१५ तुलामासपूजाविधिपटलः

अन्नपूजाविधिं वक्ष्ये तुलामासे प्रयत्नतः
हेमशालिमहाशालिसौगन्धिकमथोत्तमम् १
तारवत्तण्डुलं ग्राह्य भारादिनवभारकम्
स्थालीपाकक्रमेणैव तण्डुलं पाचयेद्बुधः २
तदन्नं द्विविधं प्रोक्तं तल्लिंगं पूर्ववद्भवेत्
अन्नाभिषेकमेवं तु मानुषेषु विशेषतः ३
के सरिपद्मकु ण्डं च सबन्धतिलकं मतम्
पाद्यमाचमनं चार्घ्यं मेघके सरमेव च ४
सर्षपं लोहमुदकं चित्रवस्त्रं च कल्पयेत्
गन्धद्रव्यं भ्रममतं भूषणं चेन्द्रनीलकम् ५
रक्तमन्दारपुष्पं च कु टजं पत्रमेव च
मधु कु ष्ठं गुलं चैव धूपद्रव्यमिति स्मृतम् ६
दीपं पंचशतं चैव तृणतण्डुलमेव च
ममथं चेन्धनं चैव होमसंख्या चतुश्शतम् ७
पानीयं पक्वसलिलं चन्द्रादिमुखवासकम्
राजं कु र्जरिसंयुक्तं वर्धनीनृत्तमेव च ८
तालं दर्पणमेवं तु पत्रं तु गिरिधातकी
रुद्रमूर्तिमनुं चैव शेषं पूर्ववदेव हि ९
सर्ववाद्यसमायुक्तं सर्वं पूर्ववदाचरेत्
मध्याह्नयजने काले अन्नलिंगं विसर्जयेत् १०
जलमध्ये विनिक्षिप्य तत्कु म्भैरभिषेचयेत्
संध्याशेषं तु विधिवत्प्रार्थयेत्तद्गुरूत्तमः ११
अन्नपूजाविधिः प्रोक्तो दीपपूजाविधिं शृणु
इति तुलामासपूजाविधिपटलः ३२