१८ संकोचविधिपटलः

जीर्णोद्धारविधिं वक्ष्ये शृणुष्वैकमनाधुना
लिंगस्य प्रतिमासं च पिण्डिकायास्तथैव च १
विमानस्य च जीर्णस्य नवीकरणकर्म च
परिवारालयस्यैव भक्तानां च विशेषतः २
अन्येषामपि जीर्णानां बिल्वार्चाविष्टरादिषु
+++ चोत्तरतरैः नाशिते मरुताग्निना ३
एवमादिविशीर्णे तु देवता न वसन्ति हि
जीर्णमुत्सृज्य विधिवत् तिष्ठन्त्यब्दत्रयावधि ४
गतं गतं च कृ त्वा तु स्थानं दादित्यमण्डलम्
आमिषग्रहणार्थाय चरतैतियु पक्षिवत् ५
तत्रत्यं यजमानश्च स्थानिनो मन्त्रवित्तमान्
मद्भक्तान्वीतरागांश्च सदा कांक्षन्ति देवताः ६
ततोऽर्कं मण्डलं प्राप्य शपन्त्येता न संशयः
ततो जीर्णानि वस्त्राणि वेताला ब्रह्मराक्षसाः ७
कू ष्माण्डाश्च पिशाचाश्च आश्रयन्ति न संशयः
तस्माच्छीघ्रं प्रकर्तव्यं नवी करणकर्म च ८
मूलालयप्रमाणेन कर्तव्यं तरुणालयम्
अर्धं वाथ त्रिभागं वा तरुणोक्तविधानतः ९
मूलालये यथाद्वारं प्रतिद्वारं विशेषतः
बालालयस्य द्वारं स्यात् पूर्ववत्पूजनं नव १०
चतुर्द्वारार्चने यत्तु यथा द्वारादिपूजनम्
प्रतीच्यां च यथा द्वारं त्रिशं पूर्ववत्स्मरेत् ११
तस्मात्सर्वप्रयत्नेन नित्यपूजादिपूजनम्
ततो मूलालयं प्राप्य सर्वमेव क्रमेण तु १२
एवं बालालयं प्रोक्तं बाललिंगस्य कथ्यते
यथाश्रलोक्तवृक्षेण बाललिंगं प्रकल्पयेत् १३
मूललिंगस्य पूजांशे त्रिभागैताथ निर्मितम्
तं नाहं सममेवं स्यात् सुवृतं सूत्रवर्जितम् १४
तस्मिन्नवास्य देवेश दारुलिंगेऽथ लोहजे
घटचित्रपटे वापि दर्पणादो यथाविधि १५
कपे किं चिद्विशेषोऽस्ति सप्ताहमुत्तमं स्मृतम्
पक्षांशं मध्यमं प्रोक्तं मांसकन्यसमुच्यते १६
नित्यं नवजलं लोज्य पूजयेत्तु विचक्षणः
संनिवेद्याथ देवेशं सायुधं च सवाहनम् १७
आवृतीशान्परीवारांस्तथा तत्रैव योजयेत्
विमानस्थस्तथा देवांस्तद्विमाते नियोजयेत् १८
प्रतिष्ठादीनि सर्वाणि बाह्यस्थानोक्तवन्न्यसेत्
यात्राहोमादिकं सर्वं तत्तद्युक्त्या निवेशयेत् १९
तदालये तु कर्तव्यं पूजा नित्यं प्रयत्नतः
यावन्न विकृ तं लिंगं प्रासादाद्यं यथाविधि २०
तावत्पूजादिकं सर्वं कारयेत्तरुणालये
कर्मसादाख्य हीनं तु अर्धमाषविहीनकम् २१
ब्रह्मभागे चतुर्माषं विष्णुभागे त्रिमाषकम्
एवं हीनं गृहीत्वा तु तदूर्ध्वेन प्रशस्यते २२
बाललिंगे समायोज्य नवीकरणकर्म च
गाणवे तु विशेषेण माषादिदशतान्तकम् २३
हीनं चेत्तु गृहीत्वा तु तदूर्ध्वं न विचारतः
पूर्वमेव क्रमेणैव नवीकरणमेव च २४
दैविके तु विशेषेण माषादिद्विदशान्तकम्
एवं हीनं गृहीतव्यं तदूर्ध्वं न प्रशस्यते २५
आर्षे तु च विशेषेण अंगुलादित्रियंगुलम्
एवं हीनं गृहीत्वा तु तदूर्ध्वं तु विशेषतः २६
गाणवे दैविके चैव आर्षेष संप्रकल्पयेत्
पूर्वस्थाने खनित्वा तु तल्लिंगं च निधापयेत् २७
अथवा भिन्ने च स्फोटने चैव छिन्ने चैवाग्निदग्धके
एवं न्यस्त्वा विशेषेण तत्समानं प्रगृह्यताम् २८
भुक्तिमुक्तिप्रदं चैव मानवस्थापनं क्रमात्
मानुषादिषु लिंगेषु पठेष्वेव समाचरेत् २९
दृष्ट्वाथ ++ क्षयं लिंगं कृ त्वा लिंगं पुरोक्तवत्
यथा लिंगं तथा पीठे योजयेत्तु विचक्षणः ३०
कृ त्वा लिंगं क्षयं पीठं तत्क्रमेणैव बुद्धिमान्
स्वायंभुवे विशेषेण जीर्णोच्छिन्नं च संग्रहः ३१
छिन्नं चेत्पट्टबन्धं च संप्रोक्षणमथाचरेत्
शिवं सादाख्यकर्तव्यं मूलसंकोचमाचरेत् ३२
अन्यसादाख्यकर्तव्यं बालसंकोचमाचरेत्
स्थूपाद्यवयवच्छेदे एकांगुलं च संभरेत् ३३
तदूर्ध्वं न प्रशस्तं स्याद्द्व्यंगुलं पद्महीनकम्
तदूर्ध्वं नेषदेवं स्याद् महानासी त्रयांगुलम् ३४
तत ऊर्ध्वं न कर्तव्यं शिखरे देशांगुलं भवेत्
पश्चात्तेषु न कर्तव्यं कर्णे तु त्र्यंगुलं भवेत् ३५
वाहनादीनि कर्तव्यं द्व्यंगुलं संमतं भवेत्
शक्तिध्वजमिदं प्रोक्तं एवमेवं च संग्रहेत् ३६
होमादिप्रस्तरान्तं च सप्तांगुलसमाविधि
एवं गृहीत्वा तु कर्तव्यं मूर्धन्न्यस्त्वा प्रयत्नतः ३७
प्राकारं परिवारं च यथायोग्यं प्रयत्नतः
बालहर्म्याणि हर्म्याणां प्रतिमां बाललिंगकम् ३८
अल्पनासी च शालां च कपोतं कू टपंजरम्
विष्टरं बलिपीठं च यद्द्रव्येण तु तत्तथा ३९
देवांश्च तद्विमानस्थान् पीठाग्रे वा नियोजयेत्
दैविके मानुषे वापि पदे संयोजयेत्सुधीः ४०
पैशाचेऽपि न कर्तव्यं मण्डपस्यान्तराकृ ते
अष्टदिक्षु च कर्तव्यं भद्रपीठे यथा पुनः ४१
धिष्ण्यं विमानसंकल्प्य तस्मिन्नाविश्य रक्षयेत्
यात्राहोमादिकं सर्वं गुरुणोक्तविधानतः ४२
कु म्भादिके समादाय तस्मिन्धिष्ण्ये नियोजयेत्
पीठाग्रे वाथ लिंगे वा यथा गुप्तिर्यथा रुचिः ४३
विमानस्थापनं काले यथापूर्वं नियोजयेत्
मानुषादिषु लिंगेषु विमानेष्वेवमाचरेत् ४४
सकलादिषु जीर्णेषु कु म्भे वा मण्डलादिके
षोडशप्रतिमादीनि दारुलिंगे सुयोजयेत् ४५
मानुषादिषु ++++ सकले वाथ योजयेत्
एवमुद्धारणं प्रोक्तं शेषं पूर्ववदाचरेत् ४६
मूलालयप्रवेशान्ते दारुलिंगं च दाहयेत्
अथवा सद्य एवं तु जले वापि स्थलेऽपि वा ४७
विज्ञाप्य विधिवद्देवं प्रभूतहविषं ददेत्
व्योमव्यापि विधानेन पंचब्रह्मषडंगकैः ४८
पूजयित्वा तु देवेशं षडध्वन्यासमार्गतः
तत्संभ्रन्ति तथा कु र्याद् रक्षाबलिमथाचरेत् ४९
प्रवेशबलिमार्गेण बलिं सम्यक्समाचरेत्
एवमादीनि कार्याणि तत्तत्काले समाचरेत् ५०
अकृ तं चेन्निहन्त्याशु तत्रस्थं मानुषं ध्रुवम्
शान्तिहोमं दिशाहोमं राक्षोघ्नं च तथैव च ५१
कृ त्वा संभोजयेद्विप्रान् मद्भक्तांश्च प्रपूजयेत्
वेदाध्ययनसंयुक्तं विशेषात्पंचशान्तिकम् ५२
दक्षिणां तु गुरोर्दत्वा यथाशक्ति विशेषतः
अष्टबन्धनकर्मे तु कलास्थलनवीकृ ता ५३
पक्षाहं सप्तभागर्वा मासं कु म्भे तु पूजयेत्
तदूर्ध्वं शेषमित्युक्तं त्रिदिनैकदिनेऽपि वा ५४
सप्तनज्यवसानैर्वा पुनर्यजनमाचरेत्
स्नपनं शान्तिहोमं च प्रोक्षणं च यथाविधि ५५
अथवान्यप्रकारेण ग्रहार्चादिषु कथ्यते
बाललिंगादिलिंगेषु पीठे जीर्णे तथैव च ५६
आत्मन्युद्वास्य विधिवत् कु म्भादौ वा यथा विधि
शकलानि परित्यज्य यथा स्वर्णेन कारयेत् ५७
रजतेनाथ ताम्रेण शिलया दारुणाथवा
यथा पूर्वं तु संस्थाप्य यथा पूर्वं नियोजयेत् ५८
अष्टबन्धविहीने तु बाणलिंगे विशेषतः
स्वर्णेन रजतेनैव अष्टबन्धं तु कारयेत् ५९
कु म्भादौ पूर्ववद्योज्य कर्मान्ते योजयेच्छिवम्
स्नपनं शान्तिहोमं च प्रायश्चित्तास्र जापकम् ६०
प्रभूतहविषं चैव कृ त्वा संकोचयेच्छिवम्
सकलं पूर्ववत्कुर्यात् अनेन विधिना सुधीः ६१
चित्रे चित्राब्जके वापि कु म्भादौ विनिवेश्य च
शान्तिहोमादिकं कृ त्वा वर्णशुद्धिमथाचरेत् ६२
संप्रोक्षणादिकं कृ त्वा पूर्ववत्पूजयेद्बुधः
बलिपीठादिके वापि ध्वजदण्डादिके ऽपि वा ६३
प्राकारादिविशीर्णे तु एवमेवं समाचरेत्
जपं विशेषतः कृ त्वा चास्त्रमन्त्रैरतन्द्रितः ६४
पुनस्संस्थापनं कु र्यात् तत्प्रमाणवशेन तु
तद्द्रव्येण विशिष्टेन प्रमाणेनाधिके न वा ६५
तस्माद्धीनं न कर्तव्यं येन के न प्रकारतः
अंगोपांगविहीने तु प्रत्यंगानि विशीर्णिते ६६
शिरो वक्त्रं च हृदयं गलं चेति प्रकीर्तितम्
कक्षौ कर्णौ स्तनौ बाहू नाभिगुह्योदरस्तथा ६७
ऊरूजानुद्वयं चैव पृष्ठं चेति प्रकीर्तितम्
नेत्रनासाग्रकर्णौ च पाणिपादतलांगुलि ६८
जटामकु टयुक्तं च सांगं चेति प्रकीर्तितम्
वस्त्रोपवीतमाला च कु र्यादाभरणं तथा ६९
गंगाचन्द्रमपस्मारं नागकू र्मं तथैव च
पद्मपीठं प्रभा चैव आसनादि क्रमेण तु ७०
शिलादिं मृण्मयं चैवोपांगमिति प्रकीर्तितम्
मृण्मयं दारुजं वापि लोहजं वा शिलामयम् ७१
स्थापितं पूजितं बेरं जीर्णं वा हीनमेव च
छिन्नं वाप्यग्निदग्धं वा घ्राणं सुषिरमेव वा ७२
भ्रूरेखा पक्ष्मरेखा च आस्यरेखा च रासिका
एवमे संक्षयं दृष्ट्वा प्रतिमां तु विशेषतः ७३
मृण्मये पूर्णहीनं चेद् पुनः कृ त्वा समारभेत्
छिन्नं भिन्नं हि न ग्राह्यं जीर्णं चेत्तु नवीकृ तम् ७४
प्रतिमा शूलहीनं चेत् जीर्णोद्धारं तु कारयेत्
दारुजं बेरमाख्यातं तत्तदंगेषु हीनकम् ७५
तन्धुने तत्तदंगे च तद्बिम्बं परिवर्जयेत्
पादपेन यथा कु र्याद् पूर्ववद्रूपमाचरेत् ७६
पुनः संस्थापनं चैव लक्षणोक्तक्रमेण तु
लोहजे तु तथा वापि किं चिद्भेदं विशेषतः ७७
उत्तमांगविहीने तु त्यक्त्वा बिम्बं प्रयत्नतः
तद्द्रव्यं च समादाय तत्प्रमाणैव बुद्धिमान् ७८
तद्रूपं च यथा कु र्यात् स्थापयेच्च नवं पुनः
मानोत्कृष्टं प्रकर्तव्यं मानहीनं न कारयेत् ७९
उपांगं च तथा दृष्ट्वा शुचिलोहं जपेद्बुधः
दिनत्रयादि मासान्तं पुनस्सन्धानमाचरेत् ८०
परोक्तक्रमेणैव स्थापनं सम्यगाचरेत्
प्रत्यंगं च तथा दृष्ट्वा पुनस्संधानमाचरेत् ८१
शिवबीजं स्मरेन्नित्यं मासान्तं क्रमशः कु रु
शिलायां वाथ रूपं तु तत्तद्धीनं तु संभवेत् ८२
पूर्ववद्बिम्बमुद्धृत्य बिम्बमध्ये निवेदयेत्
शिलामन्यां गृहीत्वे त्थं शिलाग्रहणमार्गतः ८३
स्थापयित्वा विशेषेण पूर्ववत्कारयेद्बुधः
अथवान्यप्रकारेण हीनं चेत्तु विशेषतः ८४
माषादि पंचमाषान्तं हीनमेवं न विद्यते
शिलारूपेण कर्तव्यं शिलायां योजयेत्सुधीः ८५
मृण्मयं दारुजं वापि पूर्वमेव क्रमेण तु
एतत्सर्वं च कर्तव्यं ततः स्थापनवत्कु रु ८६
इहैव पुत्रवाञ्छ्रीमान् सोऽन्ते सायुज्यमाप्नुयात् ८७
इति स्वायंभुवे संकोचविधिपटलः ३५