अथ वक्ष्ये विशेषेण क्षीरलेपनमुच्यते
पयः पाके न कम्बलं नवभाण्डं नियोजयेत् १
पूर्ववद्यागशाला च कु ण्डवेदीसमन्वितम्
श्रीगन्धं पूर्वकृ त्वा तु कु ण्डं कल्प्य विशेषतः २
मण्डलं मुष्टितिलकं पंचचूर्णैर्विचित्रयेत्
त्रिहारादिनवभारान्तं लिंगमार्गेण कल्पयेत् ३
द्रव्यलिंगप्रमाणं स्यात् स्नानार्थं क्षीरमुच्यते
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ४
तत्संख्या च नवया प्रस्थेन प्रतिमितं ध्रुवम्
मान ++ कल्प्य मानं तत्स्वयंभुवि विशेषतः ५
स्नानद्रव्याणि सर्वाणि यथालाभं च कल्पयेत्
मण्डपार्चनमारभ्य त्वधिवासनमारभेत् ६
स्नानान्ते च निवेद्यान्ते दीपान्ते चाधिवासयेत्
तच्छेषं पूर्ववत्कृ त्वा संपातं पंचविंशतिः ७
अधिवासमिदं प्रोक्तं द्रव्यसंग्रहणं शृणु
पाद्यमाचमनं चार्घ्यं कु ष्ठं चैव लवंगककम् ८
रक्तचन्दनमेवं तु रत्नोदकमिति स्मृतम्
वस्त्रं कपोतवर्णं च चन्द्रचन्दनमेव च ९
प्रवालाभरणं चैव पुष्पं बकु लमेव च
चन्दनागरुकर्पूरं धूपद्रव्यमिति स्मृतम् १०
पूर्वदीपद्विसंख्या च न्यग्रोधं पत्रमेव च
फलान्नं च निवेद्यं स्यात् इन्धनं खदिरं भवेत् ११
हुतसंख्याष्टोत्तरशतं तत्संख्याजपमेव च
पानीयं हिमतोयं च मुखवासं च चन्दनम् १२
तक्के शीरागमेवं तु नन्द्यावर्तं भुजंगकम्
तालं शेखरि संयुक्तं पंचबिल्वं च पत्रकम् १३
मन्त्रदेवेशमूर्तिं च पंचपुष्पं च संग्रहेत्
नित्यसंध्यासु संमिश्रं गणेशं पूजयेत्क्रमात् १४
एकोनपंचाशत्स्नपनं कल्पयेत्पूर्ववर्त्मनि
द्वारं संपूज्य विधिवत् लिंगशुद्धिं समाचरेत् १५
स्नानद्रव्याणि सर्वाणि स्नानकालेऽभिषेचयेत्
यागमण्डपकु म्भैश्च स्नापयेत्परमेश्वरम् १६
खण्डवस्त्रेण संपूज्य मन्त्रपुष्पं च दापयेत्
मन्त्रान्नं च निवेद्याथ निरोधार्घ्यं च दापयेत् १७
तद्वह्राद्यलंकृ त्य यागशालां प्रवेशयेत्
द्रव्यलिंगं समादाय प्रदक्षिणमथाचरेत् १८
गर्भगेहं ततः प्राप्य त्रिपाद्युपरि विन्यसेत्
तद्बन्द्यादि समारभ्य तोषयेत्परमेश्वरम् १९
तं मन्त्रं समनुस्मृत्य द्रव्यलिंगं सुयोजयेत्
धूपदीपादिनैवेद्य नित्यहोमादि पूर्ववत् २०
पूर्ववत्पुष्पमभ्यर्च्य तं मन्त्रं समनुस्मरेत्
मध्याह्नयजने काले कु र्याद्द्रव्यावरोहणम् २१
तत्काले स्नापनं कल्प्य संध्याशेषं समाप्य च
चण्डनाथं समभ्यर्च्य तद्द्रव्यं च निवेदयेत् २२
आचार्यं पूजयेत्पश्चाद् यथा वित्तानुसारतः
इति आषाढपूजाविधिपटलः २९