अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शृणु
आर्द्रमासविहीने च घटिका हीननाडिके १
मासपक्षवारादि विपरीतं च संग्रसेत्
सस्यानां नाशनं प्रोक्तं भोगजानां तु नाशनम् २
महाभिषेकः कर्तव्यो रुद्रमन्त्रं शतं जपेत्
शान्तिहोमं ततः कृ त्वा पूर्ववद्व्रतमाचरेत् ३
स्नानकार्यविहीनं च रक्षाबन्धविहीनकम्
होमकर्मविहीनं च रक्षाबन्धविहीनकम् ४
होमर्कर्मविहीनं च द्रव्यसंपातहीनकम्
ईतिदोषविवृध्यर्थं तद्दोषशमनाय च ५
मूलमन्त्रं शतं जप्त्वा शान्तिहोमं तु कारयेत्
पुनः कर्म समारभ्य यावत्कर्म समाचरेत् ६
स्थण्डिलस्य विहीनं च पायसा पूपहीनकम्
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथा भवेत् ७
क्रमस्य विपरीतं च राष्ट्रदुर्भिक्षमेव च
मूर्तिहोमं ततः कृ त्वा पयसा स्नापयेच्छिवम् ८
मूलमन्त्रं शतं जप्त्वा पूर्वमेव समाचरेत्
डोलारोहणहीनं च प्रदक्षिणविहीनकम् ९
वेदघोषविहीनं च नृत्तवाद्यविहीनकम्
दीपहीनं च तत्काले श्लोकादीनां च हीनकम् १०
गौरीबीजं शतं जप्त्वा शेषकर्माणि योजयेत्
शूद्रादि स्पर्शनं कर्तुः तत्र स्नपनमाचरेत् ११
मर्त्या शृंगादि हीनं च चाग्निना के शहीनके
उत्तरास्य विहीनं च शान्तिहोमं समाचरेत् १२
तद्बीजेन शतं जप्त्वा प्रायश्चित्तमिहोच्यते १३
इति स्वायंभुवे आर्द्राव्रतप्रायश्चित्तविधिपटलः २१