०७ माघमासपूजाविधिपटलः

घृतकम्बलपूजा च माघमासे प्रकीर्तिता
सप्तहस्तं समारभ्य त्रयोदशकरान्तकम् १
रोमकम्बलमेवं स्यादुत्तमामध्यमाधमम्
चित्रकम्बलमेवं वा श्वेतकम्बलमेव वा २
कम्बलं लेपयेदाज्यं चतुः प्रस्थविधिक्रमात्
तत्कम्बलद्रव्यलिंगं अधिवासनपूर्वकम् ३
नीलोत्पलं च दान्तं च मल्लिकाजातिमिश्रकम्
अर्चयित्वा क्रमेणैव विरूपाक्षं स्मरन्गुरुः ४
पुष्यमासक्रमेणैव कम्बलं चाधिवासयेत्
पयो दधि घृतं चैव यथालाभं च कल्पयेत् ५
स्नानद्रव्याणि सर्वाणि साधयित्वा क्रमेण तु
प्रातस्सन्ध्यावसाने तु शिवं संप्रार्थयेद्गुरुः ६
द्रव्यसंपादनं पश्चात् पाद्यादि परिकीर्तितम्
तुटितिम्बुलवंगं च पाद्यादिद्रव्यमुच्यते ७
कषायमुदकं चैव कलशाः षोडश स्मृताः
स्नपनं वृत्तमार्गेण स्नानद्रव्याणि पूर्ववत् ८
नित्यपवित्रं चाष्टपुष्पं कल्पयेत्तु विशेषतः
सवस्त्रं धूम्रवर्णं च गन्धं कोष्ठसमन्वितम् ९
वस्त्रमाभरणं प्रोक्तं नन्द्यावर्तं प्रधानकम्
मेघं मांसी मुरं चैव धूपद्रव्यमिति स्मृतम् १०
चत्वारिंशच्छतं दीपं मन्त्रान्नं पायसं भवेत्
शुद्धोदनं निवेद्याथ शिवत्रयविवर्धनात् ११
काश्मीरमिश्रपानीयं सक्तु कं मुखवासकम्
व्यंजनं तु चतुर्थांशं अष्टांशं घृतमेव च १२
दशांशेनैव सूपं तु गुल्माषं तु यथामतम्
नानाविधफलान्येव मूलकन्दादयस्तथा १३
पंचाश्रकु ण्डमेवं तु द्व्यंगुलाधिकमानकम्
त्रुडनं कु न्तमेवं स्याद् अश्वत्थसमिदेव च १४
पूर्वद्रव्यसमायुक्तं नालिके रादिसक्तु कम्
होमद्रव्यमिति ख्यातं अष्टोत्तरशतं हुनेत् १५
तत्संख्या जपमाप्नोति शुचिवोहं च भूसुराः
सर्ववाद्य समायुक्तं वल्लिका वाद्यमेव च १६
एलालवंगकर्पूरैः मुखवासमिति स्मृतम्
तक्करागं विशेषेण प्रत्यालीढं च नृत्तकम् १७
तालं श्रीकामतः प्रोक्तं देशागिरि तथैव च
चूतपल्लवपत्रं तु गौरीतिलकमण्डलम् १८
वृषध्वजोऽधिदेवेशो द्रव्यसाधनमेव च
यागशालां प्रविश्याथ वेद्यूर्ध्वे स्थण्डिलं क्रमात् १९
शिवकु म्भं च तन्मध्ये वर्धनीं तस्य वामके
पूर्वाद्यैशानपर्यन्तं विद्येशान्क्रमतो यजेत् २०
तदुत्तरे वा वेद्यूर्ध्वे सूत्रपातं तु कारयेत्
गौरीतिलकमेवं स्यात् सर्ववर्णैरलंकृ तम् २१
यदीश्वरां समाराध्य पाद्याद्यैरुपचारकैः
मपं पूजयेत्पूर्वं पूर्वोक्तविधिना सह २२
अग्निकार्योक्तमार्गेण अग्निकार्यं समाचरेत्
तद्द्रव्यं होमयित्वा तु होमसंख्या च पूर्ववत् २३
महाव्याहृतिहोमश्च ततः स्नपनमाचरेत्
विघ्नेशं पूजयित्वा तु संकल्पादि यथाक्रमम् २४
पादमार्गक्रमेणैव लूताकारं च कल्पयेत्
शालिभिः स्थण्डिलं कृ त्वा पूर्ववत्परिकल्पयेत् २५
कलशद्रव्यदेवांश्च पूर्ववत्परिकल्पयेत्
मध्याह्नपूजनं मिश्रं कलशस्नानमाचरेत् २६
अष्टपुष्पं च मन्त्रान्नं दापयेत्तु विशेषतः
तत्कम्बलं समादाय प्रदक्षिणमथाचरेत् २७
प्रथमं वस्त्रमाच्छाद्य तद्गन्धं लेपयेत्ततः
तद्भूषणैरलंकृ त्य नन्द्यावर्तं च दापयेत् २८
गाननृत्तादयस्सर्वे पूर्ववच्छिवसंनिधौ
घृतकम्बलमाच्छाद्य धूपदीपं च पूर्ववत् २९
नैवेद्यं दापयित्वा तु पानीयं मुखवासकम्
बलिं होमादिकं सर्वं पूर्ववत्परिकल्पयेत् ३०
रहस्यं मन्त्रमुच्चार्य कर्ता पुष्पं समर्चयेत्
तदाप्रभृति जप्त्वाथ फाल्गुनादौ समर्चयेत् ३१
अवतार्य च देवेशात् चण्डेशाय निवेशयेत्
आचार्यपूजां कु र्वीत यथाशक्ति विशेषतः ३२
इति माघमासपूजाविधिपटलः २४