१० वैशाखपूजाविधिपटलः

अथ वक्ष्ये विशेषेण वैशाखे गन्धपूजनम्
यागशालां प्रविश्याथ प्राग्वत्सर्वं समाचरेत् १
किं चिद्भेदविशेषोऽस्ति चाष्टाश्रं कु ण्डमेव च
मण्डलं भद्रतिलकं देवज्ञं सम्यगर्चयेत् २
लिंगस्य पूरणार्थं च द्रव्यलिंगं प्रकल्पयेत्
शतविंशत्यूनशतं षष्ठिसंख्या फलं मतम् ३
यथा लाभं प्रकर्तव्यं गन्धसंख्या प्रकीर्तिता
दशफलं द्रव्यलिंगं स्या गन्धद्रव्यसमन्वितम् ४
दशांशं वाथ भान्वंशं षोडशांशमथापि वा
सर्वद्रव्यं यथा लाभं तदंशो रोचना मता ५
पूर्ववदधिवासं च स्नानद्रव्याणि साधयेत्
शेषं पूर्ववदुद्दिष्टं द्रव्यसंग्रहणं परम् ६
पाद्यमाचमनं चार्घ्यं मुरं कर्पूरकुं कु मम्
बकु लं भंच वस्त्रं तु गन्धोदं चापि रोचनात् ७
गन्धद्रव्यमिति ख्यातं इन्धनं पनसद्रुमः
भूषणं पद्मरागं स्यात्पाटली पुष्पमेव तु ८
+++++++++ धूपद्रव्यमिहोच्यते
गुग्गुलुं लघुकोष्ठं मधुमिश्रं सुपूजितम् ९
पादोत्तरशतं दीपं हरिद्रान्नं निवेदयेत्
कु ण्डमष्टाश्रसंयुक्तं इन्धनं पनसद्रुमम् १०
पलाशसमिदाख्याता पंचाशद्धोमसंख्यया
पानीयं हिमतोयं च काश्मीरं मुखवासकम् ११
श्रीमरन्द्रं विडं चैव पद्मावर्तं च नृत्तकम्
मृदंगवाद्यमेवं तु चण्डभिन्ना तु तालकम् १२
मुखारिगानमेकं तु कु टजं पत्रमेव च
भूसुरो रुद्रसूक्तं च षडध्वं वर्णमेव च १३
शेषं पूर्ववदुद्दिष्टं अन्यत्सर्वं सहैव तु
स्नपनादिसमारभ्य चण्डान्तं पूर्ववन्नयेत् १४
एवं समाप्य विधिवत् नववर्णं जपेत्तदा
आचार्यपूजां कृ त्वाथ भस्मरक्षासमन्वितम् १५
इति वैशाखपूजाविधिपटलः २७