स्नपनं संप्रवक्ष्यामि शृणुष्वेकाग्रमानसः
इदानीं नवभेदास्ते उत्तमादि त्रयं त्रयम् १
सर्वरोगनिवृत्त्यर्थं सर्वशत्रुक्षयं भवेत्
नृपाणां कामदं चैव मर्त्यानां भोगमोक्षदम् २
प्रसादस्याग्रके वापि अष्टदिक्षु प्रकीर्तितम्
यथेष्टं कारयेद्धीमान् मनोरम्येऽन्यदेशके ३
मण्डपं कारयेत्तत्र त्रिविधं परिकीर्तितम्
सप्तदशं समारभ्य विंशद्धस्तावसानकम् ४
षट्त्रिंशद्गादिसंयुक्तं युगस्तम्भं त्यजेत्क्रमात्
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ५
वितानध्वजसंयुक्तं स्तम्भान्वस्त्रेण वेष्टयेत्
दर्भमालासमायुक्तं सर्वालंकारशोभितम् ६
गोमयालेपनं कृ त्वा वास्तुकर्म तदन्तके
संमार्जनं पुनः कृ त्वा गोमयालेपनं कु रु ७
प्रथमं सूत्रसंख्याश्च कु म्भसंख्यास्ततः शृणु
प्रागग्रमुदगग्रं च द्विसूत्रं प्रसारयेत् ८
तस्य मध्ये न्यसेच्छंकुं भ्रामयेत्तु विचक्षणः
एकविंशतिसूत्राणि वृत्तवद्भ्रामयेत्ततः ९
सूत्रात्सूत्रान्तरालं + विंशत्यावरणं भवेत्
श्रुतिद्वारसमायुक्तं भूतसूत्राणि संत्यजेत् १०
रजनीपिष्टचूर्णं च पदं द्रोणैश्च शालिभिः
तन्मध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम् ११
तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि
तदर्धैर्लाजसंयुक्तं दर्भैः पुष्पैः परिस्तरेत् १२
स्थण्डिलं कल्पयेद्धीमान् पदं प्रति पदं प्रति
पथद्वाराढकान्नं च कलशानां पृथक्पृथक् १३
तन्तुना वेष्टयेद्धीमान् कलशांश्चैव चित्रितान्
पूर्वं प्रक्षाल्य चास्त्रेण प्रोक्षयेत्पुरुषेण तु १४
शिवकु म्भं च तन्मध्ये तस्य वामे मनोन्मनीम्
पंचरत्नं सुवर्णं च निक्षिपेद्धृदयेन तु १५
वर्धनीं स्वर्णपुष्पं च वस्त्रयुग्मेन वेष्टयेत्
गन्धपुष्पादिभिः पूज्य उपदेशक्रमाद्यजेत् १६
नवोत्तरसहस्रं च नवाधिकचतुश्शतम्
नवाधिकं च द्विशतं नवोत्तरशतं तथा १७
एकाशीतिमतः प्रोक्तं वर्णसंख्याद्विहीनकम्
पंचविंशतिभिः प्रोक्तं सप्तदशभिश्च कथ्यते १८
रन्ध्रसंख्यावदानान्तं नवभेदेषु बुद्धिमान्
अष्टौ षोडश संख्या च चतुविंशति संख्यया १९
द्वात्रिंशत्संख्यया चैव षट्पंचाशद्विधीयते
चतुषष्टिश्च कर्तव्यं द्विसप्तति यथाक्रमम् २०
चतुरशीतिसंख्यातं घटाः षण्णवतिस्तथा
शतसंख्या च कर्तव्यं कलशाश्च चतुश्शतम् २१
अष्टोत्तरशतं चैव षड्भिर्दशकं तथा
अष्टाविंशच्छतं चैव एवमेव क्रमेण तु २२
प्रदक्षिणक्रमेणैव पूजयेत्तु विचक्षणः
आग्नेयादिषु कोणेषु नवरत्नानि विन्यसेत् २३
पाद्यमाचमनं चार्घ्यं पंचगव्यं कु शोदकम्
क्षीरं दधि घृतं चैव प्रथमावरणे न्यसेत् २४
हेमं च नालिके रं च इक्षुसारं मधुक्रमात्
पुष्पं च सर्वबीजं च कदलीफलमेव च २५
भसितं पंचगव्यं च कषायोदकमेव च
धातुतण्डुलकं चैव अष्टमृद्भिरतिक्रमात् २६
विद्येशाश्चैव चण्डेशो नन्दीशः काल एव च
विघ्नेशो वृषभश्चैव भृंगीशः स्कन्द एव च २७
नन्दः पिनाकपाणिश्च जयभद्रस्तथैव च
विरूपाक्षः सूक्ष्मरूपः पिंगलाक्षः क्रमेण तु २८
एवमावरणादीनां देवता द्रव्यमुच्यते
कु म्भमध्ये क्रमेणैव सदाशिवं यजेद्बुधः २९
वर्धनीं चैव संपूज्य उपदेशक्रमान्न्यसेत्
सर्वगन्धं समाहृत्य सर्वगन्धेषु निक्षिपेत् ३०
गन्धातोयेन संपूर्य कलशान्प्रति संस्थितान्
पिधानकू र्चवस्त्राद्यान् प्रत्येकं कल्पयेत्क्रमात् ३१
धूपदीपसमायुक्तं यथावत्संप्रपूजयेत्
प्रथमावरणं पूज्य तत्तदावरणेषु च ३२
गुलान्नं पायसान्नं च तत्तद्देवान्निवेदयेत्
ताम्बूलं च निवेद्याथ निरोधार्घ्यं ददेद्गुरुः ३३
होमं कु र्यात्तदन्ते तु महाशासु पुरोक्तवत्
दशाहुतिं प्रकर्तव्यं तत्तन्मूलमनुस्मरन् ३४
पूर्णाहुतिश्च शिरसा कलशे तु सुयोजते
कलशानपि सर्वांश्च स्थापितस्य क्रमेण तु ३५
द्वारपूजां पुरा कृ त्वा लिंगशुद्धिं तदन्तके
स्नानद्रव्यं च पूर्वोक्तं तत्काले स्नानमाचरेत् ३६
शिवकु म्भं वर्धनीं च बाह्ये वादौ प्रदक्षिणम्
कु म्भाद्बीजं समादाय शिवस्य हृदि विन्यसेत् ३७
वर्धन्यं बीजमादाय पीठं वामे सुयोजयेत्
कलशानपि सर्वांश्च स्थापितस्य क्रमेण तु ३८
एवं स्नानं प्रकर्तव्यं नैवेद्यं धूपदीपकम्
महाहविः क्रमेणैव तोषयेत्परमेश्वरम् ३९
उत्तमोत्तममित्युक्तं उत्तमामध्यमं शृणु
पूर्ववन्मण्डलं कल्प्य शुद्धिं कृ त्वा महीतले ४०
द्विद्विसूत्रसमायुक्तं प्रागग्रमुदगग्रकम्
तन्मध्ये चक्रमेवं तु सूत्रबन्धनमिष्यते ४१
पक्षसूत्रेण कर्तव्यं भ्रामयेत्तु विचक्षणः
चतुर्द्वारसमायुक्तं महाशासु प्रकल्पयेत् ४२
आवरणं न संख्या च शेषसूत्राणि लोपयेत्
कलशाश्च चतुर्विंशत् षट्त्रिंशत्परिकीर्तितः ४३
विंशद्द्विगुणकर्तव्यं अष्टाधिकसमन्वितम्
रसोत्तरं बीजसंख्या चतुष्षष्टि ऋगाधिकम् ४४
षट्सप्तति समायुक्तं वेदाधिकमशीतिकम्
एवमेव क्रमेणैव नवाधिकचतुश्शतम् ४५
मध्यमे स्थण्डिलं कल्प्य शालिभिर्विमलैः शुभैः
षट्कोणेन समायुक्तं तन्मध्ये नलिनं लिखेत् ४६
तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि
तदर्धैर्लाजसंयुक्तैः दर्भैः पुष्पैः परिस्तरेत् ४७
आवरणानि सर्वाणि पदं प्रति पदं प्रति
स्थण्डिलं कल्पयेद्धीमान् त्रिःप्रस्थं शालिभिः क्रमात् ४८
तत्पूर्वं लेखयेत्पद्मं पूर्ववत्परिकीर्तितम्
कु म्भं च वर्धनीं पूर्य वस्त्रपूतेन वारिणा ४९
पंचरत्नं सुवर्णं च निक्षिपेद्धृदयेन तु
वस्त्रकू र्चसमायुक्तं चूतपल्लवसंयुतम् ५०
सदाशिवमनोन्मन्यौ पूजयेत्तु यथाविधि
वामादिशक्तिरष्टौ च स्वस्वनाम्ना प्रपूजयेत् ५१
ततो मातृगणांश्चैव क्रमेणावरणे यजेत्
गन्धपुष्पादिभिस्सर्वान् आग्नेयादि समर्चयेत् ५२
पाद्यमाचमनं चार्घ्यं पंचगव्यं कु शोदकम्
क्षीरं दधि घृतं चैव षोदश द्रव्यमेव च ५३
कर्पूरं कुं कु मं पत्रं लवंगं च फलत्रयम्
तुलसी जातिपुष्पं च क्रमेणैव सुयोजयेत् ५४
होमं कु र्याच्चतुर्दिक्षु शान्तिहोमेन कारयेत्
द्वारपूजादिपूजान्तं पूर्ववत्परिकल्पितम् ५५
एवं स्नानं समाख्यातं पुत्रपौत्रविवर्धनम्
उत्तमामध्यमं प्रोक्तं अधमं चाधुनोच्यते ५६
मण्टपं संप्रवक्ष्यामि यथावदनुपूर्वशः
शुद्धिं कृ त्वा विशेषेण गोमयालेपनं कु रु ५७
मण्डपस्योत्तरे भागे कलशान्गृह्य देशिकः
तन्तुना वेष्टयेत्सर्वान् क्षालयेत्पुरुषेण तु ५८
पूर्वाग्रमुदगग्रं च द्विद्विसूत्रं प्रसारयेत्
सूत्रयो दशं प्रोक्तं भ्रामयेत्तु शनैः शनैः ५९
सप्ततालं गृहीत्वा तु शेषसूत्राणि लोपयेत्
द्वारं प्रति विशेषेण महाशासु प्रकल्पयेत् ६०
रजनीपिष्टचूर्णं च पूर्वोक्तविधिना ततः
तन्मध्ये स्थण्डिलं कृ त्वा अधमोक्तविधानतः ६१
आसनं कल्पयेत्तत्र स्वस्वमन्त्रं समुच्चरन्
अष्टाविंशतिभिश्चैव द्वात्रिंशत्परिकीर्तितम् ६२
चत्वारिंशति संख्यैश्च अष्टाधिकशतं भवेत्
चतुष्षष्टि गृहीत्वा तु नवाधिकद्विशतं भवेत् ६३
मध्ये सदाशिवं प्रोक्तं तस्य वामे मनोन्मनीम्
पंचरत्नं सुवर्णं च निक्षिपेद्धृदयेन तु ६४
वर्धन्यां स्वर्णपुष्पं च वस्त्रयुग्मेन वेष्टयेत्
एवं प्रति विशेषेण कलशांश्च यथाक्रमम् ६५
भवः प्रजापतिश्चैव रुद्रः के शव एव च
शास्ता च चन्द्रमाश्चैव एतानावरणान्क्रमात् ६६
विष्णुक्रान्तिश्च सिन्दूरं द्रोणं चैव तु पाटली
बिम्बं व्याघ्री च इत्येते आवरणे यथा क्रमम् ६७
आसनं मूर्तिमूलैश्च पूजयेत्तु यथाक्रमम्
नैवेद्यं दापयेत्तस्मात् ताम्बूलं दापयेत्ततः ६८
महाशासु प्रकर्तव्यं होमकार्यं विजानता
द्वारपूजादिपूजान्तं पूर्वोक्तविधिना सह ६९
महाहविर्निवेद्याथ तोषयेत्परमेश्वरम्
सर्वकार्यार्थसिध्यर्थं स्नपनं सम्यगाचरेत् ७०
स्नपनं संप्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम्
अष्टोत्तरशतं चैव एकादशीति च मध्यमम् ७१
एकन्यूनं तु पंचाशन् मध्यमत्रयमुच्यते
सप्तहस्तं समारभ्य एकादशकरान्तकम् ७२
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमुच्यते
चतुर्द्वारसमायुक्तं पूर्ववत्परिकल्पयेत् ७३
प्रागग्रमुदगग्रं च द्विद्विसूत्रं प्रसारयेत्
मध्ये शंकुं न्यसेद्धीमान् भ्रामयेत्तु शनैः शनैः ७४
सूत्रात्सूत्रान्तरं तालं दशसूत्रेण कारयेत्
बाणसंख्या क्रमेणैव शेषसूत्राणि लोपयेत् ७५
स्थण्डिलं कल्पयेद्धीमान् पूर्वोक्तविधिना सह
अष्टद्वादशं चैव ऋगाद्युत्तरविंशतिः ७६
अष्टाविंशतिभिश्चैव षट्त्रिंशच्च यथाक्रमम्
स्थापयेत्पुरुषेणैव गन्धतोयेन पूरयेत् ७७
मध्यमे शिवकुं भं च वर्धनीं तस्य वामके
पंचरत्नं सुवर्णं च निक्षिपेद्धृदयेन तु ७८
वर्धनीं स्वर्णपुष्पं च कू र्चं वस्त्रेण वेष्टयेत्
पाद्यमाचमनं चार्घ्यं पंचगव्यं कु शोदकम् ७९
क्षीरं दधि घृतं चैव निक्षिपेत्पुरुषेण तु
मधु कोष्ठं च कच्चोलं कर्पूरं च क्रमान्न्यसेत् ८०
कु मुदं च शतावेरी पयसा च दधि क्रमात्
सर्षपं च तिलं बिल्वं मातुलुंगफलं क्रमात् ८१
लघुकोष्ठं च कच्चोलं हरिबेरं क्षिपेत्क्रमात्
वामादिशक्तयश्चाष्टावीशान्तं द्विद्विकौ मतौ ८२
ज्येष्ठां लक्ष्मीं च दुर्गां च सरस्वतीं च क्रमेण तु
तृतीया वरणे चैव लोके शान्विन्यसेत्क्रमात् ८३
विघ्नराजं गुहं चैव महाकालं च नन्दिनम्
गंगां मातृगणांश्चैव पंचमावरणे यजेत् ८४
ईशप्रतिमुखान्सर्वान् स्वस्वनाम्ना तु पूजयेत्
मंत्रान्नं मन्त्रपुष्पं च प्रतिमन्त्रेण पूजयेत् ८५
पूर्वोक्तविधिना चैव शेषकर्माणि योजयेत्
मध्यमोत्तममित्युक्तं मध्यमामध्यमं शृणु ८६
पूर्वोक्तमण्डपं कल्प्य पूर्ववत्सूत्रवर्तनम्
अब्धिद्वयसमायुक्तं भ्रामयेत्तु विचक्षणः ८७
द्वारं संकल्प्य चाशासु त्रीणि सूत्राणि लोपयेत्
स्थण्डिलं कल्पयेद्धीमान्मध्यमोक्तविधानतः ८८
तत्पूर्णं कारयित्वा तु पूर्वोक्तविधिना ततः
तन्तुना वेष्ट्य कलशान् क्षालयेत्पुरुषेण तु ८९
द्वात्रिंशत्संख्या युक्तं चतुर्विंशतिसंख्यया
तद्व्यष्टसंख्यया युक्तं नागसंख्या समायुतम् ९०
आग्नेयादिषु कोणेषु कलशान्स्थापयेद्बुधः
शिवकु म्भं च तन्मध्ये तस्य वामे तु वर्धनीम् ९१
गन्धतोयेन संपूर्य पंचरत्नं विनिक्षिपेत्
स्वर्णपुष्पसमायुक्तं तदुक्तं कू र्चवस्त्रकम् ९२
पाद्यमाचमनं चार्घ्यं पंचगव्यं परिक्रमात्
चम्पकं तैलनीवारमेघं चैव क्रमेण तु ९३
चन्दनागरुकर्पूरलवंगं च क्रमेण तु
नीलोत्पलं च पद्मं च कु टजं मल्लिका तथा ९४
द्वितीयावरणमारभ्य कार्तिके यो गजाननः
नन्दिनं च महाकालं पूजयेत्स्वस्वमन्त्रकैः
अनन्तो वासुकिश्चैव तक्षकश्चाम्बुजस्तथा ९६
महाब्जं शंखपालं च कार्कोटगुलिकं तथा
एवमावरणादीनि पूजयेत्स्वस्वमंत्रकैः ९७
स्थापितस्य क्रमेणैव स्नापयेत्परमेश्वरम्
मन्त्रपुष्पं तदन्ते तु मन्त्रान्नं च निवेदयेत् ९८
मध्यमामध्यमं प्रोक्तं सर्वकर्मसु योजयेत्
पूर्ववत्सूत्रपातं च षट्सूत्रं भ्रामयेद्बुधः ९९
पूर्वादिषु चतुर्दिक्षु द्वारार्थं लोपयेत्ततः
स्थण्डिलं कल्पयेद्धीमान् पूर्वोक्तविधिना सह १००
अष्टषोडशसंख्याश्च ऋगाद्युत्तरविंशतिः
त्रिकाले च क्रमेणैव स्थाप्य सर्वान्प्रपूजयेत् १०१
तस्य मध्ये न्यसेत्कु म्भं तस्य वामे मनोन्मनीम्
स्वर्णरत्नसमायुक्तं पूर्ववत्पूजयेद्बुधः १०२
सर्षपं च तिलं बिल्वं मातुलुंगफलं तथा
लघुकु ष्ठं च कच्चोलं पुष्पं चैव तु दापयेत् १०३
अपामार्गं विष्णुक्रान्तिर्धूर्धूराश्वत्थकं तथा
प्रथमावरणे प्रोक्तविद्येशाः परिकीर्तिताः १०४
पुरुषः पुरुषश्चैव गोविन्दो वित्तनायकः
अदित्य शनिचन्द्राश्च तृतीयावरणे यजेत् १०५
स्थापितस्य क्रमेणैव स्नापयेत्परमेश्वरम्
मध्यमात्कन्यसं प्रोक्तं कन्यसोत्तममुच्यते १०६
पूर्वाग्रमुदगग्रं च द्विद्विसूत्रं प्रयोगतः
चक्रात्सूत्रं परिभ्राम्य तालान्तरे सूत्रकम् १०७
श्रुतिद्वारसमायुक्तं पूर्वं + लोपयेत्क्रमात्
स्थण्डिलं कल्पयेद्धीमान् कन्यसोक्तक्रमेण तु १०८
अष्टषोडशसंख्यैश्च क्रमेण स्थापयेद्गुरुः
मध्यमे शिवकु म्भं तु वर्धनीं तस्य वामके १०९
रत्नं वापि सुवर्णं वा निक्षिपेद्धृदयेन तु
पाद्यमाचमनं चार्घ्यं पंचगव्यं क्षिपेत्क्रमात् ११०
मधुकोष्ठं गुलं चैव सर्षपं च क्रमेण तु
कन्यसोत्तममित्युक्तं तन्मध्यममथोच्यते १११
पूर्ववत्सूत्रपातं च भ्रामयेत्तु त्रिसूत्रकम्
पूर्ववद्द्वारमेवं तु स्थण्डिलं पूर्ववद्गुरुः ११२
मध्यमे शिवकु म्भं तु तस्य वामे मनोन्मनीम्
अनन्ता दिशिखण्ड्यन्तान्प्रथमावरणे यजेत् ११३
द्वितीयावरणे चैव लोकपालांस्तथाष्टकान्
पाद्यमाचमनं चार्घ्यं पंचगव्यादिकं न्यसेत् ११४
सक्तुं भसितरात्रिं च मेघमेवक्रमेण तु
इतराण्यपि सर्वाणि पूर्ववत्परिकीर्तितम् ११५
कन्यसात्कन्यसं वक्ष्ये भ्रामयेत्तु द्विसूत्रकम्
मध्यमं शिवकु म्भं तु तस्य वामे मनोन्मनीम् ११६
आग्नेयादिषु कोणेषु अनन्तादिद्विकौ मतौ
उशीरं चन्दनं चैव कर्पूरं मेघमेव च ११७
शिवकु म्भे च वर्धन्यां स्वर्णपुष्पं च विन्यसेत्
एवं स्नपनमाख्यातं सर्वकाले तु योग्यकम् ११८
इति स्वायंभुवे स्नपनविधिपटलः १८