०५ मार्गशीर्षकमासपूजाविधिपटलः

मासपूजाविधिं वक्ष्ये श्रूयतां निधनेश्वर
मासं द्विविधमाख्यातं स्थूलं सूक्ष्ममिति स्मृतम् १
धनुर्मकरमेषादि स्थूलं त्रिविधमुच्यते
उत्तमादिक्रमेणैव तत्फलं चाधुनोच्यते २
पुष्टिरारोग्यजयदं अन्ते सालोक्यमाविशेत्
तत्सूक्ष्मं विविधं प्रोक्तं दीनं लग्नं च संगृहेत् ३
कर्क लग्नं च तल्लग्नं अनुकू लं वरं भवेत्
कर्तुर्व्याधिविनाशः स्यादपवर्गप्रदायकम् ४
उदयाद्युदयान्तं च सर्वमासं च संग्रहेत्
अहोरात्रं प्रकर्तव्यं सर्वपूजां समाचरेत् ५
भोगमोक्षप्रसिध्यर्थं सूक्ष्मपूजाफलं विदुः
अयने विषुवे चैव अन्यत्पुण्यदिने मतम् ६
मासपक्षे विशेषेण तत्तन्मासर्क्षमेव वा
इहलोके सुखं प्राप्य सोऽन्ते सायुज्यमाप्नुयात् ७
यागशालामथो वक्ष्ये मण्डपं वा प्रपां कु रु
तन्मासं पर्ववत्कुर्यात् सर्वालंकारशोभितम् ८
पश्चिमे चोत्तरे वापि मध्यवेदी समन्वितम्
हस्तमात्रप्रविस्तारं त्र्यश्रकु ण्डमुदाहृतम् ९
पूर्ववत्स्रुक्स्रुवादींश्च कारयेन्निधनेश्वर
निश्चित्य दिवसात्पूर्वे रात्रौ पूजावसानके १०
विघ्नेश्वरं समभ्यर्च्य संकल्पमिह बुद्धिमान्
पुण्याहं वाचयेत्तत्र स्थण्डिलं कल्पयेत्ततः ११
गोघृतं विंशति प्रस्थं मृत्पात्रे पूरयेत्सुधीः
स्थण्डिलोर्ध्वे तु संस्थाप्य त्र्यम्बकं तद्घटे न्यसेत् १२
पंचबिल्वैस्समभ्यर्च्य पायसं च निवेदयेत्
नववस्त्रेण संछाद्य द्रव्यलिंगमिति स्मृतम् १३
ततो होमं प्रकर्तव्यं वापाताहुतिमाचरेत्
स्नानार्थं गोघृतेनैव तत्प्रमाणमिहोच्यते १४
शतप्रस्थं पदप्रस्थं उत्तमं मध्यमं भवेत्
पंचाशत्प्रस्थसर्पिः स्यात् कन्यसं परिकीर्तितम् १५
अपरेद्युः प्रभाते च स्नानाद्यैस्सकली कृ तम्
देवदेवस्य विज्ञाप्य दिव्यसंपातमारभेत् १६
पाद्यमाचमनार्ध्याय दूर्वा तुलसितण्डुलम्
पंचगव्यं च तद्द्रव्यं पूर्ववद्गृह्य बुद्धिमान् १७
पंचामृतं विधानेन साधयेद्देशिकोत्तमः
स्नानद्रव्याणि सर्वाणि यथालाभं परिग्रहेत् १८
स्नानार्थं नवमं कल्प्य पूर्ववद्द्रव्यसंयुतम्
कान्तोदके न संस्नाप्य अष्टपुष्पं च साधयेत् १९
शुक्लवस्त्रं सुसूक्ष्मं च गन्धद्रव्यमुशीरकम्
सर्वाभरणसंयुक्तं अर्क पुष्पसमन्वितम् २०
कुं कु मागरुकर्पूरं धूपद्रव्यमिति स्मृतम्
दीपाश्च पदसंख्याः स्युः मन्त्रान्नं पायसं मतम् २१
मृदुर्व्रीही निवेद्यार्थं तण्डुलं भारसंख्यया
अष्टांशमुद्गसंयुक्तं षोडशांशं घृतं मतम् २२
तत्समं सूपसंयुक्तं गुल्माषं तु कलांशकम्
अष्टांशं व्यंजनं प्रोक्तं नानाविधफलानि च २३
माधूकमिन्धनं प्रोक्तं समिद्बिल्वमिति स्मृतम्
पूर्वद्रव्यसमायुक्तं पूपे क्षीरफलादिकम् २४
तत्तत्संख्यां जपेद्धीमान् उमासूक्तं च भूसुराः
प्रधानभेरिकायुक्तं सर्ववाद्यसमन्वितम् २५
कर्पूरमिश्रपानीयं मुखवासं मुरादिकम्
गान्धारो द्राविडं भाषा नृत्तं वैणवमेव च २६
मट्टतालं पत्रदूर्वे गानं श्रीकामरं तथा
एवं संपाद्य तत्काले पूजाक्रम इहोच्यते २७
यागमण्डपमावेश्य वेद्यूर्ध्वे स्थण्डिलं कु रु
मध्यमे शिवकु म्भं च उत्तरे वर्धनीं न्यसेत् २८
अनन्तादिशिखण्ड्यन्तान् दिग्विदिक्षु यजेत्क्रमात्
सूत्रवेष्टनमारभ्य पूजान्तं पूर्वदिग्भवेत् २९
सौम्ये वेद्यूर्ध्वभागे तु सूत्रन्यासं तु कारयेत्
राशिमण्डलमार्गेण पंचचूणैरलंकृ तम् ३०
त्रियम्बकाधिदैवत्यं पूजयेद्गुरुमार्गतः
मण्डपं पूजयेद्धीमान् पूर्वोक्तविधिना सह ३१
पूजान्ते द्रव्यलिंगं तु स्वनाम्ना तु समर्चयेत्
अग्निकार्योक्तमार्गेण होमं कु र्याद्विशेषतः ३२
तन्मन्त्रेणैव कर्तव्यं विशेषद्रव्यमाहुतिम्
पूर्णाहुतिं च शिरसा स्नानमण्डपमाविशेत् ३३
गणेशं पूजयेत्पूर्वं संकल्पमिह बुद्धिमान्
पुण्याहं वाचयित्वा तु सूत्रन्यासमतः परम् ३४
दलक्रमेण संस्थाप्य देवद्रव्याणि पूर्ववत्
द्वारं पूर्ववदभ्यर्च्य लिंगशुद्धिं च पूर्ववत् ३५
स्नानद्रव्याणि सर्वाणि स्नानकालेऽभिषेचयेत्
यागमण्डपकु म्भैश्च क्रमेणैवाभिषेचयेत् ३६
पतिमंत्रं जपेद्धीमान् घृतस्नानं तदन्तके
मन्त्रपुष्पं समभ्यर्च्य यागमण्डपमाविशेत् ३७
परिचारकमाहूय सोष्णीषः सोत्तरीयकः
तन्मूर्ध्नि प्रणवं न्यस्त्वा द्रव्यलिंगं वहेत्ततः ३८
स्वस्तिवाचनसंयुक्तं सर्ववाद्यसमाकु लम्
धामप्रदक्षिणं कृ त्वा देवाग्रे विन्यसेत्ततः ३९
वाद्यं नृत्तं च गानं च कारयेद्देवसंनिधौ
अष्टपुष्पं समभ्यर्च्य पाद्यादीन्धूपदीपकम् ४०
तद्घृतं कल्पयेल्लिंगं अष्टपुष्पं च धूपकम्
स्नपनं तत्र कु र्वीत तद्वस्त्रं वेष्टयेत्ततः ४१
तद्गन्धं लेपयित्वा तु तत्पुष्पं विन्यसेत्ततः
तद्भूषणैरलंकृ त्य तत्पात्रेण समर्चयेत् ४२
तद्द्रव्यैर्धूपदानं च तत्संख्यादीपमाचरेत्
तदन्नं विनिवेद्याथ पानीयं च निवेदयेत् ४३
मुखवासं च तत्काले नित्याग्नियजनं परम्
नित्योत्सवं ततः कु र्याद् धूपं नृत्तान्तमाचरेत् ४४
उपचारांश्च सर्वांश्च पूर्ववत्परिकल्पयेत्
जयमन्त्रं समुच्चार्य कर्ता पुष्पं समर्चयेत् ४५
ततः प्रभृति जप्त्वाथ पुष्यमासमुखेऽपि तु
मंत्राणामर्पणं कृ त्वा द्रव्याणामर्पणं शृणु ४६
स्नानं च लेपनं चैव धारणं दर्शनं क्रमात्
किं चिद्भेदविशेषोऽस्ति तदिदं कथ्यते धुना ४७
स्नानं च लेपनं चैव स्नानकाले समर्चयेत्
तत्परं स्नपनं स्नाप्य मन्त्रं पुष्पादि कल्पयेत् ४८
धारणं चान्यसंध्यायां तन्मन्त्रेण विसर्जयेत्
स्नापनं तत्र कु र्वीत चान्यसंध्यां समाचरेत् ४९
सर्वं निवेद्य देवाय तोषयेच्चण्डमूर्तिनम् ५०
इति मार्गशीर्षकमासपूजाविधिपटलः २२