०२ अयुतस्नानविधिपटलः

अयुतस्नपनं वक्ष्ये श्रूयतां निधनेश्वर
सर्वशत्रुक्षयकरं शिवसायुज्य कारणम् १
तस्मात्सर्वप्रयत्नेनायुतस्नपनमाचरेत्
सर्वमासेषु कर्तव्यं प्रतिष्ठादिषु योग्यकम् २
कर्तुर्जन्म दिने वापि पुण्यकालेऽथ मंगले
युद्धारम्भावसाने ह्ययुतस्नपनमाचरेत् ३
एवं कालविधिः प्रोक्तः तदर्थं मण्डपं शृणु
पंचविंशत्समारभ्य पंचहस्तविवर्धनात् ४
चत्वारिंशत्करं मानं मानसूत्रं तदुच्यते
चतुष्षष्टिगायत्रियुक्तं युग्मयुक्तमशीतिकम् ५
मण्डपं वा प्रपां वापि कू टाकारमथापि वा
चतुर्द्वारसमायुक्तं भद्रयुक्तं तु मण्डपम् ६
भद्रं सोपानयुक्तं तु हस्तिहस्तिविभूषितम्
सर्वलक्षणसंयुक्तं तोरणाद्यैरलंकृ तम् ७
कलशान्क्षालयेद्धीमान् सूत्रेणैव तु वेष्टितान्
मनोरम्येऽन्यदेशे वा दर्भशय्योपरिन्यसेत् ८
अधोमुखं शयित्वा तु एककू र्चोपरि न्यसेत्
अस्त्रमन्त्रेण संप्रोक्ष्य कलशान्द्रव्यदेशिकः ९
प्रधानं द्रोणपूर्णं च शिवपूर्णां च वर्धनीम्
द्वादशप्रस्थपूर्णान्तु अन्यत्सर्वघटान्प्रति १०
आढकं प्रस्थमेकं वा त्रिप्रस्थं वा द्वितीयकम्
द्विप्रस्थं वा तृतीयं तु कलशानां विधीयते ११
तन्त्रं च त्रिगुणीकृ त्य कलशेषु सुयोजयेत्
त्रिगुणीद्विगुणीकृ त्य अन्यत्कु म्भेषु योजयेत् १२
त्रिगुणीद्विगुणीकृ त्य शिवकुं भं च वेष्टयेत्
एकतन्तुविहीनं तु वर्धन्यां योजयेत्सुधीः १३
शिवकु म्भस्य वस्त्रं च उत्तमं युग्ममेव च
उत्तमं कू र्चमेवं तु नवरत्नानि विन्यसेत् १४
सार्धनिष्काब्जपुष्पं च तप्तकांचननिर्मितम्
द्रालितं गन्धतोयेन शिवकु म्भं च पूरयेत् १५
आम्रपल्लवयुक्तं च नालिके रसमन्वितम्
लम्बकू र्चसमायुक्तं शिवकु म्भस्य लक्षणम् १६
वस्त्रमध्यमयुग्मं तु कू र्चमध्यममेव च
अर्धनिष्काब्जपुष्पं च पंचरत्नानि योजयेत् १७
रजनीतोयपूर्णं च नालिके रं च पल्लवम्
लम्बकू र्चसमायुक्तं वर्धन्यां संप्रयोजयेत् १८
अन्येषां चैव कु म्भानां वस्त्रं कू र्चं च मध्यमम्
स्वर्णपादेन पुष्पं च पंचरत्नानि योजयेत् १९
+++++++++ नालिके रं च पल्लवम्
कन्यसाम्बरकू र्चादिकलशानां विधीयते २०
ताम्रपात्रेण संयुक्तं कलशानां पृथक्पृथक्
पदं प्रति विशेषेण कलशद्वयसंयुतम् २१
तं पूर्वे द्रव्यदेवाश्च क्रमेणैव तु चोच्यते
सहस्रद्वयमेकं च गुरुणोक्तविधानतः २२
प्रथमं शोधयेद्भूमिं अस्त्रमंत्रेण देशिकः
गोमयालेपनं कृ त्वा घोरमन्त्रेण बुद्धिमान् २३
सूत्रन्यासमघोरेण सूत्रसंख्याक्रमं शृणु
प्रागग्रमुदगग्रं च चतुस्सूत्रं प्रसारयेत् २४
एवं नवपदं ग्राह्य मध्यभागे विशेषतः
पूर्वाग्रमुत्तराग्रं च द्विद्विसूत्रं प्रसारयेत् २५
शंकुं तन्मध्यमे स्थाप्य भ्रामयेत्तु शनैः शनैः
सूत्रं त्रयोदशान्तं तु रविष्वेकैकतालकम् २६
मध्ये द्वितालविस्तारं चतुर्द्वारसमन्वितम्
नवावरणदेशेषु घटसंख्यां ततः शृणु २७
युगाग्रेकाग्रेचाष्टकलशं तन्मध्ये शिवकु म्भकम्
मध्यमेशानयोर्मध्ये वर्धनीं न्यस्य देशिकः २८
अष्टचत्वारि षष्टिश्च द्विसप्तति यथाक्रमम्
द्व्यशीतिसंख्यया प्रोक्तं विंशत्यूर्ध्वशतं भवेत् २९
द्विचत्वारिंशकशतं चतुश्चत्वारिंशकं शतम्
द्विपंचाशद्युतशतं अशीत्या संयुतं शतम् ३०
द्विद्विसंख्या क्रमेणैव द्विसहस्रं क्रमान्न्यसेत्
सहस्रद्वयमाख्यातं महाशासु हुनेत्ततः ३१
लवंगं चैव कर्पूरं नालिके रं फलत्रयम्
कदलीफलं च पनसं विष्णुक्रान्तिसमं भवेत् ३२
पंचगव्यादिसंयुक्तं द्रव्यमेवं विधीयते
गौरी चण्डेशनन्दीशौ महाकालश्च माधवः ३३
गणो गणेशः स्कन्दश्च महालक्ष्मीन्निवाधिपाः
शिवं प्रधानकु म्भे तु वर्धन्यां च मनोन्मनीम् ३४
परितश्चाष्टकु म्भेषु विद्येशान्संप्रपूजयेत्
देवाद्रव्याणि चान्यस्त्र पूर्वोक्तान्ग्राहयेद्बुधः ३५
अन्येष्वेकैकपदके त्रिंशत्सूत्राणि पातयेत्
पूर्वाग्राश्चोत्तराग्राश्च चतस्रो वीथयः स्मृताः ३६
प्रागग्रमुदगग्रं च वीथीनामष्टकं भवेत्
पंचविंशतिव्यूहाश्च नवव्यूहाश्च मध्यमे ३७
गृहीत्वा तु चतुष्कोणं तत्तद्रूणं प्रकल्पयेत्
महाशासु चतुर्व्यूहं होमार्थं संप्रकल्पयेत् ३८
मध्यव्यूहे विशेषेण महेशं संप्रकल्पयेत्
एकैकं कोणदेशे तु महाशासु चतुष्टयम् ३९
आवृतं भानुसंख्या च घटं व्यूहाश्च विंशतिः
प्रथमावृतिकोणेषु व्यूहाश्च चतुरः स्मृताः ४०
तदावृतौ कलासव्यूहाश्चैवं व्यूहाश्च विंशतिः
विंशद्व्यूहं समाख्यातं तत्तद्व्यूहं प्रति प्रति ४१
व्यूहेशकु म्भस्त्वेकस्तदावृतिद्वयमेव वा
चतुर्विंशत्पदे कु र्याद् एकैकस्मिन्घटद्वयम् ४२
एवं विंशतिव्यूहेषु सहस्रकलशाः स्मृताः
कलशाश्चैवमाख्याता द्रव्याणां विधिरुच्यते ४३
पाद्यमाचमनं चैव मध्यव्यूहे प्रकल्पयेत्
तिलं च सर्षपं चैव नीवारं यवमेव च ४४
नारंगस्य द्वयं चैव उशीरं चन्दनं तथा
तक्कोलं कोष्ठमेवं तु पत्रजातिर्घने भवेत् ४५
हिमं कुं कु मकस्तूर्यौ तुटिस्तुम्बूवरालिका
वराली क्रकिला दूर्वा द्रोणपुष्पं च पाटली ४६
राजपुष्पकम्
मन्दारं करवीरं च रक्तमन्दारमालती
अगरुद्वयलाजाश्च लाजचूर्णं च भस्मकम् ४७
निगुण्डी तुलसी चैव मुण्डी वारित्रणं भवेत्
शकृ च्चूर्णं च भद्रा च श्वेतलोध्रं प्रकल्पयेत् ४८
स्वर्णपुष्पप्रदाने तु व्यूहेशेषु प्रकल्पयेत्
स्वर्णपुष्पं च रत्नं च पूर्ववत्परिकल्पयेत् ४९
एवं द्रव्यं समापाद्य तत्तदावरणे न्यसेत्
द्रव्याणामेवं विन्यासं देवानां विधिरुच्यते ५०
विद्येशान्भास्करं चैव मध्यव्यूहे प्रकल्पयेत्
इन्द्रादीनां च वस्त्राद्यं व्यूहेशानां प्रकल्पयेत् ५१
अनन्तानाथसूक्ष्माश्च किमर्दे विद्रुमस्तथा
किरीटी किं शुपाणिश्च सर्पपाणिर्वतेश्वरः ५२
वसुप्रदेशो वक्षस्थ खड्गपाणिन्निकु ब्जकः
कार्तिके यश्च ++++ करण्डः कालदेहकः ५३
कपाली पिनश्चैव शंकु कर्णो गदाधरः
पेचकः पद्मनाभश्च वल्कलाम्बरवासकः ५४
कृ शानुः पाण्डुदेहश्च वायुः पाणिस्तथैव च
रक्तांगी चैव कृ ष्णांगी पीतांगी श्वेतरागिणी ५५
धीवर्णी वीरभद्रा च कासः कारणनायकः
वसुप्रिया वसुमतीत्येवमावरणे न्यसेत् ५६
हेमशाली महाशाली सौगन्धिकमथोत्तमः
मध्यव्यूहे विशेषेण चाष्टद्रोणाप्तशालिना ५७
व्यूहानामाढकप्रस्थं तदर्धं तण्डुलं भवेत्
तदर्धं तिलमित्युक्तं तदर्धं लाजमेव च ५८
शालिनां प्रस्थमेवं तु कलशानां पृथक्पृथक्
स्थण्डिलं कल्पयेद्धीमान् बहुरूपमनुस्मरन् ५९
गुरुपदिष्टमार्गेण पूजयित्वा यथाक्रमम्
नवाग्निर्वाथ पंचाग्निरेकाग्निर्वा समाचरेत् ६०
पूर्ववद्धोमकार्यं तु वह्नीन्कु म्भेषु योजयेत्
ऐन्द्रस्सर्वं समाख्यातं आग्नेय्यामधुनोच्यते ६१
पूर्ववत्सर्वमेवं तु देवताद्रव्यमुच्यते
पाद्यमाचमनं चैव मध्यव्यूहे प्रकल्पयेत् ६२
अर्घ्यं च पंचगव्यं च इक्षुसारं फलं गुलम्
पनसाम्रफलं चैव नवनीतं घृतं तथा ६३
गुग्गुलु सितं माषं पलाशं पद्मतुषण्डकम्
नारंगं दाडिमी कु न्दं कपित्थस्य शरल्यकम् ६४
बिल्वपत्रं तपस्वी च तुलसी गन्धपुष्पकम्
धात्रीं च माधवीं चैव हरेणुं कर्णिकारकम् ६५
एलालवंगकर्पूरचन्दनं श्वेतजीरकम्
पद्मं दान्तं सिताब्जं च कु टजं जातिमेव च ६६
नीलोत्पलं च कु मुदं चम्पकं च स्थलाब्जकम्
मुद्गं माषं तिलं चैव श्वेतलोध्रं च गैरिकम् ६७
++विद्येश्वरानष्टौ द्रव्यं वाथ पृथक्पृथक्
विद्येश्वरं च वृषभं कारणेशं हिलारिणम् ६८
प्रेतेशं पुरुषं चैव क्रु द्धं पापविनाशनम्
करेशं वालिनं दण्डं पिंगाक्षं प्रमदं हरम् ६९
वारुणं वणिजं भ्रासिं करण्डं कु ण्डलाक्षकम्
पाशधारिं सिंहनादं खड्गधारिं महेश्वरम् ७०
चक्रधारिं सिंहधरं पाशधारिं सृणीधरम्
दुर्भरं ज्येष्ठां च मातॄंश्च वनमातॄंश्च दीपकम् ७१
जलेशीं हर्षिणीं चैव पर्वतेशीं यमेश्वरीम्
पक्षिणीं पूर्णदेहीं च पंचमीं के शधारिणीम् ७२
चिन्तामणिं कामदेवीं एतान्देवान्प्रचक्षते
आग्नेयस्थेश्वरस्य विधिः प्रोक्तो याम्यव्यूहविधिं शृणु ७३
क्रमश्च पूर्वमेवोक्तो देवताद्रव्यमुच्यते
वरालं मंजरी चैव मध्यव्यूहे प्रकल्पयेत् ७४
प्रथमावरणे तत्र ++++++++++
अष्टमृद्वल्कलोदं च लोहं धातु जलं भवेत् ७५
स्वर्णोदकं रत्नजलं कान्तोदं कुं कु मं भवेत्
फलोदकं च पत्रोदं पुष्पोदकमतः परम् ७६
रजतोदं ततः पश्चान्मार्जनोदकमेव च
परिमार्जनं च चन्द्रोदं कन्दोदं द्रव्यमेव च ७७
बीजोदकं कृ ष्णजलं गन्धोदकमतः परम्
अष्टमृद्वल्कलं चैव गव्यं धातु पृथक्पृथक् ७८
एवं द्रव्यं समाख्यातं व्यूहं प्रति विशेषतः
विद्येशानां च वामादि वृषभं पावकं तथा ७९
मातॄर्विघ्नेश्वरं चैव स्कन्दं ज्येष्ठां तथैव च
दुर्गां सूर्यं च वह्निं च पितरं च यमं तथा ८०
रोहिणीमश्वनीत्युक्तं बलं च निरृतिं तथा
अप्सरं वरुणं चैव वायुर्षं भयमेव च ८१
रुद्रं चैव क्रमेणैव खकारान्तं क्रमेण तु
एताश्च देवताः प्रोक्ता निरृतौ च प्रवर्तते ८२
सर्वं पूर्ववदुद्दिष्टं द्रव्यदेवमिहोच्यते
हिमतोयं मध्यमे च कुं भं प्रति विनिक्षिपेत् ८३
दशपुष्पं क्रमेणैव क्षीरादिद्रव्यपंचकम्
बृहत्यौ लिकु चं चैव श्वेतार्कं द्रोणपुष्पकम् ८४
दशपत्रं चतन्मूलं क्रमेणैव निवेशयेत्
अनन्तादिशिखण्ड्यन्तान्भृगुरत्रिस्तथैव च ८५
सोमं च क्षेत्रपालं च इशो द्वादशभास्कराः
विक्रमः क्रमपादश्च विके शश्चोर्ध्वके शकः ८६
सनन्दश्च क्रमेणैव क्षीरादिद्रव्यपंचकम्
++++++++ तत्तत्प्रथममेव च ८७
गकारादि फकारान्तं अधिदेवानतः परम्
स्वस्वमंत्रैः समभ्यर्च्य गुरुणोक्तविधानतः ८८
निरृतौ देवताः प्रोक्तो वारुणे विधिरुच्यते
सर्वं पूर्ववदेवं तु द्रव्यदेव इहोच्यते ८९
मध्ये व्यूहे विशेषेण मुक्तपुष्पमिति स्मृतम्
दशपत्रं रुद्रपर्णी चूतं पुष्पद्वयं मतम् ९०
सर्जनं मार्जनं मंजी मंजरी चैव संमतम्
पटोली गुग्गुलं माषं त्रिपुषं कोष्ठमेव च ९१
पुंनागं शंखपुष्पं च श्रियावर्तिद्विकर्णिका
बहुकर्णिका च मन्दारं करजं जातिमालती ९२
लक्ष्मी बकु लश्वेतार्कं मालती श्वेतलोध्रकम्
अतसी विषकासी च भद्रा च क्रमयोगतः ९३
एवं द्रव्यं समाख्यातं अनन्तादिरिहोच्यते
द्वितीयं सर्पराजं च मध्यमे तु विशेषतः ९४
मेषाद्यधिपतिश्चैव नक्षत्राधिपतीनपि
श्रीधरं च क्रमेणैव पूजयेत्तु यथाक्रमम् ९५
वरुणे सर्वमाख्यातं वायव्ये विधिरुच्यते
पूर्ववत्सर्वमेवं तु द्रव्यदेवविधिं शृणु ९६
महाभद्रा पलाशं च धूर्धूरं मौसली तथा
वेदका चम्पकं कर्णी पट्टिका हेमधूर्धुरम् ९७
कोरण्डं गैरिकं बिल्वं तपस्वी ह भद्रिका
धातकी तुलसी चैवापामार्गं जम्बुरेव च ९८
नागादिविष्णुक्रान्तिः भूपाटली जपा मतम्
माधवी जम्बकपुष्पं च निगुण्डी पीवरं तथा ९९
वरणं चारणं चैव व्याघ्री कर्पूरयुग्मकम्
सर्षपद्वयमेवं च कर्तव्यं विनिवेशयेत् १००
विलंगं नालिके रं च रास्नासर्षपमेव च
मृगमदं च निर्यासं रक्तचन्दनतैलकम् १०१
घृतं क्रमेण कर्तव्यं तत्तत्कु म्भे सुयोजयेत्
अनन्तादिभवं चैव मध्यव्यूहे प्रकल्पयेत् १०२
पूर्वादीशानपर्यन्तं कोटिसूक्ष्मस्तथैव च
गौरीशद्धस्तथा ब्रह्मा शिवो विष्णुर्भृगुस्तथा १०३
ईशानः कौशिकश्चैव एकाक्षो विघ्ननायकः
सरस्वतीमहालक्ष्मीरेकरुद्रस्त्रिदण्डकः १०४
पशुः पतिः पंचपाणिः कामरूपी हलायुधः
कं कणी फणिकर्णी च पर्णाशनविकारिणः १०५
ऊर्ध्वरूपस्ततोन्मत्तो युगनाथस्सुपेशलः
पेशलो भ्रात्रदारी च पक्षधारी करण्डकः १०६
क्रू रजन्मा कृ पा++ हुतभुक् कृ त्तिकापतिः
कौशिकादिषु पंचैते देवताः परिकीर्तिताः १०७
वायुव्यूहः समाख्यातः सोमव्यूह इहोच्यते
सर्वं पूर्ववदाख्यातं देवता द्रव्यमुच्यते १०८
अश्रं वाथ सुवृत्तं वा राजतं चक्रमाहरेत्
कु जयद्वयं च माषं स्याच्चक्रं प्रति पृथक्पृथक् १०९
यवद्वयसुविस्तारं तन्मध्ये वर्णमालिखेत्
ककारादिसकारान्तं मकारादिदशाक्षरम् ११०
लिखित्वा तु विशेषेण एकैकं कलशं प्रतिः
तत्तद्वर्णादि देवेशं तत्तत्कु म्भे सुयोजयेत् १११
सोमव्यूहं समाख्यातं ईशानव्यूह उच्यते
पूर्ववत्सर्वदेवानां स्वर्णचक्रं लिखेत्ततः ११२
तत्तदक्षरसंयुक्तं बीजाक्षरमिति स्मृतम्
अक्षराधिपतीन्देवांस्तत्तच्छक्त्या सहार्चयेत् ११३
एवं क्रमेण कर्तव्यं उपदेशस्य मार्गतः
अनुक्तमव्यतो ग्राह्यं अयुतस्नानकर्मणि ११४
महाहविर्निवेद्याथ तोषयेत्परमेश्वरम्
देवदक्षिणभागे तु पूर्वस्यो देशिकः स्थितः ११५
कर्तारं विन्यसेदग्रस्रवन्यासं च शृंखलाम्
हंसन्यासं च कर्तव्यं कर्तृदेहे न्यसेत्क्रमात् ११६
कर्तुर्दक्षिणकर्णे तु रहस्यं मन्त्रमुच्चरन्
आचार्यं पूजयेत्पश्चात् कर्ता श्रद्धानुसारतः ११७
इति स्वायंभुवे अयुतस्नानविधिपटलः १९