अथ वक्ष्ये विशेषेण पुष्यमासे प्रकीर्तितम्
क्षौद्राधिवासनं पूर्वं शृणुष्व निधनेश्वर १
द्रव्यलिंगं च मधुना षोडशप्रस्थसंयुतम्
पूर्वरात्रे विशेषेण नैवाद्यान्तेऽधिवासयेत् २
गणेशं पूजयेत्पूर्वं संकल्पं च यथाक्रमम्
पुण्याहं वाचयेत्तत्र स्थण्डिलं च यथाक्रमम् ३
क्षालितं मधु संग्राह्य मृद्घटे पूरयेत्ततः
त्रिपाद्यूर्ध्वे तु संस्थाप्य महादेवं समर्चयेत् ४
करवीरं चार्क पुष्पं पद्मं चैव समर्चयेत्
शुद्धान्नं च निवेद्याथ शुक्लवस्त्रेण वेष्टयेत् ५
द्रव्यलिंगं स्मरेद्विद्वान् संपाताहुतिमाचरेत्
स्नानार्थमुत्तमं वक्ष्ये शतप्रस्थं प्रकीर्तितम् ६
अशीतिप्रस्थं मध्यं स्याच्चतुश्चत्वारि कन्यसम्
एवं त्रिविधमित्यादि मधुसंख्या मम प्रिया ७
अशक्तश्चेद्विशेषेण यथा लाभं सुयोजयेत्
अपरस्मिन्दिने प्राप्ते नित्यस्नानादिकं चरेत् ८
प्रातस्सन्ध्यावसाने तु देवदेवं प्रविश्य च
क्षौद्रपूजां करोम्यद्य त्वत्प्रसादान्महेश्वर ९
एवं विज्ञाप्य तत्काले दिव्यसंपात उच्यते
पाद्यमाचमनं चार्घ्यं चन्दनं बिल्वपत्रकम् १०
अर्घ्यद्रव्यं च सिद्धार्थमाढ्योदकमुदाहृतम्
पंचगव्यं पुरा प्रोक्तं पंचामृतं तथैव च ११
स्नानद्रव्याणि संपाद्य स्नापनं वद मार्गतः
द्रव्यदेवाः पुरा प्रोक्ताश्चाष्टपुष्पं च संगृहेत् १२
सुवर्णं मेघवर्णं च गन्धद्रव्यागरुं तथा
मुक्ताभरणमेवं स्यात् पुन्नागं पुन्नमेव च १३
चन्दनागरुकर्पूरं धूपद्रव्यमिति स्मृतम्
विंशोत्तरशतं दीपं मन्त्रान्नं पायसं भवेत् १४
गुलान्नं च निवेद्याथ शिवत्रयविवर्धनात्
पानीयमेलासंयुक्तं अपूपं च निवेदयेत् १५
षोडशांशगुले मिश्रं तत्सख्या घृतसंयुतम्
अष्टादशांशं सूपं तु गुल्माषं विंशदंशकम् १६
दशांशं व्यंजनोपेतं मूलकन्दादिसंयुतम्
युगाश्रं कु ण्डमेवं च एकांगुलविवृद्धितः १७
इन्धनं वागुलं प्रोक्तं उदुम्बरसमित्ततः
पूर्वद्रव्यसमायुक्तं इक्षुखण्डं गुलं तथा १८
नालिके रं गुलं चैव सक्तुं पृथुकमेव च
होमद्रव्यमिति ख्यातं तत्संख्याजपमारभेत् १९
भूसुराः स्कन्दसूक्तं च तत्संख्याद्विगुणं जपेत्
सर्ववाद्यसमायुक्तं मर्दलं तु विशेषतः २०
लवंगं शर्क रादिस्तु मुखवासं प्रकीर्तिताः
मेघरागं च वैशाखनृत्तं पूर्ववदाचरेत् २१
मल्लिकामोदतालं च वराटिं च तथैव च
दाडिमी पत्रमेवं तु द्रव्यसाधनमाचरेत् २२
यागार्थमण्डपं प्राप्य वेद्यूर्ध्वे स्थण्डिलं कु रु
पूर्ववत्स्थण्डिलं कल्प्य तन्मध्ये शिवकु म्भकम् २३
उत्तरे वर्धनीं स्थाप्य विद्येशान्परितो न्यसेत्
सूत्रवेष्टनमारभ्य पूजान्तं पूर्ववन्नयेत् २४
तत्पश्चिमे वेद्यूर्ध्वे सूत्रपात्रं तु कारयेत्
मण्डलं नाभितिलकं पञ्चपञ्चैरलंकृ तम् २५
विघ्नेश्वरादिदैवत्यं यजेदावाहनादिभिः
मण्डपं पूजयेद्धीमान् पूर्वोक्तविधिना सह २६
तद्रलिंगं तदन्ते तु तन्मन्त्रेण समर्चयेत्
कु ण्डसंस्कारमारभ्य होमयेत्तु विशेषतः २७
तद्द्रव्यं होमयेत्पश्चाद् अष्टोत्तरशतं भवेत्
व्याहृतिं च ततो हुत्वा स्नानमण्डपमाविशेत् २८
भूमिशुद्धिं ततः कृ त्वा सूत्रन्यासमतः परम्
गणेशं पूजयित्वा तु संकल्पं च यथाक्रमम् २९
पुण्याहं प्रोक्षणं कृ त्वा वृत्तं कु र्यात्पदं प्रति
सूत्रवेष्टनमारभ्य कु र्यात्पूजां पुरोक्तवत् ३०
देवद्रव्यं विशेषेण पूर्ववत्पूजयेत्क्रमात्
द्वारादि लिंगशुध्यन्तं पश्चाद्द्रव्याभिषेचनम् ३१
यागमण्डपकु म्भैश्च अभिषेकं क्रमेण तु
कु म्भैश्च स्नापयेद्धीमान् अयुतं स्नानं तदन्तके ३२
अष्टपुष्पं समभ्यर्च्य निरोधार्घ्यं ददेद्गुरुः
परिचारकमाहूय अलंकृ त्य विशेषतः ३३
द्रव्यलिंगं समादाय देशिकः प्रणवं न्यसेत्
तस्य मूर्ध्नि न्यसेत्पश्चात् स्वस्ति सूक्तसमन्वितम् ३४
तद्वाद्यादि समायुक्तं प्रदक्षिणमथाचरेत्
गर्भगेहं ततः प्राप्य देवाग्रे विन्यसेत्ततः ३५
वाद्यं नृत्तं च गानं च तालादि शिवसंनिधौ
पुष्पैरभ्यर्च्य विधिवद्धूपदीपं ददेत्क्रमात् ३६
द्रव्यलिंगेण संस्नाप्य मन्त्रपुष्पं समर्चयेत्
तद्वस्त्रं वेष्टयित्वा तु तद्गन्धं लेपयेत्ततः ३७
पुष्पमाभरणं पार्श्व तत्पत्रं सम्यगर्चयेत्
धूपद्रव्यं तदा कु र्यात् तत्संख्यादीपमाचरेत् ३८
नैवेद्यक्रममार्गेण तदन्नं विनिवेदयेत्
पानीयं मुखवामं च तत्तद्द्रव्यसमन्वितम् ३९
होमान्तकोपचारान्तं मध्याह्नयजनाश्रितम्
गौलमन्त्रैस्समुच्चार्य मुक्तापुष्पं समर्चयेत् ४०
तदाप्रभृति जप्त्वा तु मासमासविधिक्रमम्
मन्त्रं समाप्य तत्काले तत्फलं संग्रहेद्बुधः ४१
द्रव्यं समाप्य चण्डेशं पूर्ववत्परिकल्पयेत्
सायरक्षां समारभ्य निशि पूजा पुरोक्तवत् ४२
आचार्यं पूजयित्वा तु यथाशक्ति विशेषतः
इति पुष्यमासपूजाविधिपटलः २३