ज्येष्ठमासे तु कर्तव्यं फलपूजाविधिं शृणु
पनसाम्रकदल्यादि सुपक्वं फलमानयेत् १
श्रीकान्तितिलकं कल्प्य द्रव्याधिवासनं विना
तत्काले अधिवासादि पूर्ववत्परिकल्पयेत् २
पाद्यमाचमनं चार्घ्यं मेघं गन्धतिलास्तथा
पुष्पोदकं श्यामवस्त्रं गन्धद्रव्यागरुर्मतः ३
मुक्ता भूषा द्रोणपुष्पं कृ ष्णागरु घृतप्लुतम्
धूपद्रव्यमिति ख्यातं द्विशतं दीपमेव च ४
वेणुतण्डुलनैवेद्यं सुवृत्तं कु ण्डमेव च
अश्वत्थमिन्धनं चैव जम्बुजं च प्रकीर्तितम् ५
होमार्थं पदसंख्या च होमद्रव्यं फलं मतम्
पानीयं बिल्वतोयं च कस्तूरी मुखवासकम् ६
तक्करागं दण्डपादं मुरजं वाद्यमेव च
उद्घट्टं तालमेव स्यात् देशीगानमिति स्मृतम् ७
शमीपत्रं वामदेवं त्रिवर्णं मन्त्रमेव च
आत्वाहार्षमित्यादि भूसुरेण जपेत्सह ८
एवं सर्वं समापाद्य द्वारपूजादि पूर्ववत्
मन्त्रमेकाक्षरं जप्त्वा शेषं पूर्ववदाचरेत् ९
इति ज्येष्ठमासपूजाविधिपटलः २८