०९ चैत्रमासपूजाविधिपटलः

चैत्रमासविधिं वक्ष्ये श्रूयतां निधनेश्वर
यागार्थमण्डपं वापि पूर्वे उक्तविधन्नयेत् १
निश्चित्य पूर्वरात्रे तु दीपान्ते अधिवासयेत्
लिंगपीठं प्रमाणान्तं पूरयेद्दान्तमेव वा २
अथवा सर्वपुष्पैश्च तत्समं पूज्यमुच्यते
गणेशं पूजयेत्पूर्वं संकल्पं च ततः परम् ३
पुण्याहं वाचयित्वा तु पंचगव्यं ततः परम्
मध्यवेदसमायुक्तं पश्चिमे वेदिका मता ४
वेद्यूर्ध्वे स्थण्डिलं कल्प्य तण्डुलाद्यैरलंकृ तम्
कु म्भवर्धनिविद्येशान् पूर्ववत्पूजयेत्क्रमात् ५
मण्डलार्थं च तद्वेद्यां सूत्रपातं च कारयेत्
श्रीकान्ति तिलकं कु र्यान् मृडाकान्तं समर्चयेत् ६
मण्डपं पूर्ववत्पूज्य तत्पुष्पं चाधिवासयेत्
भृगेश्वरं समावाह्य पश्चाद्बिल्वैस्समर्चयेत् ७
मृदुवस्त्रेण संछाद्य निरोधार्घ्यं ददेद्गुरुः
सप्ताश्रं कु ण्डमेवं तु तन्मानं सप्तहस्तकम् ८
अग्निकार्योक्तमार्गेण होमं कु र्याद्विचक्षणः
सप्ताहुतिश्च कर्तव्या अधिवासं समापयेत् ९
अधिवासं समाख्यातं द्रव्यसंपात उच्यते
पाद्यमाचमनं चार्घ्यं सिद्धार्थं त्रिणकु ण्डकम् १०
गन्धोदकं रक्तवस्त्रं गन्धे मृगमदं भवेत्
गोमेदाभरणं चैव बृहतीपुष्पमेव च ११
गुग्गुलुं घृतमेवं तु धूपद्रव्यमिति स्मृतम्
सप्तत्यूर्ध्वशतं दीपं नैवाद्यार्थं तिलान्नकम् १२
पनसादिफलं चैव चन्दनं रक्तचन्दनम्
वटशाखासमिच्चैव आहुतिः सप्ततिः क्रमात् १३
स्वर्णोदकं च पानीयं यन्त्रमार्गे प्रकल्पयेत्
मुखवासं च कर्पूरं गानं गोलिरिति स्मृतम् १४
भुजंगललितं नृत्तं लक्ष्मीवर्णं तु तालकम्
देशागिरी तु गानं च वाद्यं पटह एव च १५
महाद्रोणस्य पत्रं च मृडाकान्तेश्वरं यजेत्
स्कन्दसूक्तं शुचीवोहं गौलामन्त्रमतः परम् १६
पद्ममूलं फलं कन्दं अपूपादि सहैव तु
द्रव्यसंपादनं प्रोक्तं तत्पूजात्वथ कथ्यते १७
गणेशं पूजयेत्पूर्वं संकल्पश्च ततः परम्
पुण्याहं पंचगव्यं च पंचामृतं च पूर्ववत् १८
स्नानद्रव्याणि सर्वाणि साधयित्वा क्रमेण तु
पंचविंशतिमार्गेण स्नपनं तत्र कल्पयेत् १९
तलामार्गेण कर्तव्यं गुरुणोक्तविधानतः
द्वारं पूर्ववदभ्यर्च्य लिंगशुद्धिं च पूर्ववत् २०
स्नानद्रव्याणि सर्वाणि स्नानकालेऽभिषेचयेत्
यागमण्डपकु म्भैश्च क्रमेणैवाभिषेचयेत् २१
खण्डवस्त्रेणसंमृज्य मन्त्रपुष्पं च दापयेत्
मन्त्रान्नं च निवेद्याथ धूपं दत्वा विचक्षणः २२
तद्वस्त्रेणैव संवेष्ट्य तद्गन्धं चैव लेपयेत्
तद्भक्षणैरलंकृ त्य यागमण्डपमाविशेत् २३
परिचारकमाहूय सोष्णीषं सोत्तरीयकम्
द्रव्यलिंगं समादाय तस्य मूर्ध्नि न्यसेद्गुरुः २४
स्वस्तिवाचकं संयुक्तं छत्रचामरसंयुतम्
सर्ववाद्य समायुक्तं ततो धामप्रदक्षिणम् २५
गर्भगेहं ततः प्राप्य त्रिपाद्युपरि विन्यसेत्
तद्दिनादि समारभ्य देवाग्रे तु नयेत्क्रमात् २६
तं मन्त्रं च स्वनुस्मृत्य द्रव्यलिंगं च योजयेत्
धूपदीपं ददेत्पश्चात् तदन्नं विनिवेदयेत् २७
पानीयं मुखवासं च तत्काले योजयेत्क्रमात्
नित्याग्नियजनं पश्चान्नित्योत्सवमतः परम् २८
उपचाराणि सर्वाणि पूर्वोक्तविधिना सह
पतिमन्त्रमनुस्मृत्य कर्ता पुष्पं समर्चयेत् २९
नैवेद्यादिसुचण्डाय तोषयित्वा विचक्षणः
तद्द्रव्यं चान्यसंध्यायां तन्मन्त्रेण व्यपोह्य च ३०
स्नानं चैवाभिषिच्याथ तन्पूजां च पुरोक्तवत्
आचार्यं पूजयेत्पश्चाद् यथाशक्ति विशेषतः ३१
दान्तपूजाविधिः प्रोक्तो गन्धपूजाविधिं शृणु
इति चैत्रमासपूजाविधिपटलः २६