२१ शक्त्युत्सवविधिपटलः

शिवोत्सवादिपूर्वोक्तिरंकु रार्पणमुत्तमम्
दीक्षितैः साधकैश्चैव स्नपने प्रोक्षणे तथा १
स्नपने शोभने चैव कु र्याद्घोरं च चार्चयेत्
कर्षणे वृतमाकारा विलाग्रेण प्रवेशके २
नवभोजनकल्याणशक्तिकादीपिके तथा
पंचमे सप्तमे चैव दिने चैवांकु रार्पणम् ३
पालिका घटिका चैव शरावं च त्रिधा भवेत्
सुवर्णं रजतं वापि ताम्रं वा मृण्मयं तु वा ४
अष्टपालिकमंगुल्याद्द्वादशांगुलमायतम्
पालिकामुखविस्तारं षोडशांगुलमुच्यते ५
तदर्धं पादविस्तारं षड्भागैकक्रमोष्पकम्
विस्तारस्य त्रिभागैक वर्जितं बलमुच्यते ६
एवं पादक्रमं प्रोक्तं शेषदण्डमिहोच्यते
विस्तारस्य त्रिभागैकं दण्डविस्तारमुच्यते ७
घटिकाघटविस्तारं अष्टांगुल्यसुवाहनम्
दण्डं वा चतुरंगुल्यं पालिकावत्कृ तं शुभम् ८
पंचद्वारसमायुक्तं घटिकां कारयेत्ततः
शरावमुखविस्तारं अष्टांगुलमुदाहृतम् ९
पादविस्तारमर्धं वा उत्सेधाष्टांगुलं भवेत्
वाहं स्यात्पालिकादीनां विस्तारार्धेरवस्थिते १०
भिन्नं च सुषिरं कालं भेदं कोणं च नीलकम्
आपंचरसिरिं चैव वर्जयेत्साधकोत्तमः ११
शूली मुखं दधारा च पालिकायाधिदेवता
इत्येवं पालिकारुस्य दशदिक्स्थाप्यमेव च १२
प्रासादपूर्व ऐशान्ये उत्तरे दक्षिणे तथा
गोमयालेपनं कृ त्वा शुद्धे भस्मात्रियायिके १३
ग्रामदेवोत्सवं प्रोक्तं वीरशक्त्युत्सवं शृणु
देवीयागमथो वक्ष्ये सर्वकामार्थसाधनम् १४
प्रथमं विघ्नोत्सवं प्रोक्तं आदित्योत्सवमेव च
काल्युत्सवं तदन्ते तु महाशास्त्रस्य चोत्सवम् १५
भैरवस्योत्सवं पश्चाद् स्कन्दोत्सवमनन्तरम्
दुर्गाया उत्सवं पश्चात् वैष्णवत्सवमेव च
पश्चाच्छिवोत्सवं कार्यं वीरशक्त्युत्सवं परम्
विघ्नेशं विघ्ननाशार्थं भास्करं रोगनाशनम् १७
यक्षादिपीडाशान्त्यर्थं महाकाल्युत्सवं मतम्
ग्रहपीडादि दोषघ्नं शास्तोत्सवमिहोच्यते १८
जयं भैरवकल्याणं काम्यादि स्कान्दमेव च
दुर्गायास्तु विशेषेण परसंहारकारणम् १९
सृष्ट्यर्थं वैष्णवं प्रोक्तं सालोक्यादिशिवोत्सवम्
वीरशक्त्युत्सवं कार्यं सर्वकामार्थसाधनम् २०
एवं दशविधं प्रोक्तं शक्त्युत्सवमिहोच्यते
नवाहं वाथ सप्ताहं पंचाहं वा प्रकल्पयेत् २१
ध्वजारोहं नवाहे ++ चैव कल्पयेत्
सप्त पंचदिने चेत्तु ध्वजारोहं न विद्यते २२
भेर्यादितीर्थपर्यन्तं यथाविधिपुरस्सरम्
बेरोदय ऋक्षं वा मासनक्षत्रमेव वा २३
राज्ञां जन्मावसानर्क्षं अन्यत्पुण्यदिने मतम्
एवं तीर्थं विनिश्चित्य अधिवासनमारभेत् २४
त्रिचतुर्हस्तमारभ्य द्विगुणान्तं क्रमेण तु
तदर्धं वा तदर्धं वा पदविस्तार उच्यते २५
शिरः पुच्छसमायुक्तं वेत्रद्वयसमन्वितम्
तत्पदं सप्तधा भज्य शिरःपुच्छैद्वियंशकौ २६
मध्ये त्रिभागमेवं तु सिंहं वा वृषभं नयेत्
अधोभागे विशेषेण चाष्टमंगलकान्न्यसेत् २७
ऊर्ध्वभागे तु कर्तव्यं पद्मं वा छत्रमेव वा
सिंहं वा वृषभं वापि लक्षणं च पुरोक्तवत् २८
उक्तवर्णसमायुक्तं आयादिशुभसंयुतम्
एवं पटं समापाद्यं ध्वजदण्डमथ शृणु २९
याज्ञिकैः सारवृक्षै+ त्वक्सारक्रमुकादयः
रुद्रहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ३०
एवं त्रिविधमाख्यातं अन्यत्सर्वं पुरोक्तवत्
एतत्सर्वं समापाद्य अधिवासनमारभेत् ३१
रात्रौ पूजावसाने तु गणेशं पूजयेद्बुधः
त्रिविधं स्थण्डिलं कृ त्वा देवीं तत्संनिधौ क्रमात् ३२
पश्चिमे तु पटं न्यस्य तत्पूर्वे नवकं न्यसेत्
तत्पूर्व चास्त्रमूर्तिं च तत्पूर्वे होममेव च ३३
नेत्रोन्मीलनपूर्वं तु शुद्धिं कु र्यात्ततः परम्
परं प्राणप्रतिष्ठां च रक्षाबन्धमतः परम् ३४
मन्त्रन्यासं ततः प्रोक्तं तत्तन्मूलषडंगकैः
वाहनं मध्यकु म्भे तु लोकपान्परितो यजेत् ३५
तत्तत्स्वबीजमुच्चार्य गन्धपुष्पादिनार्चयेत्
अस्त्रं संपूज्य विधिवत् त्रिखण्डा द्वौ प्रकल्पयेत् ३६
अग्निकार्योक्तमार्गेण चाग्निकार्यं समाचरेत्
विशेषाहुतिसंस्कारं संपातकन्तसमाचरेत् ३७
वह्ने बीजं समादाय कु म्भमध्ये सुयोजयेत्
वास्तुहोमं ततः कृ त्वा पर्यग्निकरणं नयेत् ३८
प्रातर्मध्याह्न सायेषु ध्वजमारोपयेद्गुरुः
निर्माल्य धारिणीं देवीं प्रतिशोधनधारकम् ३९
भेरीसन्ताडनं रात्रौ पूर्वोक्तविधिना सह
अष्टादशगणाश्चैव आहूय शिष्य एव च ४०
एवं देवं समावाह्य चास्त्रमूले समर्चयेत्
अस्त्रं भेरीं च संपूज्य भेरीं तत्रैव ताडयेत् ४१
गौरीगायत्रिमन्त्रेण एकद्वित्रि च ताडयेत्
पश्चात्परशिवं चैव वादयेत्तालकः क्रमात् ४२
आवाहनबलिं दत्वा ध्वजादिर्वा वृषादिकम्
पश्चादुत्सवमारभ्य चांकु रं पूर्ववत्कु रु ४३
उत्सवप्रतिमां तत्र तद्बेरं त्रिविधं भवेत्
यागार्थं प्रथमं प्रोक्तं नित्यबेरं ततः परम् ४४
वाहनार्थं तृतीयं च तद्भेदमिह कथ्यते
चतुर्हस्तं ++ वा आसीनं वा स्थितं तु वा ४५
भद्रं वा पद्मपीठं वा कल्पयेत्कल्पवित्तमः
वीरशक्तिरिति ख्यात नित्योत्सवसमुच्यते ४६
ध्रुवबेरस्य यन्मानं यथा कृ तिस्तथा भवेत्
वाहनारूढशक्तिश्च आसीनं वा स्थितं तु वा ४७
एतत्त्रिविधबेरं च मूलशक्तिवदुच्यताम्
प्रथमं मूषिकं चैव द्वितीयं पिंछवाहनम् ४८
गणेशस्कन्दसंयुक्तं वीरशक्तिसहैव तु
उत्सवोद्दिश्यदेवानां कौतुकं बन्धयेत्ततः ४९
यागशालां प्रविश्याथ तोरणादीन्सुपूजयेत्
वेद्यूर्ध्वे स्थण्डिलं कल्प्य मध्यकु म्भे मनोन्मनीम् ५०
वामादिशक्तयश्चाष्टौ पूर्वादि क्रमशो न्यसेत्
योनिकु ण्डं विशेषेण एकाग्निस्तु मनोन्मनीम् ५१
अर्चनं पूजनं होमं क्रियाभेदानभेदितः
मण्डपाराध्यहोमान्ते देवामुद्धूय ताडयेत् ५२
द्वारादिबलिपीठान्तं शुद्धान्नं वा बलिं ददेत्
बलिदानावसाने तु यानक्रममिहोच्यते ५३
वीथीसंमार्जनोपेतं तोरणाद्यैरलंकृ तम्
उत्सवेशीमलंकृ त्य सर्ववाद्यसमन्वितम् ५४
शनैः प्रदक्षिणं कृ त्वा सर्वभक्तजनैस्सह
यानान्ते परिवेषं च प्रायश्चित्तादिकं ततः ५५
एवं क्रमेण कर्तव्यं वाहनं च पुरोक्तवत्
शिरोत्सवं विना कार्या प्रान्तं ++ था भवेत् ५६
अथ तीर्थदिनात्पूर्वे असूतोयं च संग्रहेत्
महातीर्थं समुद्दिश्य चूर्णोत्सवमथाचरेत् ५७
तच्चूर्णं दापयेद्देवीं तीर्थस्थानं प्रविश्य च
शुद्धतैलं च सुस्नाप्य आमलाद्यैश्च मर्दयेत् ५८
नवकु म्भान्समादाय सूत्रादिभिरलंकृ तम्
द्रोणं वा शिवतोयं वा पूजयेत्तु घटं प्रति ५९
रजनी गन्धतोयं च सुगन्धिकु सुमैस्सह
गंगाद्यादि समावाह्य पूजयेत्तु विचक्षणः ६०
पुत्रषो वास्त्रयो वापि रजनीतैलदापयेत्
सर्वलीलाश्च मर्याश्च जलक्रीलां समाचरेत् ६१
तैलादिस्नानपानं च देवीं सम्यक् समाचरेत्
आलयं संप्रविश्याथ पूर्णाहुतिं च दापयेत् ६२
यागकु म्भाभिषेकं च नैवेद्यं चापरोहरणम्
नित्योत्सवादिकं कार्यं संधिदेवान्समर्चयेत् ६३
निर्माल्यधारिणीं पूज्य शेषं पूर्ववदाचरेत्
शुद्धस्नपनमन्ते च महाहविर्निवेदयेत् ६४
अनुक्तानि च सर्वाणि शिववत्कारयेद्बुधः
आयुः श्रियं च विजयं पुत्रसौभाग्यकारणम् ६५
इहलोके ध्रुवं प्राप्य सोऽन्ते सायुज्यमाप्नुयात्
इति स्वायं भुवे शक्त्युत्सवविधिपटलः ३८