श्रावणे शर्करापूजा सर्वं प्रागुक्तवर्त्मना
विशेषमधुना वक्ष्ये श्रूयतां निधनेश्वर १
मण्डपस्य च कु ण्डस्य मानं पूर्ववदुच्यते
मण्डलं पद्मतिलकं पादाधिकमथोच्यते २
पाद्यमाचमनं चार्घ्यं माञ्ची जीरकचन्दनम्
धातूदकं श्यामवस्त्रं गन्धद्रव्यं च कुं कु मम् ३
पुष्यरागं चाभरणं कु रवपुष्पमिति स्मृतम्
धूपद्रव्यं च मेघं स्याद्द्वीपं तद्द्विगुणं भवेत् ४
तत्संख्या जपमेवं तु यानीयं तु विशेषतः
नीलोत्पलस्य तोयं च त्वगरिर्मुखवासकम् ५
द्राविडं नट्टभाषाश्च भुजंगं नृत्तमेव च
झर्झरी तालगानं च पत्रं धातकिमेव च ६
वाद्यं दुन्दुभिरेवं स्याद् मन्त्रकालान्तवर्णकम्
इतराण्यपि सर्वाणि पूर्ववत्संग्रहेत्ततः ७
अधिवासं समारभ्य नृत्तान्तं पूर्ववत्क्रमात् ८
इति श्रावणपूजाविधिपटलः ३०