++++++पूजारोहणमारभेत्
न वाहे त्रियहे वापि सप्ताहनि तथापि वा १
प्रासादपुरतो विद्वान् मण्डपे संस्कृ ते शुभे
गोमयालेपनं कृ त्वा प्रोक्षयेत्पुरुषेण तु २
स्थण्डिलस्य त्रयं कृ त्वा शालिभिर्विमलैस्तिलैः
तण्डुलैः शोभितं कु र्यात् अयोषकसमन्वितम् ३
परिस्तीर्य ततो दर्भैः लोकपालान्समानयेत्
अन्तिके स्थण्डिले स्थाप्य ध्वजं लक्षणसंयुतम् ४
षड् हस्तमधमं प्रोक्तं मध्यमं सप्तहस्तकम्
उत्तमं चाष्टहस्तं स्यात् पंचभागैकविस्तृतम् ५
विस्तरेण समं पुष्पं तदर्धं न्नुशिरो भवेत्
वृषभं चामरं छत्र तन्मध्ये लांछयेत्ततः ६
एवं लक्षणसंयुक्तं अर्चयेद्वृषभं तथा
तीक्ष्णशृंगाय विद्महे वेदपादाय धीमहे ७
तन्नो वृषः प्रचोदयात्
एवं मन्त्रं जपित्वा तु गन्धाद्यैरर्चयेद्ध्वजम्
तदर्धे स्थण्डिलं सम्यक् कलशान्नव साधयेत् ८
विद्येश्वरसमायुक्तं मध्ये वृषभदैवतम्
सकू र्चान्सापिधानांश्च सहिरण्यान्सवस्त्रकान् ९
गन्धाद्यैरार्चयित्वा तु स्वैः स्वैर्मन्त्रैर्विशेषतः
तदग्रे स्थण्डिले स्थाप्य भेरीं वस्त्रसमावृताम् १०
दक्षिणे रुद्रमभ्यर्च्य वामे विष्णुमथार्चयेत्
मध्ये प्रजापतिं न्यस्य प्रहरं स्कन्ददैवतम् ११
अर्चयित्वा सुगन्धाद्यैः वाद्यागायत्रिमंत्रतः
आचार्यपूजनं कृ त्वा वाद्यकं पूजयेत्ततः १२
हृन्मन्त्रेण समभ्यर्च्य पुष्पं हस्ते प्रदापयेत्
तत्पुष्पं तत्र निक्षिप्य वाद्यं तालवितालयेत् १३
स्नपनं तत्र कु र्वीत स्वेतिमन्त्रैर्वृषं तथा
ध्वजारोहणपूर्वे तु स्थण्डिलद्वितयं भवेत् १४
कलशस्थापनस्यैकं ध्वजस्यैकं विधीयते
शंखादिवाद्यनिर्घोषैः गीतनृत्तसमायुतम् १५
पिंछचामरसंकीर्णं धूपदीपसमाकु लम्
सर्वालंकारसंयुक्तं त्रिशूलेन समायुतम् १६
ग्रामप्रदक्षिणं कृ त्वा संधिदेवान्समर्चयेत्
अष्टादशगणैश्चैव त्रयस्त्रिंशच्च देवताः १७
आहूय लोकपालांश्च सलं दद्याद्विशेषतः
आश्रा ++ दिवस + माचार्यः प्रीतमानसः १८
मार्गशीर्षकमासे तु आर्द्रान्तं तु शिवोत्सवम्
पुष्यमासे तु पुष्यान्तं माघमासे मघान्तकम् १९
फाल्गुने चोत्तरान्तं तु चैत्रे चित्रान्तमुच्यते
वैशाखे तु विशाखान्तं मूलान्तं ज्येष्ठमासके २०
आषाढे चोत्तराषाढे श्रावणे श्रवणान्तकम्
पूर्वाषाढे तथा मासे पूर्वान्तं चैवमेव च २१
अश्व्यन्तमश्वयुङ्मासि कार्तिके कृ त्तिकान्तकम्
सर्वमासे तु कर्तव्यं आर्द्रां तु शिवोत्सवम् २२
प्रतिष्ठात्सर्वकर्तव्यं यावत्स्नप्नदिवासरम्
राज्ञां जन्मदिनांतं च मरणान्तमथापि वा २३
पीठगोपुरयोर्मध्ये पुरतो वृषभस्य वा
अत्यच्चरत्निमात्रस्यात् खात्वाप्यावां वटं बुधः २४
कू र्मं वा वृषभं वापि हैमं तत्रैव निक्षिपेत्
वेणुदण्डं च संयुक्तं धायथां वर्धमानतः २५
अथवा द्वितलान्तं तु दशैकादशतलान्तकम्
ध्वजदण्डमृदं स्थाप्य प्रासादसमदैर्घ्यकम् २६
वृषगायत्रिमंत्रेण ध्वजघण्टासमायुतम्
आरोपयेत्ततो मन्त्री रज्जुं मन्त्रेण मन्त्रवित् २७
अथवा ध्वजदण्डेन बद्धं संस्थापयेद्ध्वजम्
चम्पको देवदारुं च तालस्तम्भक एव च २८
क्रमुकं चन्दनं चैव ध्वजदण्डं प्रकीर्तितम्
गन्धादिकं ततो दत्वा मुद्गान्नं तु निवेदयेत् २९
तस्य मूले तु कर्तव्यं वेदी पाद्यसमायुतम्
ध्वजं प्रति समभ्यर्च्य संवृतं गुलसंयुतम् ३०
मुगान्नं दापयेद्विद्वान् स्वमन्त्रेण तु देशिकः
ततोंकु रार्पणं कु र्यात् उत्सवस्य दिनादितः ३१
तद्दिना ++++ तद्रात्रौ चाधिवासयेत्
प्रत्यग्रे मण्डपं कु र्यात् दीशान्ये पावके ऽथवा ३२
नवहस्ताष्टहस्तं वा सप्तहस्तमथापि वा
तत्र ब्रह्मपदे कु र्याद् वेदिकां रत्निमात्रतः ३३
कलशान्वेदिकामध्ये विन्यसेत्स्थण्डिलोपरि
पिधानं वस्त्रकू र्चासन् सहैमान्पल्लवैर्युतान् ३४
शिवकु म्भं न्यसेन्मध्ये वर्धनीं तस्य वामतः
परितोष्टौ न्यसेत्तत्र विद्येश्वरसमन्वितम् ३५
अर्चयित्वा सुगन्धाद्यैः स्वैः स्वैर्मन्त्रैस्तु देशिकः
दशायुधानि परितः पूजिते स्वाधिदैवतः ३६
अष्टमंगलरूपाणि वेदिमध्ये तु पूजयेत्
तोरणानि ध्वजान्यत्र पूजयेत्तु विधानयेत् ३७
दर्भमालापरिक्षिप्तं सर्वालंकारसंयुतम्
कु र्यादध्ययनं प्रोक्तं नवमं चैकवा पुनः ३८
वृत्तं वा चतुरश्रं वा सर्वकु ण्डानि कारयेत्
पर्यग्निकरणं कृ त्वा पुण्याहं तत्र कारयेत् ३९
गन्धाद्यैरर्चनं वातु होमं कु र्याद्विचक्षणः
समिदाज्यचरुं लाजान् वेणुबिल्वयवैस्तथा ४०
प्रत्येकं शतमर्धं वा कु र्यात्तु +++ शं पुनः
समिधा पंचमेनैव वस्त्रेणाज्यं तथैव च ४१
अघोरेण चरुं हुत्वा लाजं वामेन चैव हि
आद्येन वेणुबीजानि बिल्वपत्रं हृदा तथा ४२
नेत्रेण तु यवान्हुत्वा प्रत्येकं व्याहृतिं तथा
प्रजापतिं च शिरसा प्रतिद्रव्यं विशेषतः ४३
सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन्
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् ४४
जयादिरभ्यातानं च राष्ट्रभृच्च क्रमात्पुनः
हुत्वान्ते तु यदस्येति जुहुयात्तु विशेषतः ४५
सायं प्रातर्बलिं दद्याद् होमान्ते तु विशेषतः
षोडशांगुलमुत्सेधं उत्तमं तत्प्रचक्षते ४६
द्वादशांगुलमुत्सेधं मध्यमं समुदाहृतम्
उत्सेधाद्द्विगुणं नाहं मूलतः परिकीर्तितः ४७
अग्रमंगुलविस्तारं कृ त्वा संपूजयेत्ततः
अस्त्रराजाधिदैवत्यं पूजयित्वा तु देशिकः ४८
शिरसा धारयित्वा तु दशायुधसमन्वितम्
वितानच्छत्रसंयुक्तं पिंछचामरसंयुतम् ४९
प्रथमं विघ्नरात्रं स्याद् द्वितीयं ब्राह्ममुच्यते
++ रात्रं तु तृतीयं स्यात् गन्धर्वाणां चतुर्थकम् ५०
ऐन्द्रं तु पंचमं प्रोक्तं ऋषीणां षष्ठमुच्यते
सप्तमं वैष्णवं प्रोक्तं अष्टमं राक्षसं तथा ५१
नवमं शैवमुद्दिष्टं दिवसानां तु दैवतम्
भूतानां दिवसानां तु गाणवं समुदाहृतम् ५२
ऐन्द्रादिस्तु विमूर्तिः स्यात् गौणवं वैष्णवादिकम्
शैवं तु शैवमेवोक्तं दिवसं परिकीर्तितम् ५३
बन्धुकं मोदकं चैव मुद्गान्नं गुलसक्तु कम्
प्रथमेऽहनि दातव्यं विघ्नरात्रमनुस्मरन् ५४
हरिद्रान्नं सर्पिस्संयुक्तं नालिके रसमन्वितम्
चतुर्थेऽहनि दातव्यं गान्धर्वं मन्त्रमुच्चरन् ५५
इन्द्रवल्लिसमायुक्तं प्रियं च घृतसंयुतम्
पंचमेऽहनि दातव्यं ऐन्द्रं मन्त्रमनुस्मरन्
वेण्वन्नं दधिसंयुक्तं बृहतीफलसंयुतम्
सप्तमेऽहनि दातव्यं वैष्णवं मंत्रमुच्चरन् ५६
माषान्नं घृतसंयुक्तं माढतीमांससंयुतम्
अष्टमेऽहनि दातव्यं राक्षसं मन्त्रमुच्चरन् ५७
शुद्धान्नं दधिसंयुक्तं बृहतीफलसंयुतम्
नवमेऽहनि दातव्यं ऐश्वरं मन्त्रमुच्चरन् ५८
अलाभे चान्यद्रव्याणां शुद्धान्नेनाथ नित्यशः
ब्रह्मामीशानसंयुक्तान् गन्धपुष्पादिभिः क्रमात् ५९
विघ्नराजादिमंत्रास्तु प्रणवादि नमोन्तकैः
पूजयित्वा यथान्यायं स्वाहान्ते च बलिं ददेत् ६०
प्रथमं बलिदानान्ते कु र्याद्ग्रामप्रदक्षिणम्
एकं वापि द्वितीयं वा पत्रं वा सर्वमेव वा ६१
पश्चात्तु विद्यते यत्र द्वादशप्रतिमेनथा
कौतुकं बन्धयेद्विद्वान् उत्सर्वार्थं हृदा तु तत् ६२
++ तं कौतुकं यस्मिन् तत्कौतुकमुदाहृतम्
सर्वालंकारसंयुक्तं सर्वाभरणभूषितम् ६३
रंगे वा शिबिकायां वा रथे वा सेप्य भक्तितः
उत्सार्यं तु तेनैव कारयेदुत्सवान्ततः ६४
राक्षसे दिवसे चैव युद्धारंभं प्रभावयेत्
धनुर्धरास्तथा के चित् के चिद्खड्गधरास्तथा ६५
के चिदश्वसमारूढा ++ क्षैद्वै गजवाहनाः
के चिद्युद्धसमोपेता भीताः के चित्तथैव ६६
एवं कृ त्वा तु दिवसे रात्रौ कौतुकबन्धनम्
सौवर्णं पूर्णपात्रं वा सूत्रं कार्पासमेव वा ६७
पुण्याहं वाचयित्वा तु कौतुकं बन्धयेद्धृदा
आवाह्यं पूर्वदेवांस्तु गन्धाद्यैरर्चयेद्धृदा ६८
तीर्थसंग्रहणं वापि कर्तव्यमुषसि क्रमात्
सा विखैः कलशैः सूत्रैः मूलं वै ++ प्रयत्नतः ६९
चूर्णोत्सवं ततः कु र्याच्छैवेषु दिवसे तथा
प्रासादस्याग्रतो वापि याम्ये वा पावके ऽन्यथा ७०
स कृ त्वा मण्डपं सम्यग्गोमयालेपनं तथा
संस्थाप्य मूलं तत्रैव अघोरेणासनोपरि ७१
ग्तदग्रे स्थण्डिलं कृ त्वा शालिभिर्विमलैस्तथा
विन्यसेच्च क्रमेणैव लूखलं वस्त्रवेष्टितम् ७२
दूर्वा च सहदेवी च बन्धयेल्लूखलं हृदा
पवमानेन संप्रोक्ष्य पुण्याहं वाचयेत्ततः ७३
अर्चयित्वा सुगन्धाद्यैः त्रिशूलं लूखलस्तथा
घृतं शिरोर्पणं कु र्याल्लूखलं मुसलं तथा ७४
स घृतैस्सद्यमन्त्रेण हेमदूर्वांकु राक्षतैः
सुशुष्कां रजनीं शुद्धां निक्षिपेदाढकत्रयम् ७५
चतुष्पदफलं ज्ञेयं आढकं तत्प्रमाणतः
आढकद्वितयं कार्यं ग्राह्यं ग्राह्यांक्रु मेव वा ७६
चूर्णयेद्देशिकस्तत्र हृदयेन तु मन्त्रतः
जयशब्दादिसंयुक्तं हरशब्दसमाकु लम् ७७
गीतवाद्यसमायुक्तं स्तोत्रमंगलवाचकैः
ततो भक्तजनैस्सार्धं ++ तेन तु देशिकः ७८
स्नापयेच्छिवमन्त्रेण शिवमभ्यर्चयेत्ततः
तैलाभ्यञ्जनशूलं तु चूर्णेन स्नापयेत्ततः ७९
आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः
ग्रामप्रदक्षिणं कृ त्वा ततस्तीर्थं समाचरेत् ८०
कलशान्स्नापयित्वा तु सहिरण्यान्सवस्त्रकान्
प्रासादस्याग्रतः सम्यग्विद्येश्वरशिवात्मकान् ८१
संग्राह्य कलशांश्चापि दीदे++ तथैव च
जादिकं च संग्राह्य गीतवाद्यसमायुतम् ८२
गच्छेद्भक्तजनैस्सार्धं ततस्तीर्थं तु देशिकः
तीरे स सम्यक्
कृ त्वा तु ++ स्थण्डिलद्वयम् ८३
स्थण्डिले स्थाप्य देशं तु ++ लोके शान् ++ विन्यसेत्
अर्चयित्वा तथान्यायं शूलं वै कलशां स्थितान् ८४
शूलस्य मध्यमे पात्रे शिवमावाहयेद्बुधः
दक्षिणे विष्णुमाबाह्य वामपार्श्वे प्रजापतिम् ८५
पार्वतीं पालिकायां तु कु म्भे चैव तु षण्मुखम्
विघ्नेशं तदधस्तत्र दण्डमध्ये तु भास्करम् ८६
चण्डेशं दण्डमूले तु दण्डाग्रे मदनं तथा
त्रिदेवीं पूर्वदिग्भागे दक्षिणे मातरस्तथा ८७
ज्येष्ठां तु पश्चिमे चैव दुर्गादेवीं तथोत्तरे
लोकपालान्सितं चैव त्रयस्त्रिंशति देवतान् ८८
पातालान्सप्तमूल +++++++ समारभेत्
अनन्तादिशिखण्ड्यन्तान् कलशेष्वभितो न्यसेत् ८९
गंगा च यमुना चैव नर्मदा च सरस्वती
सिन्धुर्गोदावरी चैव कावेरी चैव सप्त च ९०
आवाह्य मध्यमे चैव कलशे देशिकोत्तमः
तन्मन्त्रेण ततः स्थाप्य स्नानतीर्थे समाचरेत् ९१
सहस्नानं तु यः कु र्यात् सर्वपापात्प्रमुच्यते
दिनेष्वेतेषु सर्वेषु ष्वांगवि धूपदीपकैः ९२
विशेषात्पूजनं कु र्याद् विभवस्यानुरूपतः
स्नपनं तु ततः कु र्यान् मूलबिम्बं विशेषतः ९३
कौतुकं प्रतिमां चापि स्नपनं कारयेत्ततः
संदितान्वेदिका मध्ये स्नपनं कारयेच्छिवम् ९४
पुण्याहं वाचयेत्तत्र प्रोक्षयेत्तु शिवाम्भसा
ध्वजावरोहणं कु र्याद्वृषभान्तं विसर्जयेत् ९५
ग्रामप्रदक्षिणं कु र्याद्बलिं दत्वा विशेषतः
विसर्जनं ततः कु र्याद् ब्रह्मादीन्परितस्तथा ९६
एवं यः कु रुते मर्त्य उत्सवं विधिपूर्वकम्
कु लैकविंशतिं मुक्त्वा रुद्रलोके महीयते ९७
इति स्वायंभुवसूत्रे उत्सवविधिपटलः ३७