१७ सर्वप्रायश्चित्तविधिपटलः

प्रायश्चित्तविधिं वक्ष्ये सर्वसम्पत्करं नृणाम्
प्रायो विनाशमित्युक्तं सिन्धुरं चित्तमेव च १
कृ त्वा संधानकं चैव प्रायश्चैत्तं तथा भवेत्
भवहीने न कर्तव्यं धामहीनं न कारयेत् २
संप्रोक्षणं ततः कृ त्वा जपेत्पाशुपतं शतम्
न्यूने च जीर्णिते चैव नन्द्यावर्तस्य लेपि च ३
तत्तद्वर्गे तु संयोज्य पुरा वातोपहीनके
पुनस्संधानकं कृ त्वा शान्तिकुं भं तु कारयेत् ४
स्फुटिते खण्डिते भिन्ने जीर्णहीनं तु कारयेत्
हर्म्यस्य चलितादास्या पूजायोग्यं तु कारयेत् ५
पादवर्गं तु चांगुल्यं दोषहीनं तु कारयेत्
तद्वर्गसहितं कृ त्वा शान्तिं कृ त्वा तु होमकम् ६
हीनाधिकं तु यद्वर्गं राजराष्ट्रं विनश्यति
संप्रोक्षणं ततः कृ त्वा मूर्तिहोमं समाचरेत् ७
प्रार्थयेत्तु नमस्कृ त्य मूर्तिहोमं समाचरेत्
प्रार्थयेत्तु नमस्कृ त्य सर्वालंकारसंयुतम् ८
प्रस्तरस्य गले वर्गद्व्यंगुलं वा ++ हीनके
तद्दोषशमनार्थाय शान्तिकु म्भाभिषेचनम् ९
भवने स्फुटिते चैव जीर्णिते शत्रुवर्धनम्
तत्त + कमनुस्मृत्य पुण्याहं वाचयेत्ततः १०
स्थूपीं प्रधानतूलस्य पिप्पली कोटरे तथा
चलिते वर्गहीने च राजराष्ठ्रविनाशनम् ११
नवमन्यं परिग्राह्य पूर्वोक्तलक्षणान्वितम्
संप्रोक्षणं ततः कृ त्वा शान्तिहोमेन शाम्यति १२
शिवमंत्रं सहस्रार्धं जपेत्पाशुपतं स्मृतम्
ध्वजदण्डस्य हीने च रोगशोकभयावहम् १३
पुनस्संस्कारकं कृ त्वा शान्तिकु भाभिषेचनम्
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमार्गतः १४
प्लक्षो पश्चिमभागेन नाशिते शत्रुपीडिते
श्रामश्रीत्वन्यथा चैव शान्तिं कृ त्वा विशेषतः १५
गर्भगेहे प्रविष्टे च स्पृष्टे लिंगानुकौतुकम्
तद्दोषशमनार्थाय पुण्याहं वाचयेद्बुधः १६
क्षीराभिषेकं कर्तव्यं मूर्तिं कृ त्वा तु होमकम्
संप्रोक्षणं ततः कृ त्वा पुनस्सन्धानमाचरेत् १७
सिंहासनं च हीने च राजराष्ट्रभयावहम्
संप्रोक्षणं ततः कृ त्वा शान्तिकु म्भाभिषेचनम् १८
दीपदण्डविहीने च शोकदुःखभयावहम्
तत्काले दीपदण्डं स्यात्पुण्याहं वाचयेत्ततः १९
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत्
पलाशसमिधा चैव ईशानेन तु मन्त्रतः २०
कवचेन चरुं हुत्वा सर्षपं पुरुषेण तु
अघोरेण तिलं हुत्वा क्रमेणैव तु होमयेत् २१
पूर्णाहुतिं च शिरसा स्विष्टमग्नेति मंत्रतः
पुनर्दीपं समादाय मूलमन्त्रेण योजयेत् २२
पूर्वोक्तलक्षणैर्युक्तं दीपदण्डं समाचरेत्
अधिवासादि यत्सर्वं सर्वकर्मेण योजयेत् २३
के शरोमनखादींश्च जटामकु टनेत्रकम्
शिरते भूषणैर्युक्तं उपांगं वा विशेषतः २४
पूर्ववत्संधयेत्पश्चात् शान्तिकु म्भं समाचरेत्
पादुकाचैवमादीनि भूषणं चेन्दुशेखरे २५
छन्नवीराभरणं शंखं मूलं तथैव च
कह्लारमक्षमालानि पाशशस्त्रयुतान्यपि २६
पीठं च कर्णभूषं च प्रत्येकं च विहीनकम्
नृपस्य मरणं शीघ्रं दुर्भिक्षं जायते भुवि २७
राजवाहनहीने च चतुरंगविहीनके
शेषाण्यलंकृ तानां च नाशनं भवति ध्रुवम् २८
पुनस्सन्धानकं कृ त्वा संप्रोक्षणमथाचरेत्
पानकाले तथा वापि नाशिते पतिते भुवि २९
तद्ग्रामवासिनां चैव शोकदुःखभयावहम्
तद्दोषशमनार्थाय पुण्याहं वाचयेद्बुधः ३०
संप्रोक्षणं ततः कृ त्वा शान्तिहोमं समाचरेत्
स्तम्भभूषणहीने च राजा मरणमाप्नुयात् ३१
पुण्याहं च ततः कृ त्वा संप्रोक्षणमथाचरेत्
परियष्टिविहीने च भूपतेर्दुर्जयो भवेत् ३२
तद्दोषशमनार्थाय पुण्याहं तु तथा भवेत्
संप्रोक्षणं ततः कृ त्वा शान्तिकु म्भाभिषेचनम् ३३
तत्तन्मन्त्रशतं जप्त्वा परिवेषं तथा भवेत्
ताम्बूलापूपनैवेद्यं धूपदीपं च हीनकम् ३४
संप्रोक्षणं ततः कृ त्वा शान्तिहोमेन शाम्यति
पुनस्सन्धानकं कृ त्वा पूर्वोक्तैर्लक्षणैर्युतम् ३५
नीराजनविहीने च दासीदासविनाशनम्
संप्रोक्षणं ततः कृ त्वा पुनस्सन्धानमाचरेत् ३६
नृत्तहीने च कर्तव्यं राजदुःखभयावहम्
तद्दोषशमनार्थाय मूर्तिहोमं तु कारयेत् ३७
भेरिका घोषहीनं चेद् लोकदुःखस्य वर्धनम्
पुनस्सन्धानकं कृ त्वा शिवमन्त्रं शतं जपेत् ३८
बलिदीपविहीने तु रोगशोकभयावहम्
तद्दोषशमनार्थाय दिशाहोमं तु कारयेत् ३९
प्राकारे गोपुरे चैव वल्मीके तु समुत्थिते
तद्दोषशमनार्थाय अवटं खानयेत्ततः ४०
मूर्तिहोमं ततः कृ त्वा संप्रोक्षणमथाचरेत्
अथवा लिंगपीठे तु वल्मीके तु समुत्थिते ४१
ग्रामश्रीस्त्वन्यथा चैव राजा दुर्जयमाप्नुयात्
तद्दोषशमनार्थाय दिशाहोममिति स्मृतम् ४२
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत्
समिधाघारचरुणा ब्रह्मकू र्चं विना चरेत् ४३
अष्टबन्धनहीने तु सर्वलोकजलक्षयम्
राजराष्ट्रविनाशं तु रोगशोकभयावहम् ४४
शान्तिहोमं ततः कृ त्वा अष्टबन्धनमाचरेत्
भवनं चाग्निदण्डं च तल्लिंगं योजयेद्बुधः ४५
माषं माषत्रियं चैव तिलं तिलत्रयं तथा
दृष्टवद्दर्शयेत्कृ त्वा पूजाकार्यन्नदो भवात् ४६
सद्येन शान्तिकु म्भं तु तिथिवारं विना चरेत्
शैलजं चैव कर्तव्यं लोहजं तु विशेषतः ४७
कर्णौ शिरसि बाहू च गण्डू च कोर्परं तथा
कटिजंघे महांगानि कर्णे चैव तु कारयेत् ४८
राजराष्ट्रविनाशं च पुनस्सन्धानमाचरेत्
मूलमन्त्रं शतं जप्त्वा शिवमंत्रं शतं जपेत् ४९
यानकाले तथा कृ त्वा प्रतिमासं भवेदिह
नृपस्य मरणं शीघ्रं दुर्भिक्षं जायते यदि ५०
स्नपनं शान्तिहोमं च जपेत्पाशुपतं शतम्
परिवारांगवैकल्ये पुनस्सन्धानमाचरेत् ५१
विष्ठा च प्रस्तवोद्गारवक्त्रमण्डपमाविशेत्
वारयेत्तालमात्रं तु सद्यः पुण्याहमाचरेत् ५२
गर्भगेहे च लिंगे च कल्पवल्लीकमुद्धरेत्
तद्ग्रामवासिनः सर्वे शोकदुःखभयावहम् ५३
तस्य लिंगस्य कर्तव्यं उष्णोदैरभिषेचनम्
अन्तर्मण्डलकारं च नराणां रुधिरं विशेत् ५४
अवटं खानयित्वा तु पुण्याहं प्रोक्षणं कु रु
पचनालये निवेशश्च नारीणां तु भयं भवेत् ५५
व्यपोह्यांगारकान्सर्वान् पश्चात्संधानमाचरेत्
शिलायां तु शिलाघर्षे गुष्टका च तथा भवेत् ५६
द्वितीयावरणे विष्ठा संमार्जनं च लेपयेत्
तद्दोषशमनार्थं तु पुण्याहं तस्य वाचयेत् ५७
चोरैर्वा अग्निदग्धे वा शान्तिकु म्भाभिषेचनम्
अथवा भद्रपीठांश्च नराणां स्रावमाचरेत् ५८
तद्दृष्ट्वा भूतवेतालपिशाचा ब्रह्मराक्षसाः
एताश्च देवतास्सर्वे आश्रयन्ति न संशयः ५९
राजराष्ट्रभयं चैव भूपतिस्त्वन्यदेशिकः
खानयेत्तत्र कु र्वीत बिल्वपत्रेण चार्चयेत् ६०
पुण्याहं गव्यसेचं च मूलमन्त्रं शतं जपेत्
बलिदीपविहीने तु शिवमन्त्रशतं जपेत् ६१
भेरीकाघोषहीने तु अर्चयेन्मरणं ध्रुवम्
मूर्तिहोमं च कर्तव्यं जपेत्पाशुपतं शतम् ६२
एकसंधिविहीने च अन्यसंधिफलद्वयम्
स्तम्भभूषणहीने च धनधान्यविहीनके ६३
शान्तिहोमं शतं जप्त्वा पुनर्भूषणमाचरेत्
कपोताण्डे मृते जाते वाहनानां क्षयं भवेत् ६४
पाशुपतं सहस्रं च तदर्थं मूलमन्त्रकम्
लिंगपीठस्य मध्ये तु स्थलरन्ध्रविहीनके ६५
क्षीरधाराभिषेकं तु जलधाराभिषेचयेत्
स्नपनं तत्र कु र्वीत शीतकु म्भं च कारयेत् ६६
ध्वजदण्डस्य विच्छिन्ने मालाबोधिकमालिके
स्थलकर्मविहीनं तु धामहीनं न कारयेत् ६७
आरोप्यमन्यकाले तु धान्यानां बन्धनक्षयम्
पुण्याहं प्रोक्षणं कृ त्वा पंचामृताभिषेचयेत् ६८
स्थलशुद्धिक्रमेणैव लिंगशुद्धिं तु पूर्ववत्
आस्थानमण्डपाहीने कर्षणालं कृ ते तथा ६९
ग्रामश्रीस्त्वन्यथा चैव धामश्रीस्त्वन्यथा भवेत्
तद्दोषशमनार्थाय मूर्तिहोमं समाचरेत् ७०
पुनस्संधानकं कृ त्वा पुनर्भूषणमाचरेत्
संप्रोक्षणं ततः कृ त्वा शान्तिहोमेन शाम्यति ७१
शिखरे वर्गहीने तु संप्रोक्षणमथाचरेत्
सुरा च विष्ठा मूत्रं च उद्गारं तु तथा भवेत् ७२
मन्दिरे गर्भगेहे च प्रतिमामण्डपे तथा
स्पर्शिते चैव कर्तव्यं राजा मरणमाप्नुयात् ७३
तद्दोषशमनार्थाय सप्ताहं धारयेत्क्रमात्
कृ ककुं चेरकं चैव पूर्ववत्परिकल्पयेत् ७४
भोगांगमण्डपं चैव जीर्ण ++++ संभवे
नृपस्य मरणं शीघ्रमुष्णरोगेन संभवेत् ७५
तद्दोषशमनार्थाय संमार्जनं च लेपयेत्
पुनस्सन्धानकं कृ त्वा संप्रोक्षणमथाचरेत् ७६
एवं यः कु रुते मर्त्यः प्रायश्चित्तं समाचरेत्
इहैव धनवान्छ्रीमान् सोन्ते च मोक्षमाप्नुयात् ७७
इति स्वायंभुवे प्रतिष्ठातन्त्रे सर्वप्रायश्चित्तविधिपटलः ३४