अथातस्संप्रवक्ष्यामि प्रायश्चित्तविधिं शृणु
कृ त्तिकाख्ये तु मासे तु कृ त्तिका दीपहीनकम् १
तत्तत्कालविहीनं च न्यूनातिरिक्तमेव च
एवं हीनस्य कर्तव्यं लोके दुर्भिक्षमेव च २
स्नपनं शान्तिहोमं च घृतस्नानं विशेषतः
अग्निबीजं जपेद्धीमान् पुनर्दीपं समाचरेत् ३
रक्षाबन्धविहीनं च दीपस्थाली विहीनके
मशकादि लूतिकान्तं च दीपस्थालीं प्रवेशयेत् ४
लोकस्य रोगसंपन्नं तदर्थं शान्तिहोमकम्
पुनर्योग्य क्रमेणैव दीपारोहणमाचरेत् ५
कृ त्तिकायां यथोक्तं यद् हीनं चेद्यधिकं तु वा
सस्यानां नाशनं प्रोक्तं शान्तिहोमेन शाम्यति ६
तत्काले दीपमारोप्य पूर्वोक्तविधिना सह
एवमेव क्रमेणैव प्रायश्चित्तमिहोच्यते ७
आयुश्रीकीर्तिपुष्टिं च धनधान्यप्रदं भवेत् ८
इति स्वायंभुवे कृ त्तिका दीपप्रायश्चित्तविधिपटलः २०