अथ वक्ष्ये विशेषेण वैवाह्यविधिरुच्यते
के वलं सहजं पौण्यं शक्तिभेदात्त्रिधाभवेत् १
पौण्यं मनोन्मनीत्युक्तं गौरी च सहजं भवेत्
शक्तिभेदं समाख्यातं के वलं शम्भुना विना २
वैवाह्यं च प्रकर्तव्यं शक्तीनां के वलं विना
गौरीं मनोन्मनीं चैव कर्माणं च प्रचक्षते ३
ग्रामप्रदक्षिणं कृ त्वा पूरकर्म तथा चरेत्
देवाग्रे तु विशेषेण देशिकानुज्ञया सह ४
सुवारे सुमुहूर्ते च कल्पयेत्तु विचक्षणः
मम भक्ताश्च सर्वाश्च कन्या या गणिका सह ५
पूगीफलं च तत्पंच संख्या या च सहस्रकम्
नालिके रं च कर्तव्यं वर्णसंख्या च संग्रहेत् ६
रजनीद्रोणमित्युक्तं सहस्रार्धं च संख्यया
कदलीफलमित्युक्तं चित्रवस्त्रं च संग्रहेत् ७
स्वर्णस्याभरणं ग्राह्यं कह्लारदामसंयुतम्
सर्ववाद्यसमायुक्तं कु रवशब्दसमन्वितम् ८
स्वस्ति वाचकसंयुक्तं शनैः पूजा शनैः शनैः
एवं प्रदक्षिणं कृ त्वा देवीमारान्प्रविश्य च ९
देवीं वधूं च संग्राह्य श्वश्रेयसहितं वदेत्
आचार्यो दासिभिश्चैव सहिभिर्वप्रकांदिभिः १०
तत्र स्थानेषु कर्तव्यं गोमयालेपनं कु रु
रजनी पिष्टचूर्णं च अलंकृ त्य विशेषतः ११
तन्मध्ये विष्ठरं न्यस्य तदूर्ध्वे वस्त्र पातिते
तदूर्ध्वे देवीं च विन्यस्य देशिकोदङ्मुखः स्थितः १२
पार्श्वौ सखी च कर्तव्यं आवृतं चैव दासिभिः
तदग्रे विन्यसेद्द्रव्यं पश्चादेवाष्टमंगलम् १३
अच्युतं च समानीय फलदानं स एव हि
तदाज्ञा चैव कर्तव्यं फलदानं समाहरेत् १४
विप्रस्त्रिधा च कर्तव्यं एकद्वित्रियसंख्यया
प्रथमं वस्त्रवेष्टं च रात्रिमालेपनं क्रमात् १५
स्वर्णाद्याभरणं चैव उक्तस्थाने सुयोजयेत्
+++++ व्यपि सर्वाणि देविरादृश्यते तथा १६
+++++ समादाय स्त्रीणां कन्यां च दापयेत्
पूगीफलं च पर्णं च सर्वभक्तांश्च दापयेत् १७
देवीं सम्यक्समादाय पूर्वस्थाने निवेशयेत्
निश्चित्य दिवसात्पूर्वे अंकु रं पूर्ववद्बुधः १८
तद्दिने वा प्रकर्तव्यं रक्षाबन्धं तु पूर्ववत्
देव्यास्तु दक्षिणे हस्ते वामहस्ते तु वामतः १९
शिवाग्रे तु विशेषेण शिवकु म्भं च संग्रहेत्
वस्त्राद्याभरणं चैव अलंकृ त्य विशेषतः २०
पौर्णं च सहजं वापि किं चिद्भेदं विशेषतः
पौर्णं चेद्वर्धनीं प्रोक्तं सहजं बेरमाचरेत् २१
तत्तद्बेर ++++ कृ त्य तत्तद्रूपं च भावयेत्
कल्याणमण्डपं प्रोक्तं मकु टं वा प्रभां कु रु २२
तल्लक्षणं पूर्ववत्प्रोक्तं सर्वालंकारसंयुतम्
सर्ववाद्यसमायुक्तं जयशब्दसमाकु लम् २३
नानाचित्रसमायुक्तं नानालीलासमन्वितम्
पताकावितानसंयुक्तं दर्भमालाभिरावृतम् २४
++++++++++ तोरणान्भूषयेत्ततः
गोमयालेपनं कृ त्वा पिष्टचूर्णैरलंकृ तम् २५
तन्मध्ये विन्यसेद्धीमान् सिंहासनमथापि वा
विष्ठरं वा प्रकर्तव्यं ऊर्ध्वच्छन्दं च कारयेत् २६
ज्वलदीपं च कर्तव्यं सूरिवृन्दैश्च संकु लम्
तदर्थकु म्भमुद्धृत्य स्वस्तिमंगलवाचकैः २७
तेसूनवक्रमेणैव बलिं दद्यात् क्रमेण तु
तद्दासने प्रकर्तव्यं कु म्भसंस्थापनं कु रु २८
विघ्नेशं पूजयेत्पूर्वं पुराशम्भुप्रसादतः
संकल्पं च तथा कु र्यात् पुण्याहं वाचयेत्ततः २९
अश्मानमुत्तरे स्थाप्य लाजं तत्रैव विन्यसेत्
स्रुक्स्रुवौ समिदाज्यौ वा होमद्रव्याणि सर्वशः ३०
कु शकू र्चसमायुक्तं गन्धपुष्पं सदिन्धनम्
एवं सर्वं समापाद्य शम्बरैः प्रोक्ष्यते विना ३१
कू र्चनीतिमथो +++++++++++
पाद्यमाचमनं चार्घ्यं तत्तन्मन्त्रेण दापयेत् ३२
कन्यादानादिकं प्रोक्तं जुष्टोपस्थानमाचरेत्
सर्वदोन् ऋ ++ स्याश्च मिमं स्तुत्यैव बुद्धिमान् ३३
प्रसुग्मन्तेति मन्त्रेण आचार्यमवलोकयेत्
तत्र देवीं प्रविश्याथ ब्राह्मणान्युग्मसंख्यया ३४
वरप्रदानं कर्तव्यं पूर्वमेव सुभाषितः
सुमंगलीति मन्त्रेण शिवबीजमनुस्मरन् ३५
मांगल्यधारणं प्रोक्तं तत्पूर्वे मन्त्रवाससम्
वौषडन्तादिमन्त्रेण अवलोकमथाचरेत् ३६
मित्रोसीतिलमन्त्रेण वर्धनीमुद्धरेत्ततः
वर्धनीं दक्षिणे स्थाप्य चलासनमथाचरेत् ३७
परिस्तरान्मुखान्तं च अग्निकार्योक्तमार्गतः
ततो बृहस्पतिं पूज्य दक्षिणां दापयेत्ततः ३८
अग्नेः पश्चिमभागे तु शिलादिस्थण्डिलं कु रु
दीपादि तत्र विन्यस्य स्थलिकां वान्यसेत्ततः ३९
गोत्रगोचरमार्गेण ऊर्ध्व + पूर्ववत्कु रु
साधके न तु मन्त्रेण वर्धनीं कु म्भमुद्धरेत् ४०
एकमिक्षेति मन्त्रेण पंचब्रह्ममनुस्मरन्
सप्तपादं प्रकर्तव्यं प्रदक्षिणमथाचरेत् ४१
मम हृदेति मंत्रेण वर्धनीमभिमन्त्रयेत्
परिमानेति मन्त्रेण प्रदक्षिणमथाचरेत् ४२
आज्याहुतिं च कर्तव्यं कू ष्माण्डाहुतिमाचरेत्
वर्धनीं कु म्भमादाय अश्ममारोपयेद्धृदा ४३
यन्नारीतिमदोनौ ++ +++ हुनेत्ततः
तुभ्यमग्नेति मन्त्रेण प्रदक्षिणमथाचरेत् ४४
अश्ममारोपयेद्धीमान् एकद्वित्रिक्रमेण तु
+++ जायेति मंत्रेण मनसा ध्यायते गुरुः ४५
व्याहृतिं च ततो हुत्वा सर्वमग्ने हुनेत्क्रमात्
जयादिरभ्यातानं च राष्ट्रभृच्चैव होमयेत् ४६
पाशुपतेन चास्त्रेण शुचिवोहं यथाक्रमम्
अग्निंवि++ विधिवद् औपासनमथाचरेत् ४७
वर्धनीमुद्धरे स्थाप्य आशीर्वादं च कारयेत्
औपासनाग्निं वक्ष्यामि चतुर्थदिवसान्तकम् ४८
होम +++ कं तु सन्धिद्वयमथाचरेत्
चतुर्थदिवसं यावत् पूजा राजोपचारवत् ४९
एवं क्रमेण विधिवत् नालो +++ कारणम्
नित्यपूजा प्रकर्तव्या पूर्वमेव क्रमेण तु ५०
पंचमेहनि कर्तव्यं पूर्ववत्कारयेद्बुधः
दामोदरो महालक्ष्मीर्वधूधर्मं सदापयेत् ५१
हारनूपुरके यूरकटकादिविभूषितम्
माणिक्यस्वर्णभवनं रत्नपिंछं च दापयेत् ५२
मुक्तादाम च वैडूर्यं इन्द्रनीलं च भूषणम्
एवं भूषणदानं च दिव्यवस्त्रैश्च दापयेत् ५३
सुर +++ र्मितं पात्रं स्थलकां कोटिनिष्ककाम्
एकद्वित्रीणि कर्तव्यं स्थलिकां सहस्रनिष्ककम् ५४
जलपात्रं चाष्टसाहस्रं दर्व्यानेकसहस्रकम्
द्रव्यपात्राणि सर्वाणि शतनिष्कसहस्रकम् ५५
पात्राधारं च कर्तव्यं दश कोटिं च निष्ककम्
दीपाधारं च कर्तव्यं अयुतं युग्मनिष्ककम् ५६
निष्कप्रतिग्रहं पात्रं भोजनोच्छिष्टपात्रकम्
यानानां शयनानां च सिंहासनादिविष्ठरम् ५७
हेमे ++++ किं तु नवरत्नैर्विचित्रयेत्
सत्यलोकादिलोकं च दासवर्गेण दापयेत् ५८
स्त्रियां लोके तु सर्वत्र दासीं चैव तु दापयेत्
क्षेत्रके षु च तत्क्षेत्रमुदकपूर्वं च दापयेत् ५९
के शबन्धं च दूर्यं च दर्पणं च प्रदापयेत्
हस्तौ च धृतमानं च शिंशुमारं च दापयेत् ६०
रत्न +++ समायुक्त शिवद्रव्याणि दापयेत्
इतराण्यपि सर्वाणि एवमेव प्रदापयेत् ६१
सर्वलोकहितार्थाय त्रैलोक्यप्रभुमादरात्
अनाद्यन्तं च तत्काले मम लीलां च संभवेत् ६२
एवं यः कु रुते मर्त्यः स पुण्यां गतिमाप्नुयात्
इति स्वायंभुवे प्रतिष्ठातन्त्रे वैवाह्यविधिपटलः ३९