१६ कृत्तिकापूजाविधिपटलः

कृ त्तिकादीपपूजां तु वक्ष्येऽहं निधनेश्वर
मण्डपं पूर्ववत्प्रोक्तं कु ण्डवेदी समन्वितम् १
पद्मकु ण्डसमायुक्तं कल्याणतिलकं मतम्
कु ण्डमण्डलमाख्यातं द्रव्यसंपाद उच्यते २
पाद्यमाचमनं चार्घ्यं कु टजं पत्रपूर्वकम्
पत्रोदकं गन्धयुक्तं मिश्रवर्णं च वस्त्रकम् ३
गन्धद्रव्यं मृगमदं भूषणं रत्नमिश्रकम्
श्वेताब्जं शंखपत्रं च धूपद्रव्यमिहोच्यते ४
गुग्गुलं पत्रपुष्पं चाज्यं दीपसंख्यासहस्रकम्
पूर्वसंख्या तु माषान्नं इन्धनं च शिखा ++ ५
होमसंख्या सहस्रं च तत्संख्या जपमुच्यते
पानीयमिति पाकं च मध्वादिमुखवासकम् ६
तक्के श्याम्बलितालं च मुष्टिबन्धं च नर्तनम्
कालाग्निरुद्रदैवत्यं तन्मन्त्रं समनुस्मरन् ७
शेषं पूर्ववदुद्दिष्टं दीपं चैवाधिवासयेत्
यागशालां प्रविश्याथ सौरादिगुरुमर्चयेत् ८
नवकं तिलकं पूज्य यागेशं च सुपूजयेत्
होमं कृ त्वा विधानेन संपातं स ++ तन्नयेत् ९
पंचसप्तनवा दीपान् एकदीपमथाचरेत्
पश्चिमे चोत्तरे चैव स्थण्डिलद्वितयं भवेत् १०
मध्ये मनोन्मनीं पूज्य वामाद्यावृतमेव च
सदाशिवादि विद्येशान् विन्यसेत्तु क्रमेण तु ११
सनकादि ऋषींश्चैव मध्ये सदाशिवं न्यसेत्
मध्ये सदाशिवं चैव चतुर्मुदरुदाहृतम् १२
एकं चेद्रुद्रमभ्यर्च्य क्रमादेवाधिवासनम्
अधिवासमिति ख्यातं संध्याशेषं समापयेत् १३
इति कृत्तिकापूजाविधिपटलः ३३