अथ स्नानविधिं वक्ष्ये परमेशप्रकाशितम्
येन शुद्धिमवाप्नोति स्नानतो मुक्तकिल्बिषः १
नदीनदतटाके षु स्थोयस्थोपायनेषु च
स्नानं समाचरेन्नित्यं सामान्यविधिकल्पितम् २
तत्रादौ शुद्धिराचान्तः शुचौ देशे समाहितः
+++ याक्य मन्त्रेण मुद्रमन्त्रेण शोभिताम् ३
जलतीरे ततः स्थाप्य वामदेवेन मन्त्रतः
प्रोक्षयेद्बहुरूपेण प्रदेशानेन मन्त्रवित् ४
भागत्रयं ततः कृ त्वा पुरुषस्य पदैः स्त्रिभिः
क्षिपेद्दिक्षु जले चैव भागमस्त्राभिमंत्रितम् ५
भागार्धेन मलस्नानं अल्पैकार्धं निधापयेत्
भागेन शिवतीर्थं तु कु र्यान्मोदशकामनः ६
पदस्याने स्वरूपं तु प्राकारस्य शिरः क्रमात्
ईशानाद्यपदैः पश्चात् स्नानमामलकादिभिः ७
अभिषेकं च तेनैव प्राणायामं शिवेन तु
कृ त्वाधाम्य पुरा ब्राह्मीं भजेत्संध्याद्विराश्रमी ८
इतरान्यस्तु विरक्तात्मा लौकिके तु पराङ्मुखः
कु र्यात्प्राहि न वा कु र्यात् शैवीमेव नियोगतः ९
सद्येन वामदेवेन ततो घोरेण मार्जनम्
प्राणायामचतुर्थेन शेषमीशान योजयेत् १०
श्रीकण्ठेनोपसंगृह्य कु र्याद्विद्यात्मनो विधिः
छाया वन्दनं पश्चाद् ध्यात्वारूपं सदोज्वलम् ११
स्नानमाग्नेयपरमं भस्मस्नानमुदाहृतम्
जलस्नानोत्तरान्नित्यं अनुत्तरमथापि वा १२
जातिसुकरसुस्पर्शकरभावपरिग्रहैः
आरण्ये गोमयेपेतु पूतेन करजेन वः १३
सद्यादिमंत्रितेनैव स्नायान्नित्यमुदङ्मुखः
शिरोमुखं ततो ग्रीवः स्कन्दौ वा हा धुरास्तथा १४
क्रमाद्धू वै ++ तगमं च मरं च स्वतिमंत्रतः
त्रिराचम्योदकं पश्चात् त्रिः प्रमृत्य नखैः शनैः १५
शिरश्च शीर्षण्यानि षट् वारिणा तद्वतस्पृशेत्
नासौ च हृदयं नाभिः उदरं च शिरस्तथा १६
पाद्यावमुष्य कर्तव्यं मन्त्रं यथोदितं तले
अंगुष्ठेन तु मूलस्य तीर्थं ब्राह्म्यं प्रकीर्तितम् १७
तेन शान्तिं शुचिं नित्यं प्राङ्मुखोदङ्मुखोऽपि वा
दैवं कनिष्ठिका मूलं तले तीर्थं प्रशस्यते १८
तेन प्रशस्यते स्नानं सत्यमेव विचक्षणः
अंगुल्यग्रे स्थितं तीर्थं ऋषीणां तर्पणं परम् १९
पैत्र्यं पवित्रकार्येषु तर्जन्यं गुष्ठमूलतः
आग्नेयः पाणिमध्ये तु सौम्ये याम्ये प्रतिष्ठितम् २०
नास्या स्नाक्षेण +++ प्राङ्मुखेनोर्ध्वबाहुना
ईशानं तु पदं कार्यं पतसप्तकत्र्यश्च ता २१
वायव्यं च ततः स्नानं रजसा गौकृ तेन तत्
मानसं नवधा कार्यं षष्ठं सार्वतिकारतत् २२
सर्वं मन्त्राभिमन्त्रेण प्राणायामं गतेन च
स्नात्वा चम्य यथा न्यायं कर्मकु र्याद्यथोदितम् २३
पूजयेदथ देवेशं लिंगे वा स्थण्डिलेऽपि वा
अग्निकु ण्डे तथा देहे नित्यमेवं प्रकीर्तितम् २४
इति स्वायंभुवे प्रतिष्ठातन्त्रे पूर्वसूत्रे स्नानविधिपटलः ४०