१९ अरुणपूजाविधिपटलः

अथ वक्ष्ये विशेषेणारुणपूजाविधिक्रमम्
कुरूपविकाराद्यानां देवैर्युद्धं पुनर्वर्तते १
तत्र देवाश्च संत्रस्ता विष्णुमूर्तिमुपाश्रिताः
अशक्ता विष्णुना चापि शिवमूर्तिं समाश्रिताः २
देवदेव नमस्तुभ्यं विश्वरूपाय ते नमः
इति विज्ञाप्य सर्वे ते तुष्टुवुः शिवमादरात् ३
दक्षिणान्ते प्रभाते च तत्काले परमेश्वरम्
सांगुदेवसमं पूज्य त्यैनासाक्षादीन्प्रताडयेत् ४
असुराणां क्षयं दृष्ट्वा अच्युतप्रमुखाः सुराः
प्रभोराज्ञां समासाद्य लोकरक्षार्थमादरात् ५
संधिद्वययथाकामिं तत्काले शिवमर्चयेत्
सर्वदेवाश्च संपूताः पूजयन्तः शिवं विभुम् ६
तस्मात्सर्वप्रयत्नेनारुणपूजां समाचरेत्
तत्पूजा द्विविधा ज्ञेया नित्यां नैमित्तिके ति च ७
अब्दं प्रतिविशेषेण मार्गशीर्षे च मासके
नित्यं नैमित्तिकं चैव तत्पूजाविधिरुच्यते ८
भास्करस्योदयात्पूर्वं त्रिपादेन त्रिनाडिका
पूजाकालस्तु विज्ञेयः तत्काले शिवमर्चयेत् ९
निवेद्यार्थं शिवस्येह तण्डुलानां विधिं शृणु
द्रोणद्वयं समारभ्य द्रोणद्रोणविवर्धनात् १०
त्रिभारान्तं यथा योग्यं उत्तमं मध्यमाधमम्
व्यंजनं तु चतुर्थांशं तत्समं फलमुच्यते ११
अष्टांशं च घृतं प्रोक्तं सूपं तत्सममुच्यते
पयो मधु गुलं चैव यथा वित्तानुसारतः १२
अष्टांशार्धार्धभागं वा मुद्गमेवं प्रकल्पयेत्
नन्द्यावर्तं च दान्तं च गन्धादीन्संग्रहेत्ततः १३
पूजोपकरणं यद्यत् सर्वं संपाद्य यत्नतः
भोगांगनिलयं गत्वा द्वारदेवान्समर्चयेत् १४
शीघ्रं नीत्वा कपाटं च प्रविश्यान्तस्तु देशिकः
देवदेवं नमस्कृ त्य विज्ञापनमथाचरेत् १५
देवस्य चाज्ञया चैवारुणपूजां समाचरेत्
नित्यस्नानादिकं कृ त्वा सकलीकृ तविग्रहः १६
गणेशं पूजयित्वा तु स्नानद्रव्याणि साधयेत्
द्वारपूजां ततः कृ त्वा लिंगशुद्धिं समाचरेत् १७
स्नानद्रव्यादिभिस्सर्वैः स्नानकालेऽभिषेचयेत्
तदन्ते मंत्रपुष्पं च गौलामन्त्रेण दापयेत् १८
प्रथमस्य द्वितीयं च चन्द्रमेकं निवेशयेत्
चतुर्थस्वरसंयुक्तं सप्तमादिद्वितीयकम् १९
पंचमात्पंचमं चैव तच्चतुर्थमुदाहृतम्
सप्तमस्य त्रयं वापि द्वितीयप्रथमं भवेत् २०
चतुर्थस्य द्वितीयं तु पंचमप्रथमान्तकम्
सप्तमाद्यं समायोज्य गौलामन्त्रमितीरिता २१
चतुश्चत्वारिंशत्संख्यैः मन्त्रपुष्पं च दापयेत्
मन्त्रांश्च दापयेच्छंभोः मन्त्रेणैव तु बुद्धिमान् २२
वस्त्रादिभिरलंकृ त्य स्थलशुद्धिं ततः कु रु
पश्चात् त्रिपादीन्यस्य पंचसप्तनवान्तकम् २३
सर्वालंकारसंयुक्तं पात्रमन्नेन पूरयेत्
तन्मध्यमेऽवटं कल्प्य पयः शुष्केन पूजयेत् २४
अन्यानि रसवस्तूनि मध्वाद्यानि विनिक्षिपेत्
अहमस्मीति मंत्रं च भूसुरैस्सहितो यजेत् २५
देशिको दापयित्वा तु कू ष्माण्डैरेव बुद्धिमान्
परिवारामरादीनां पूर्वोक्तविधिना सह २६
निवेद्यैवं विसृज्याथ स्थलशुद्धिं समाचरेत्
ताम्बूलं च निवेद्याथ धूपदीपं ददेद्गुरुः २७
मुखवासं ददेत्पश्चाद् दर्पणादीनि दर्शयेत्
दान्तं च नन्द्यावर्तं चाप्यरविन्दं च मिश्रितम् २८
एकपात्रे समापूर्य तत्काले शिवमर्चयेत्
श्रीकण्ठाय नमस्तुभ्यं गंगाधर नमो नमः २९
पिनाकिने नमस्तुभ्यं शूलपाणे नमो नमः
कपालिने नमस्तुभ्यं विश्वरूप नमो नमः ३०
जगत्कर्त्रे नमस्तुभ्यं लोकसाक्षिन्नमो नमः
ईशानाय नमस्तुभ्यं अम्बिकापतये नमः ३१
चिदम्बर नमस्तुभ्यं चित्प्रकाराय ते नमः
अरूपिणे नमस्तुभ्यं रूपिणे च नमो नमः ३२
एवं मन्त्रेण विधिवद्गुणसंख्यां समर्चयेत्
उपचाराणि सर्वाणि पूर्ववत्कल्पयेद्गुरुः ३३
वेदाध्ययनमन्त्रेण यागमण्डपमाविशेत्
शिवदीक्षाविहीनाश्च द्वारबाह्ये प्रवेशयेत् ३४
आचार्यः सुप्रसन्नात्मा बीजमुख्यं शतं जपेत्
चण्डपूजां विना कार्यारुणपूजा विशेषतः ३५
एवं क्रमेण कृ त्वाथ प्रातस्सन्ध्यां समाचरेत्
इति स्वायंभुवे प्रतिष्ठातन्त्रे अरुणपूजाविधिपटलः ३६