अथ वक्ष्ये विशेषेण फाल्गुने दधिपूर्वकम्
द्रव्यलिंगं च विधिवत् खारिमानं प्रकीर्तितम् १
पूर्वरात्राधिवासं च विघ्नेशं पूजयेत्ततः
संकल्पविधिमार्गेण पुण्याहं वाचयेत्ततः २
तत्संख्यादधिसंग्राह्य मृत्पात्रे पूरयेत्सुधीः
स्थण्डिलोर्ध्वे तु विन्यस्य वृषभं ++ जमर्चयेत् ३
कु टजं मल्लिकां चैव गिरिबेरं समर्चयेत्
कृ सरान्नं निवेद्याथ कृ ष्णवस्त्रेण वेष्टयेत् ४
द्रव्यलिंगमिति ख्यातं संपाताहुतिमाचरेत्
स्नानार्थं दधि संग्राह्य भारद्वयसमानकम् ५
उत्तमादिक्रमात्प्रोक्तं क ++ वा लभ्यते मतः
एवं स्यादधिवासं च द्रव्यसंग्रहणं परम् ६
पाद्यमाचमनं चार्घ्यं जातिकर्पूरवैणवम्
मूलोदकं पंचगव्यं पंचामृतं तथा भवेत् ७
स्नानद्रव्याणि संपाद्य षोडशस्नपनं मतम्
पीतवस्त्रं सुसूक्ष्मं च गन्धद्रव्यं घनं मतम् ८
वस्त्राभरणमेवं तु चाम्बुजं पुष्पमेव च
कर्पूरं बिल्वपत्रं च निर्यासं धूपवस्तुकम् ९
त्रिशतार्धं दीपयुक्तं शुद्धोदनमपूर्वकम्
पूर्ववद्व्यंजनाद्यादि षडश्रं कु ण्दमेव च १०
इन्धनं च मकं चैव अपामार्गं समित्ततः
पंचाशद्धोमसंयुक्तं तत्संख्याजपमेव च ११
मौनकु म्भजले चैव पानीयमिदमुत्तमम्
मुखवासं लवंगादि रागं कौशिकमेव च १२
प्रतिसुन्दरनृत्तं च तालं कोकु लमेव च
चूलागिरि यथा रागं वाद्यं दुन्दुभिरेव च १३
नारंगद्वयपत्रं च मन्त्रं +++ ध्वजं तथा
धूर्धूरं जातिपुष्पं च रक्तमन्दारशंखिनी १४
द्रव्यलिंगाय तत्पूर्वमर्चयित्वा क्रमेण तु
पायसं कन्दमूलं च वैणवं शालिमाषकम् १५
पूर्वद्रव्यसमायुक्तं शेषं पूर्ववदाचरेत्
द्रव्यसंवादमेवं स्यादर्चनक्रममुच्यते १६
प्रातस्संध्यावसाने तु देशिकस्सकलीकृ तः
देवदेवस्य विज्ञाप्य यागमण्डपमाविशेत् १७
पूर्वरात्रौ नयेद्धीमान् मध्यवेद्यां शिवं यजेत्
वर्धनीमुत्तरे स्थाप्य विद्येशान्परितो यजेत् १८
पश्चिमे चोत्तरे वापि वेद्यूर्ध्वे सूत्रपातनम्
+द्रमण्डलमार्गेण पंचचूर्णैरलंकृ तम् १९
पुनर्मण्डपमाराध्य मण्डलेशं समर्चयेत्
प्रायश्चित्तं ततो हुत्वा वह्नौ बीजं सुयोजयेत् २०
वह्निमण्डपमावेश्य भूमिशुद्धिं ततः कु रु
सूत्रन्यासमघोरेण विकारदलसंयुतम् २१
पूर्ववत्कलशास्सर्वा गणेशादि पुरोक्तवत्
पंचगव्यं च संस्थाप्य पंचामृतं च साधयेत् २२
कषायोदं च संस्थाप्य स्नानद्रव्याणि साधयेत्
द्रव्यसंग्रहमार्गेण द्रव्यसाधनमाचरेत् २३
द्वारं पूर्ववदभ्यर्च्य लिंगशुद्धिं समाचरेत्
स्नानद्रव्याणि सर्वाणि स्नानकालेऽभिषेचयेत् २४
यागमण्डपकु म्भैश्च क्रमेणैवाभिषेचयेत्
मूर्तिमन्त्रं जपेद्धीमान् दधिस्नानं समाचरेत् २५
गन्धतोयेन संस्नाप्य चाष्टपुष्पं समर्चयेत्
यागमण्डपमावेश्य मण्डलेशं सुयोजयेत् २६
परिचारकमाहूय सोष्णीषं सोत्तरीयकम्
तन्मूर्ध्नि प्रणवं न्यस्त्वा तदूर्ध्वे द्रव्यलिंगकम् २७
स्वस्तिवाचकसंयुक्तं सर्ववाद्यसमन्वितम्
धामप्रदक्षिणं कृ त्वा देवाग्रे स्थण्डिलं न्यसेत् २८
नृत्तं गीतं च वाद्यं च स्तोत्रं कु रु यथेप्सितम्
वादित्रलयसंयुक्तं गणिकानुत्तमाचरेत् २९
जयशब्दसमायुक्तं सर्वदेवेशसंनिधौ
तत्पाद्यादिसमायुक्तं तद्धूपं च प्रदापयेत् ३०
तद्दीपं रोपयेद्धीमान् द्रव्यलिंगं च लेपयेत्
स्नानलेपनमेवं तु चाष्टपुष्पं समर्चयेत् ३१
कृ ष्णवस्त्रेण संवेष्ट्य गन्धपुष्पैरलंकृ तम्
धूपदीपं ददेत्पश्चान् नीराजनभ्रमं नयेत् ३२
स्नपनं तत्र कु र्वीत मन्त्रान्नं मन्त्रपुष्पकम्
तद्वर्तनं ततः पश्चात् तद्वस्त्रं वेष्टयेद्बुधः ३३
तद्गन्धं लेपयित्वा तु तत्पुष्पं विन्यसेत्ततः
तद्भक्षणैरलंकृ त्य तत्पात्रेण समर्चयेत् ३४
धूपदीपं तथा कृ त्वा तं मन्त्रं समनुस्मरन्
तदन्नं विनिवेद्याथ तत्पानीयं निवेदयेत् ३५
मुखवासं च तत्काले नित्याग्निं च ततः परम्
नित्योत्संवादिदीपान्तं पूर्ववत्सम्यगाचरेत् ३६
मृत्युंजयं समुच्चार्य कर्ता पुष्पं समर्चयेत्
तदाप्रभृति जप्त्वाथ चैत्रमासमुखेऽपि च ३७
मन्त्रार्पणं च कर्तव्यं चण्डपूजामथाचरेत्
माध्याह्नपूजनान्ते तु नित्यवच्चण्डमर्चयेत् ३८
आचार्यं पूजयेत्पश्चाद् यथाशक्ति विशेषतः ३९
इति फाल्गुनमासपूजाविधिपटलः २५