अथार्चनं शिवस्यैव सर्ववैशेषिकं बुधः
तदुच्यते समासेन सामान्यं विधिपूजनम् १
इत्यादि शान्तिके विद्वान् उत्तराभिमुखः स्थितः
दग्ध्वा पाशात्मकं कार्यं प्रणवेनाग्निना शृतम् २
ध्यायेत्सर्वगतं सूक्ष्मं आत्मानं प्रणवात्मकम्
तस्य ब्रह्मकलाकायं चिन्तयेदनुपूर्वकम् ३
तस्य मुद्रानमस्कारं बध्वा संचिन्तयेद्बुधः
शिरांसि पंचभिः पंच पंचमेव तु कारयेत् ४
पद्ममुद्रां ततो बुध्वा चत्वारि वदनानि तु
कलाकलितमन्त्रेण चतुर्थेनैव चिन्तयेत् ५
निष्ठुरां संप्रयोजज्ञो पशुरूपं तु पंचधा
चिन्तयेद्धृदयग्रीवं असौ पृष्ठं विभागवित् ६
वामदेवं तु नवधा बध्वा तु शशकर्णिकः
लिंगपायुस्तथा चोर्ध्व जानुनी च तथा भवेत् ७
जंघे चैव तथा पार्श्वे वामदक्षिणमेव च
नमस्कारान्तकं लिंगं मंत्रं मंत्र निवेशयेत् ८
मुकु लीं तु ततो बध्वा सद्योजातं तथा कलाम्
कलाकलितमात्मानं चिन्तयेच्चिन्तको बुधः ९
पादौ पाणी तथा चाथ नासिका च शिरस्तथा
पूर्ववत्कल्पयित्वा तु शिवमस्तु पदे न्यसेत् १०
शिवमुद्रां प्रयोगज्ञः शिवधामविधानवित्
विन्यसेद्धृदये पश्चात् सर्वात्मानं च शान्तया ११
लिंगस्थायां च सुशिवं विन्यस्य शिरसि क्रमात्
शिखायां ज्वलिमंत्रेण ध्वजेन विचिन्तयेत् १२
न्यसेत्सूर्यसुसंप्रख्यात् मादिन्यादि पिंगला
विन्यस्य सर्वदेवेशं गायत्रीं शिरसि न्यसेत् १३
नेत्रेण नेत्रनेत्रेषु हस्तयोरस्त्रमेव च
तन्मुद्रयैव विन्यस्य शिवार्चनमथाचरेत् १४
यथोपहारसंपन्नशिवशास्त्रेण विरेध्य च
पूजास्थानं ततः कृ त्वा पश्चादर्घ्यपात्रं प्रपूजयेत् १५
कर्मणे लोकनाथस्य दत्वा पुष्पाण्यनुक्रमात्
निर्माल्यं तत्पदमस्त्रेण मंत्रं संपादयेत्ततः १६
लिंगं च पीठकं चैव संप्रक्षाल्य शिवाम्भसा
धर्मज्ञानं च वैराग्यं ऐश्वर्यं च ततः परम् १७
अनन्तं हृदयेनैव विन्यसेदनुपूर्वशः
गलेषु शक्तयः स्थाप्य सर्वव्यापि पदेन तु १८
स्थापयेद् व्योमरूपेण कर्णिकायां मनोन्मनीम्
मन्त्रस्सर्वगतं देवं शिवं प्रणवसंयुतम् १९
पूर्ववत्सकलीकृ त्य शिवमावाहयेत्ततः
सद्येन पदसंस्थानं वामदेवेन विन्यसेत् २०
सांनिध्यं बहुरूपेण पुरुषेणार्घ्यं तु दापयेत्
पदेशानेन पुष्पाणि दत्वा दिक्षु निवेशयेत् २१
अक्षराणि शिवोक्तानि कालाहाटकानि तु
अरक्तं विजयोक्तं वा विद्यांगं स्थानमण्डलम् २२
संस्थाप्य पूजयेत्काद्यैः नित्यं चैव तु योगतः
गन्धोदकं तु सद्येन स्नानार्थमभिमन्त्रयेत् २३
वामदेवेन वस्त्राणि तत्रं च कटिसूत्रकम्
विलेपनमघोरेण हारके यूरकादिकम् २४
शोधनीपूर्वमन्त्रेण मन्त्रान्नमभिमंत्रितम्
मधुसर्पिर्दधिक्षीरधूपनैवेद्य दीपकम् २५
पुरुषेणैव मन्त्रेण शेषमीशेन मंत्रवित्
अष्टानावृतागाष्टाभिरनन्ताद्यैरनुक्रमात् २६
प्रशोधनं च मंत्राणां रुद्राणामधुनोच्यते
विद्यांगानि च चत्वारि कालकण्ठं प्रयोजयेत् २७
ततः पाशुपतास्त्रं च चोदशैवाभिमन्त्रवित्
नमस्कारे विशेषोऽस्ति विद्येशाः पद्ममुद्रया २८
एवं संपूजिते देवे संध्यामन्त्रं निवेदयेत्
विद्यातोपचितं मन्त्रं प्रणवे कमलासनैः २९
अघोरास्त्रस्य पूर्वे तु वारुण्यामधिपस्य तु
उदक् पाशुपतास्त्रेण संध्यामंत्रं प्रपूजयेत् ३०
गन्धपुष्पपवित्राद्यैः मनस्तुष्टिकरैस्तथा
प्रणम्य देवदेवेशं मण्डपं ++ रभेत् ३१
कालोक्तगुशपं कृ त्वा देवाय विनिवेदयेत्
साधकस्साध्यसिध्यर्थं वीरात्मायेति रोजना ३२
सर्वमन्त्राभिमन्त्रेण गन्धाम्बु विधिपूर्वकम्
जपान्ते समये मन्त्री संपुटे निहिते शिवम् ३३
गुह्याति गुह्यगोप्ता त्वं गृहाणास्मत्कृ तं जपम्
सिद्धिर्भवतु मेयेन त्वत्प्रसादात्त्वधिस्थिते ३४
यत्किंचित्कर्मभेदेन सदा सुक्वत सुष्कृ तम्
तन्मे शिवपदस्थस्य भुक्ष्व क्षपय शंकर ३५
शिवो दाता शिवो भोक्ता शिवस्सर्वमिदं जगत्
शिवो जयति सर्वत्र यश्शिवस्सोहमेव तु ३६
निवेद्यैवं सदादनं तु जपपूजां च भक्षितम्
प्रणम्य शिरसा देवं क्षमस्वेति विसर्जयेत् ३७
सद्योजातेन मन्त्रेण संगुरा प्रणवेन तु
ध्यापयेत्प्रणवेनैव मनस्तन्मयतां श्रयेत् ३८
एवं संपूजयेद्देवं नियतात्मा ++ कच्छिवम्
स याति परमं स्थानं अप्राप्यमकृ तात्मभिः ३९
इति स्वायं भुवे पूर्वसूत्रे शिवपूजाविधिपटलः ४१