्तावेकतः कृ त्वा मध्ये तु सुषिरं तयोः
सरो मुकु लीकारा मुकु लीं तु प्रदर्शयेत् ६
तर्जन्यौ कुं चितौ कृ त्वा तयोरग्रे निधापयेत्
द्वयोरंगुष्ठशिरसि शेषास्तूर्जवो घनाः ७
कृ त्वा च मणिबन्धं तु वामसह्यं तथा न्यसेत्
मुद्रेयं शशिकर्णी तु विज्ञेया लोककर्मणि ८
हस्ताभ्यामंजलिं कृ त्वा द्वे मुष्टी साधयेत्सुधीः
पूर्वोक्तमुकु ली या तु हृद्देशे निस्सृतांगुलिः ९
साकोशकमलाकारं पद्ममुद्रां प्रदर्शयेत्
सकलांगुलिसंलग्नौ सहौ हृद्देशमाश्रितौ १०
सर्वेषां सहिते कार्ये वामांगुष्ठनिपीडितम्
विधिते हस्तयोः कार्यं उत्ताने तु कनिष्ठिके ११
तयोर्वामे बहिर्ज्ञेया मान्ते मध्यमेऽपि च
कुं चितेनामिकाग्रं च स्वस्वपाणितलोच्छ्रिते १२
देशिन्यौ प्रसितौ कृ त्वा तयोरग्रेन योजयेत्
अंगुष्ठमूलपूसमौ तयोरेवान्यकुं चितौ १३
मनोरमेति सा ख्याता शिवसायुज्य दायिका
तर्जन्यंगुष्ठलग्नाग्रं शान्तेयं संप्रकीर्तिता १४
स्थापने सर्वमन्त्राणां प्रयोक्तव्या विचक्षणैः
शान्तं बध्वा क्षिते हावं अंगुष्ठं तुमधोमुखम् १५
वेष्टयेद्दक्षिणांगुष्ठं वामांगुष्ठतलेन तु
वामांगुलिभिस्तं सव्यं उत्कृष्टं अ वेष्टयेत्ततः १६
ध्वजमुद्रासमालेख्या सम्यग्योज्या च कर्मणि
हस्ताभ्यामंजलिं कृ त्वा कनिष्ठांगुलिपर्वयोः १७
अंगुष्ठौ स्थापयेत्तेषां मुद्राणां वाहिनी ह्ययम्
अन्योन्यान्तर्गतान्सर्वान् करपृष्ठाग्रयोच्छ्रितः १८
अंगुष्ठांगुलयः कु र्यात् सुषिरं च करान्तरे
पूजा कर्मणि गायत्रीं गायत्र्यन्ताः प्रयोजयेत् १९
नेत्रे नेत्रेणि नेत्रस्य शान्तं वाधोमुखी भवेत्
द्विमुष्टिं सहितं कृ त्वा शीघ्रं हस्तौ प्रसारयेत् २०
हस्तमुद्रेति विख्याता सर्वेषां तु भयंकरी
इति स्वायंभुवे सूत्रसंग्रहे पूर्वसूत्रे मुद्रालक्षणपटलः ४२