१४ भाद्रपदमासपूजाविधिपटलः

भाद्रमासविधिं वक्ष्ये श्रूयतां निधनेश्वर
मण्डपं पूर्ववत्कल्प्य तत्कु ण्डं प्रतिबन्धकम् १
देशिको मण्डलं कृ त्वा तिलकं प्रतिसुन्दरम्
अपूपद्रव्यलिंगं च कु रु सद्योधिवासनम् २
पाद्यमाचमनं चार्घ्यं कच्चोलं कुं कु मं तथा
तिलं भूतोदकं चैव रक्तवस्त्रं च कल्पयेत् ३
गन्धद्रव्यं च कस्तूरी वैडूर्यभरणं मतम्
बृहतीकु सुमं धूपद्रव्यं मार्जनमेव च ४
दीपं तद्द्विगुणं प्रोक्तं पत्रमारग्वधं परम्
वेणुतण्डुलनैवेद्यसंयुक्तं पूर्वसंख्यया ५
इन्धनं चार्जुनं चैव द्विशतं होमसंख्यकम्
तत्संख्याजपमित्युक्तं पानीयं मौनकु म्भके ६
मुखवासं च रात्र्यादि रागं कौशिकमेव च
भुजंगललितं नृत्तं एकतालमिति स्मृतम् ७
पत्रं श्रीपत्रमेवं तु शूलिमन्त्राधिदैवतम्
द्रोणद्वयं च शंखं च लालती पुष्पमेव च ८
द्रव्यलिंगस्य पुष्पं चाप्येकं संगृह्य देशिकः
अधिवासनादि सर्वं च पूर्ववत्परिकल्पयेत् ९
अपूपयजनं प्रोक्तं अन्नपूजाविधिं शृणु १०
इति भाद्रपदमासपूजाविधिपटलः ३१