०९ नित्यपूजाविधिपटलः

अथातस्संप्रवक्ष्यामि नित्यपूजाविधिं शृणु
अष्टसंधिरहोरात्रौ निधनेशं श्रुतं मया १
संधिश्चतुर्विधः प्रोक्तः तदर्धद्वारपूजनम्
घटिकाद्वे भवेत्स्नानं घटिकैकार्चनं भवेत् २
तदर्धं नैवेद्य इत्युक्तं तत्संख्याहोममाचरेत्
अन्तर्बलिं तथा कृ त्वा घटिकार्धसमन्वितम् ३
परिवारबलिं दद्याद् यथाविधिपुरस्सरम्
घटिकैकप्रधूपादि तदर्धमुपचारकान् ४
एवमेव क्रमेणैव महासंधिश्च कथ्यते
उपसंधिश्च कर्तव्यं त्रिपादेन त्रिनाडिका ५
गणेशं देहलिं चैव दावसंख्या समर्चयेत्
पादाधिकैकनाडी स्यात् शम्भवे स्नानमेव च ६
अर्धनाडी निवेद्यं च धूपादीनैकनाडिके
वाद्यादि पादनाडी च उपसंधिश्च कथ्यते ७
अरुणसंधिसमारभ्य तत्पूजा चैव कथ्यते
भास्करस्योदयात्पूर्वे त्रिपादेन त्रिनाडिका ८
देहशुद्धिशुचिर्भूत्वा सकलीकृ तविग्रहः
महामण्टपमास्थाय पूजोपकरणायथा ९
एवं सर्वं समासाद्य शुद्धिं कृ त्वा महीतले
विघ्नेशं प्रार्थयेत्पूर्वं द्वारपान्पूजयेद्गुरुः १०
पूर्वलब्ध्वा कवाटं च नीत्वा हृदयमन्त्रतः
स्वरूपं प्रार्थयित्वा तु देवेशं प्रार्थयेद्गुरुः ११
शंखध्वनिसमायुक्तं देव्यालयं निवेशयेत्
द्वाररक्षान्समाहूय शीघ्रं नीत्वा कवाटकम् १२
देवदेवीं नमस्कृ त्य पूजां विज्ञाप्य देशिकः
स्थलिकोर्ध्वे समारोप्य वस्त्रैरावेष्टयेत्ततः १३
समर्थपरिचाराभ्यां शीघ्रं गत्वा समाविशेत्
मूललिंगे समायोज्य उपांगे दक्षिणे स्थितिः १४
शंनोदेवीति मन्त्रेण प्रत्यंगं नैरृतैः स्थितिः
शुद्धद्वारं च संप्राप्य विघ्नेशं देहलीन्यसेत् १५
लिंगशुद्धिं ततः कृ त्वा प्रासादेन तु मंत्रतः
क्षीराभिषेकं कर्तव्यं शुद्धतोयाभिषेचनम् १६
मृत्युंजयं समुच्चार्य अभिषेकं समाचरेत्
मूलमन्त्रमनुस्मृत्य मंत्रपुष्पं सुदापयेत् १७
पायसान्नं ददेत्पश्चाद् धूपदीपं ददेद्गुरुः
सकलादिष्टबेरेण पूर्वपुष्पं व्यपोह्य च १८
पायसं च निवेद्याथ निरोधापं ददेद्गुरुः
चण्डपूजा न कार्यं च उपसंधिरिति स्मृतः १९
प्रातः संधिविशेषेण सौरपूजाविधिं शृणु
इमां पूजां च कर्तव्यं बेरं वा च क्रमेण तु २०
त्रिकोणमध्ये परितः बिन्दुरूपं प्रकल्पयेत्
मायावृत्तकोणदेशे अग्रस्थं त्वष्टपत्रकम् २१
दीप्तमष्टाक्षरं चैव मातृकान्तु बहिर्न्यसेत्
वृत्ते वेदादि मायाभ्यां पतिरितस्सौर च क्रमः २२
प्राणायामत्रयं कृ त्वा प्रत्येकं दशमात्रकम्
रेचकं पूरकं चैव कु म्भकं च प्रदापयेत् २३
रेचकादित्रयं प्रोक्तं सर्वदोषनिवारणम्
प्राणायामपरं पुण्यं न भूतं न भविष्यति २४
गुरुप्रसादहीने तु तत्फलेनैव लभ्यते
प्रथमं तु करन्यासं अंगन्यासमतः परम् २५
पृथिव्यादीनि बीजांश्च शिवांगैश्च समन्वितम्
पश्चात्स्नातश्चतस्रोश्च त्रयश्च द्वयमेव च २६
फट्कारेण तु मन्त्रेण पंचग्रन्थिस्तु च्छेदयेत्
शून्यं सर्वं निरालम्बं प्रमेयमथ गोचरम् २७
अथानन्दवरं ज्ञेयं विज्ञानं के वलं स्थितम्
हृदयेन त्रयाभ्यस्य च्छयनात्तु निवेशनम् २८
अनादेवं यजेद्विद्वान् शिवे परमकारणे
योजयित्वाग्निना देहं दह्यमानं विचिन्तयेत् २९
भस्मीभूतमिदं ध्यात्वा प्लावयेदमृतेन तु
अधोमुखान्तममृतं स्रवन्तं चिन्तयेत्सदा ३०
प्रणवेन समायुक्तं श्वेतपद्मोपरि स्थितम्
कृ त्वा शिवतनुं ध्यायेद् अष्टत्रिंशत्कलामयम् ३१
शिवांगैश्चैव विद्यांगैर्यथास्थानेन विन्यसेत्
करन्यासः कृ तः पूर्वं अंगन्यासमतः परम् ३२
हुंफट्कारेण मन्त्रेण वामं सव्यं च शोधयेत्
कनिष्ठाद्यंगुष्ठान्तेषु हृदादिश्चोदिकान्तिषु ३३
पंचब्रह्मशिवांगैश्च न्यासधारणसंस्मृतम्
अष्टत्रिंशत्कलान्यासं मातृकान्यासमेव हि ३४
हृत्पद्मे कल्पयेद्देवं पंचब्रह्मकलामयम्
ब्रह्मांगं विन्यसेत्पूर्वं विद्यांगानि ततो न्यसेत् ३५
अंगुष्ठमात्रमचलं ध्यायेदोंकारमीश्वरम्
आसनानि च सर्वाणि तथैवाभरणानि च ३६
हृत्पद्मे कल्पयेद्विद्वान् यथोक्तं तु यथाक्रमम्
गन्धाद्यैरुपचारैस्तु मनसा कल्प्य पूजयेत् ३७
प्रणवार्घ्यं च संकल्प्य पंचवारं जपेद्बुधः
पूर्वास्यश्चोत्तरास्यो वा भानुं संपूजयेत्ततः ३८
दण्डिनं पिंगलं चैव गणेशं गुरुमेव च
प्रभूतासनमेवं च विमलावरमेव च ३९
सारासननमश्चैव आधाराधेयमेव च
सुखासनं परं प्रोक्तं पद्मासनमिति स्मृतम् ४०
कणिकाय नमो ध्यायै पूजयेत्तु यथाक्रमम्
दीप्तायै चैव सूक्ष्मायै उषायै च नमोन्तकम् ४१
भद्रायै च विभूत्यै च विमलायै नमोन्तकम्
अमोघायै च विद्युत्यै सर्वतो मुख्यमेव च ४२
गन्धपुष्पादिनाभ्यर्च्य मध्यादिशं करक्रमात्
दक्षिणेऽदक्षिणे चैव उषप्रत्युष एव च ४३
तदन्ते यासनं कल्प्य मूर्तिध्यानमनुत्तमम्
श्वेतारविन्दमध्यस्थं जपाकु सुमभासुरम् ४४
भास्वद्रुचिरसंकाशं तेजो मण्डलक्रमम्
गजासक्तसमुत्पुप्ल्यं बनालाब्जद्विहस्तकम् ४५
एकवक्त्रं रविं ध्यायेत् रक्तवस्त्रं द्विनेत्रकम्
मूर्तिमूर्तिं च विन्यस्य आवाहनादिमुद्रया ४६
धेनुमुद्रां महामुद्रां पद्ममुद्रां प्रदर्शयेत्
विस्फु रा मुद्रया चैव बिम्बमुद्रां च दर्शयेत् ४७
गोविषामुद्रया चैव आसनं चैव दर्शयेत्
वामादीनि च विन्यस्य हृदयादीनि विन्यसेत् ४८
हृदयं च शिरश्चैव शिखा कवचमेव च
नेत्रमस्त्रषडंगानि तन्मन्त्रेण क्रमेण तु ४९
पूर्वे सोमं च कर्तव्यं दक्षिणे बुधमेव च
पश्चिमे तु गुरुः पूज्य उत्तरे भार्गवं यजेत् ५०
अंगारकः शनैश्चरो राहुः के तुस्तथैव च
आग्नेयादिषु कोणेषु अर्चयित्वा यथाविधि ५१
गन्धपुष्पादिनाभ्यर्च्य धूपदीपं ददेद्गुरुः
अन्ते चण्डाय कर्तव्यं मानसं मूर्तिमूलकैः ५२
मण्डपस्योत्तरे भागे पूर्वे वा पश्चिमेऽपि वा
ऐशान्ये वाथ कर्तव्यं रुचिरासनसंस्थितम् ५३
विशेषार्घ्यं च संकल्प्य सकली कृ तविग्रहः
गणानां त्वेति मन्त्रेण गणेशं दक्षिणे यजेत् ५४
वामे वथ प्रकर्तव्यं विघ्नेशं प्रार्थयेद्गुरुः
चतुरश्रं स्थण्डिलं कृ त्वा हस्तमात्रेण शालिभिः ५५
द्रोणाद्य ++ कान्तानि उत्तमा मध्यमाधमा
तन्मध्ये नलिनं लिख्य दर्भैः पुष्पैः परिस्तरेत् ५६
शिवगायत्रिमन्त्रेण स्थण्डिलं पूजयेत्तदा
तन्मध्ये वर्धनीं स्थाप्य कू र्चं तत्रैव विन्यसेत् ५७
दर्भद्वयं तु संग्राह्य द्वादशांगुलमानतः
आचार्यं दक्षिणे हस्ते अनामिकं तु बन्धयेत् ५८
प्राणायामत्रयं कृ त्वा प्रणवेन समन्वितम्
वामहस्ते तु संयोज्य दक्षजानूपरि न्यसेत् ५९
एतत्कर्म करिष्यामि दर्भो मां समुद्धरेत्
जलोपस्पर्शनं कृ त्वा दर्भौ दत्वा तु देशिकः ६०
पात्रमुद्धारणं कृ त्वा गन्धतोयेन पूरयेत्
आपो वा इति मन्त्रेण अस्त्रेणैवाथ कारयेत् ६१
ब्रह्मा विष्णुश्च रुद्रश्च नन्दिकालौ तथैव च
पूर्वाद्युत्तरपर्यन्तं स्वस्वनामेन पूजयेत् ६२
गंगा च यमुना चैव गोदावरी सरस्वती
नर्मदा सिन्धु कावेरी जले स्मिन्संनिर्भव ६३
स्वस्वमन्त्रैः समभ्यर्च्य गन्धपुष्पैश्च पूजयेत्
शिवतण्डुलमुत्कृष्टं मध्यमं तु तदर्धकम् ६४
द्विप्रस्थमधमं प्रोक्तं तन्मूलै रुन्धिसंनिभैः
कांस्यपात्रं तु संस्थाप्य ताम्बूलं फलसंयुतम् ६५
ब्रह्मदिक्फलसंयुक्तं दर्भपुष्पसमन्वितम्
स्थलिकायां चन्द्रमभ्यर्च्य तण्डुले तारकानपि ६६
पुण्याहं वाचयिष्येंति भवद्भिः पादपूर्वकम्
प्रागु + वाचयित्वा तु वाच्यतामिति विप्रतान् ६७
आपः प्रयुजदाचार्यः शिवोपो द्विब्जवाचकम्
गन्धा चैव तु आचार्यं सुगन्धा प्रतिवाचकम् ६८
देशिकस्सुमनश्चैवे सौमनस्यं च विप्रकाः
अक्षतोशोदकं चैव विप्रैस्तु प्रतिवाचकम् ६९
अन्वाहार्यस्तथा मंत्री अस्तु विप्रैश्च वाचकम्
देशिकस्तु जपित्वा तु जपेयुर्ब्राह्मणैस्सह ७०
वर्धनी धृक्समुद्धृत्वा ऊर्ध्वे तण्डुलपत्रके
देशिको दक्षिणां दत्वा विप्रैस्तु प्रतिवाचकम् ७१
बहुदेवस्तुतो मन्त्री सोऽन्वाहार्योऽस्तु विप्रकाः
मनस्समाधीयतेत्यादि ब्राह्मणैः प्रतिवाचकम् ७२
प्रीयतां देवमित्युक्त्वा प्रियाम ब्राह्मणोत्तमाः
यदेवेदिति पुण्याहं सदैव प्रियतामिति ७३
स्वस्ति मध्येति यत्कर्म तत्कर्म स्वस्तिवाचकम्
साधकः स्वस्ति चोद्वातु अस्तु तत्कर्मविप्रकाः ७४
ऋद्धिवाचकमाचार्य ऋध्यातामिति विप्रकाः
घ्राणेन स्रावयेत्तोयं पूर्व वा चोत्तरो भुवि ७५
तेनैव राक्षसाद्याश्च तृप्तिमाप्नोति तो ध्रुवम्
स्थापयेत्स्थण्डिलोर्ध्वे तु पुनश्चासनमर्चयेत् ७६
आपोहिष्ठेति मन्त्रेण हिरण्यं पवमानकम्
जपान्ते शान्तीत्युक्त्वा धूपदीपादिनार्चयेत् ७७
एवं क्रमेण पुण्याहं पंचगव्यं च कथ्यते
शालिभिः स्थण्डिलं कृ त्वा नवकोष्ठसमन्वितम् ७८
पूर्वाग्रं चोत्तराग्रं च भूतसूत्रप्रयोगतः
मध्ये चतुष्पदं त्वेकं पूर्वादिद्विद्विकं पदम् ७९
आग्नेयादीश पर्यन्तं एकैकं पदमेव हि
मध्यमे शिवतत्वं तु पूर्वकोष्ठं सदाशिवम् ८०
विद्यातत्वं तु साक्षिण्यं पुरुषं तत्तथोत्तरे
पश्चिमेकाग्र तत्वं तु ++++ पृथिवी ततः तन्तु पावके
८१
अंसरं निरृतिकोष्ठं च वायुतत्वं मरुत्क्रमात्
ईशे प्रकृ तितत्वं च गन्धपुष्पादिनार्चयेत् ८२
सुप्रतिष्ठां स्वशान्तं च तेजो अग्रत पत्रकम्
कर्तव्यं च यथान्यासं कत्स्नस्थानं प्रकल्पयेत् ८३
क्षीरं दध्या घृतं गोमूत्रं गोमयाद्यैः क्रमेण तु
सुप्रतिष्ठेति कर्तव्यं मूलमन्त्रेण योजयेत् ८४
मथनं त्रिप्रदानं च सावित्रं च जपेद्बुधः
धूपदीपसमायुक्तं दर्भैराच्छाद्य देशिकः ८५
शालिभिः स्थण्डिलं कृ त्वा पंचकोष्ठं समालिखेत्
पूर्वाग्रमुत्तराग्रं च द्विद्विसूत्रं प्रदापयेत् ८६
पूर्वाद्युत्तरपर्यन्तं सूत्राग्रे तिर्यथा लिखेत्
मध्यमे के शवं चैव श्रीभूमिभ्यां च पूजयेत् ८७
शतक्रतुं शचीं चैव विपुलं चैव पूर्वके
कालकण्ठी पतिं चैव नीलिं चैव तु दक्षिणे ८८
पश्चिमे वरुणं चैव स्वादिनी हरणी तथा
उत्तरे धननाथं च विरुध्यै निरृध्यै सुपूजयेत् ८९
रुद्रमासनमूर्तिं च मध्यपात्रे सुपूजयेत्
विधेरासनमूर्तिं च पूर्वपात्रे यजेत्ततः ९०
विष्णोरासनमूर्तिं च दक्षिणे पात्रमध्यमे
गणेशमूर्तिमूलं च उत्तरे पात्रमध्यमे ९१
स्कन्दमासनमूर्तिं च पश्चिमे पात्र मध्यमे
ईशानस्य तु मन्त्रेण क्षीरपूर्वे तु विन्यसेत् ९२
ब्रह्माधिपस्य मन्त्रेण दधिदक्षिणपात्रके
शिवो मे इति मन्त्रेण मधु उत्तरपात्रके ९३
तत्तद्द्रव्यं च कर्तव्यं पंचब्रह्मेण पूजयेत्
शिवगायत्रिमंत्रेण तत्तद्द्रव्ये जपेद्गुरुः ९४
स्थापितस्य क्रमेणैव शर्क रां मध्यमे न्यसेत्
ईश्वरस्यानु मन्त्रेण स्नापयेत्परमेश्वरम् ९५
धूपदीपसमायुक्तं तोयं स्नानान्तरान्तरे
द्रव्याण्येतानि सर्वाणि प्रतिप्रस्थं विशेषतः ९६
पादहीनं तु मध्यं स्यात् मध्यहीनं विन्यसम्
कामिके नैमित्तिके चैव यथालिंगं प्रयोजयेत् ९७
पात्रे पर्यन्तु शेषाणां प्रोक्षयेत्पुरुषेण तु
शुद्धद्वारं च संप्रोक्ष्य गणेशं पूर्वद्वारके ९८
गणेशं प्रार्थयेद्धीमान् निर्विघ्नं त्वं प्रसीद मे
पतंगं च भुवंगं च विघ्नेशं च सरस्वतीम् ९९
महालक्ष्मीं नन्दिनं च गंगां महाकालिमेव च
यमुनां वृषभं चैव विमलं च सुबाहुकम् १००
श्रीदेवीमस्त्रराजं च ब्रह्मणे ज्ञानशक्तिका
क्रियाशक्तिं हृदिं चैव ईशाने अस्त्रराजका १०१
घण्टां तु ताडयेद्धीमान् अस्त्रमंत्रमनुस्मरन्
पादांगुष्ठेन कर्तव्यं भूमिमन्त्रेण कारयेत् १०२
दक्षिणं पादमुद्धृत्य मण्टपान्तः प्रवेशयेत्
निर्माल्यं तु विसृज्याथ अनन्तासनमर्चयेत् १०३
गन्धतैलं च संस्नाप्य पिष्टामलनमर्दयेत्
रजनीं मुद्गचूर्णं च धर्षयेत्तु पुनः पुनः १०४
ऋगाद्यध्ययनं कु र्यात् भूसुरान्युग्मसंयुतान्
शुद्धतोयेन सुस्नाप्य शिवगायत्रिमंत्रतः १०५
पंचगव्यं तु संस्नाप्य शिवबीजमनुस्मरन्
पंचामृतेन संस्नाप्य दशबीजमनुस्मरन् १०६
शुद्धतोयेन संस्नाप्य प्रासादं मन्त्रमुच्चरन्
आसनं कल्पयेद्विद्वान् कल्पयेत्तु विचक्षणः १०७
आधारं शक्तिमुख्यातं कन्दमंकु रमेव च
नालं च मुकु लं चैव अनन्तं वासुकिं तथा १०८
तक्षकं अम्बुकं चैव महाब्जं शंखपल्लकम्
कार्कोटं गुलिकं चैव अनन्तासनमिष्यते १०९
धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च चतुर्विधम्
अधर्मा ज्ञानावैराग्यं अनैश्वर्यं तथा भवेत् ११०
सिंहासनमिति प्रोक्तं योगासनमथोच्यते
कृ तत्रेतायुगं चैव द्वापरं च कलिर्युगे १११
अव्यक्तं के शवं चैव नियतिं कालमेव च
कालायै चैव कर्तव्यं मूर्ध्नि मूर्ध्निमनन्तु वा ११२
योगासनमिति प्रोक्तं विमलासनमुच्यते
दलं च के शवं चैव कर्णिका बीजमेव च ११३
वामादिशक्ति चक्राष्टौ मनोन्मन्यन्तमेव च
आत्मविद्या शिवे तत्वं पद्मासनमिहोच्यते ११४
अष्टत्रिंशत्कलान्यासं मातृकान्यासमेव च
विद्यादेहं च संकल्प्य मुंद्रा ++ दर्शने च्छिवम् ११५
मूलेनाबाह्य विज्ञाप्य पाद्यादीन्दापयेच्छिवम्
वस्त्रेणोद्वर्तनं कु र्यात् लिंगपीठं विशेषतः ११६
तदन्ते मन्त्रपुष्पं च पतिमन्त्रेण योजयेत्
मन्त्रान्नं च निवेद्याथ शिवमंत्रमनुस्मरन् ११७
धूपदीपसमायुक्तं हृदयेन प्रदापयेत्
वस्त्रमाभरणं चैवं अलंकृ त्य विशेषतः ११८
अर्क चम्बकबिल्वैश्च नन्द्यावर्तं च पाटली
करवीरं चम्पकं च नीलोत्पलमथाष्टकम् ११९
पीठमूर्तिशिवांगानां पूज्यं स्यादष्टपुष्पकम्
पंचावरणमार्गेण अर्चयित्वा स्वनामतः १२०
ईशतत्पुरुपाघोरनामसद्यक्रमेण तु
अम्बां सरस्वतीं चैव तत्तन्नाम्ना प्रपूजयेत् १२१
चतुर्थे वज्रं शक्तिं च खड्गं पाशांकु शं तथा
गदां त्रिशूलं चक्रं च पद्मं चेति च कथ्यते १२२
प्रसन्नयां च कोपायां गुणात्यै चैव कोमलम्
विषात्मी विकृ तामान्त्री गदा चैव महात्मिका १२३
मंगलायै च कर्तव्यं स्वस्वनाम्ना समर्चयेत्
पंचावरणं ॥ शक्तिमंत्रम् ॥ ब्राह्म्यै नम इत्यादि १२४
+द्येशानां दलाग्रेषु पीठकस्यगणेश्वरम्
पीठपादेषु इन्द्रादी तदस्त्राणि शिवोपरि १२५
वस्त्रमाभरणं चैव अलंकृ त्य विशेषतः
सकलादिषु बेराणि युक्ति स्नानमाचरेत् १२६
गन्धपुष्पैस्समभ्यर्च्य स्वस्वमन्त्रैः समर्चयेत्
तदन्ते गणेशनैवेद्यं गणानां त्वेति मंत्रतः १२७
शाम्भवीमन्त्रमुच्चार्य शिवाय च निवेदयेत्
अहमस्मीति मन्त्रेण भूसुरेण जपेत्ततः १२८
आचमनं च कर्तव्यं अंभसा च निवेदयेत्
सकलादिषु कर्तव्यं निवेद्यं तु यथा क्रमम् १२९
अम्बीगणाम्बि गंगा च गौरी चैव उमापतिः
हृदयं च शिरश्चैव शिखा कवचमेव च १३०
नेत्रसूत्रां च कर्तव्यं शक्तीनां तु ततः परम्
वामी नीली च चक्रांगी पाशांगी खड्गगंहिका १३१
प्रथमम्
अनन्तेशस्तथा सूक्ष्मः शिवोत्तमश्चैकनेत्रकः
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः १३२
भूमिस्वहृदतथाक्षान्त्यै प्रभा पुष्टिः श्रुतिस्तथा
महाकालपदन्त्यैश्च भृंगिणं ह्लादिनी यजेत् १३३
चण्डेशरूपिणी चैव स्वस्वनामेन पूजयेत्
तृतीयं
इन्द्रशक्तिं च विपुलं अग्निः स्वाहा स्वधा तथा १३४
यमाय कालकण्ठी च नील्यै च निरृतिस्तथा
जातायै च सुके शिन्यै वरुणो ह्लादिनी तथा १३५
हर्षिण्यै चैव कर्तव्यं वायव्ये माष्टिकं तथा
अंगदायै च सोमश्च ऋद्धिश्चैव निवृत्तयेत् १३६
ईशानश्च जिताश्चैव स्वस्वरूपिणिमेव च
विष्णुः श्रीभूमि सहित ब्रह्मा सावित्रमेव च १३७
नित्याग्नियजनं कु र्यात् ऐशान्ये सौम्य एव च
आग्नेय्यां तु विशेषेण कु ण्डे वा स्थण्डिलेऽपि वा १३८
प्रथमं शोधयेत्कु ण्डं पंचसंस्कारमाचरेत्
निरीक्षण प्रोक्षणं च खननोद्धारणं तथा १३९
सेचनं च क्रमेणैव अस्त्रेणैव तु बुद्धिमान्
अग्निबीजमनुस्मृत्य अग्निं प्रज्वाल्य देशिकः १४०
परिस्तरणपरिधी द्वौ देवस्य त्वादि मन्त्रकैः
आज्यसंस्कारकं पंच स्रुवसंस्कारमेव हि १४१
परिषेचनं ततः कृ त्वा अदितेन्वादिमन्त्रकैः
व्याहृदं होमयेत्तत्र इध्मं पंचदशं हुनेत् १४२
देशेध्मं वाथ कर्तव्यं पतिमंत्रं विशेषतः
आज्यं हुत्वा हृदामंत्री हविषं चैव हूयते १४३
प्रत्येकं दशसंख्या च सप्तसंख्याभिरेव वा
ब्रह्मांगं च ततो हुत्वा पूर्णाहुतिमथाचरेत् १४४
प्रणीता पात्रसहित ब्रह्मकू र्चं विना चरेत्
त्रिकालं वा द्विकालं वा एककालमथाचरेत् १४५
यावन्मूलोपचारेण तावदग्निं प्रपूजयेत्
ओं पूर्वादीश्वरादिभ्यो दिगीशान्भूतमात्रतः १४६
गणेन्द्रक्षेत्रपालादिग्भ्यः स्वाहा
वह्नेर्बीजं समादाय मूललिंगेषु योजयेत
बलिबेरं समभ्यर्च्य विज्ञापनमथाचरेत् १४७
तत्काले भेरिकायां तु ताडयेत्परसंस्मृतः
सर्ववाद्यसमायुक्तं वीणारवसमन्वितम् १४८
द्वारस्य दक्षिणे भागे नन्दिनं बलिमाचरेत्
वामभागे महाकालं स्वस्वमन्त्रेण दापयेत् १४९
मातृणां चण्डवाद्यं च विघ्नेशस्य तु संकरी
षण्मुखं कटतालेन ज्येष्ठायां पुन्नितालकम् १५०
तटप्रहारदुर्गायां विषनच्छन्नचण्डकैः
प्रथमे च महापीठे भास्करं बलिमानतः १५१
गोपुरद्वारपार्श्वे तु दण्डिमुण्डिबलिं ददेत्
वृषस्य वृषतालं च इन्द्रस्य यमतालकम् १५२
गान्धारं भुजगनृत्तं च आग्ने बद्धावरणं तथा
कोल्लिस्वस्त्यकृ तं चैव भृंगिण्यां कौशिकं तथा १५३
दण्डपालं च कर्तव्यं धर्मराजबलिं ददेत्
निरृतेर्मल्लितालं तु नट्टभाषा यथा कु रु १५४
भुजंगत्रासनृत्तं च बलिं दद्यात्स्वनामतः
वारुणे नवतालं च श्रीकामममिति स्मृतम् १५५
वर्तनीनृत्तमाख्यातं बलिं दद्यात्क्रमेण तु
वायव्येबलितालं च तक्के शी भूमशी भृशम् १५६
कोटिकन्दर्क रागं च आलीढं नृत्तमेव च
धननाथ स्वमन्त्रेण बलिं दद्याभिधीयते १५७
ईशाने संकरी चैव शालापाणि भुगंजकम्
विष्णुब्रह्मा च कर्तव्यं वज्रादीनां बलिं ददेत् १५८
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा
अविघ्नो विघ्नकर्तारं षडेते भूतनायकम् १५९
शामधी मेघरागं च भुजंगत्रासनृत्तकम्
बलिदानं च कर्तव्यं विशेषं कथ्यतेऽधुना १६०
साला मण्टपयुक्तं चेद् अन्तस्थं परिचारकम्
बाह्ये पीठं च संस्थाप्य बलिं तत्रैव कारयेत् १६१
अथ चाघोरपीठं च बाह्ये स्थापनमाचरेत्
पीठयोगं च कर्तव्यं क्रमयोगमथापि वा १६२
वदन्ति योगे विशेषेण ब्रह्मा विष्णुर्विना चरेत्
दण्डमुण्डवृषं चैव भास्करस्य बलिं विना १६३
महापीठं च कर्तव्यं आमोदाद्यष्टमूर्तयः
आमोदं पूर्वभागे तु आग्नेय्यां तु प्रमोदकम् १६४
सुमुखं दक्षिणे चैव दुर्मुखं नैरृते तथा
अविघ्नं पश्चिमे भागे सात्विको वायुदर्शदा १६५
तामसं सौम्यदिग्भागे ऐशान्ये राजसं भवेत्
विघ्नकर्तारमूर्ध्ने तु स्वस्वनाम प्रदापयेत् १६६
गीतनृत्तसमायुक्तं बल्यन्ते वा विशेषतः
शनैः प्रदक्षिणं कृ त्वा प्रविशेदालयं प्रति १६७
पादप्रक्षालनं कृ त्वा पूर्वस्थाने निवेशयेत्
पाद्यमाचमनं चार्घ्यं अपूपादि निवेशयेत् १६८
आरात्रिकं च कर्तव्यं भस्मानं दापयेत्तदा
मूलदेवं च संप्राप्य धूपदीपं ददेत्क्रमात् १६९
ताम्बूलं दर्पणं चैव छत्रं चामरमेव च
व्यजनादीनि सर्वाणि हृदयेन प्रदापयेत् १७०
ऋगादीनि पुराणान्तं विज्ञापनं च भूसुरान्
नृत्तगीतं च वाद्यं च गणिका पारशं स्मृतः १७१
दशोपचारं कर्तव्यं महेशस्य प्रदापयेत्
परिवाराणि सर्वाणि धूपदीपं ददेद्गुरुः १७२
भस्मानं दापयेत्पश्चात्परिवाराणि दापयेत्
मध्याह्नपूजा कर्तव्या देशनाड्याधिकं भवेत् १७३
पूर्वस्थानेषु कर्तव्यं पुनः पुण्याहमाचरेत्
विभवश्चेद्विशेषेण पंचगव्यं च पूर्ववत् १७४
पंचामृतं पुराकृ त्वा स्नपनं पूर्ववामनः
द्वारादीनां च संपूज्य पूर्वमेव सुभाषितम् १७५
अभिषेकं तथा कृ त्वा पूर्वोक्तविधिना तथा
नैवेद्यं च प्रदातव्यं सकलादि निवेदयेत् १७६
वैश्यहोमं तु कर्तव्यं बलिदानं तु पूर्ववत्
धूपदीपं ददेत्पश्चाद् उपचाराणि कारयेत् १७७
महेशमूर्ति व्य ++++ धूपदीपं ददेद्गुरुः
परिवाराणि सर्वाणि नैवेद्यं च प्रदापयेत् १७८
तदन्ते +++ पूजां च तद्भेदमसुषु सुव्रतम्
होमभूमिं त्यजेद्यत्नाद् द्विपादं च चतुष्पदम् १७९
मणयो रत्ननिचयं वेबस्वं परिकीर्तितम्
लेह्यशोषणपानादि ताम्बूलं स्रग्विलेपनम् १८०
निर्माल्यं तेजिने तुभ्यं पदं तन्तु शिवाज्ञया
चण्डेशाय प्रदातव्यं शुद्धतोयाभिषेचनम् १८१
तदर्घ्यं च समादाय चण्डेशाय निवेदयेत्
धूपदीपं हृदा दत्वा भस्मानं दापयेत्ततः १८२
सायाह्ने तु प्रकर्तव्यं सायरक्षां समा भवेत्
अस्तमेयं समारभ्य एकद्वित्रि च नाडिका १८३
नृत्यन्तमृत्याग्रपार्श्वे तु सन्ध्यानृत्तं च वादयेत्
देवालये विशेषेण तत्काले ज्वलदीपकैः १८४
मण्डपस्यैशदिग्भागे दक्षिणे वाथ कारयेत्
अग्रे वाथ प्रकर्तव्यं स्थण्डिलं कल्पयेत्स्थली १८५
कृ त्वा तु हुतपात्राणि संग्राह्यात्रैव विन्यसेत्
शालिपिष्टमयेंनाथ दीपाराधं च कल्पयेत् १८६
देशिकस्सकली कृ त्य पुण्याहं तत्र कारयेत्
अग्निम् हुत्वा विशेषेण दीपं संग्राह्य बुद्धिमान् १८७
शालिभिः स्थण्डिलं कृ त्वा तन्मध्ये नलिनं लिखेत्
दीपधारं न्यसेन्मध्ये महालक्ष्मीं प्रपूजयेत् १८८
आदिबीजं समुच्चार्य एकपादं तिलं न्यसेत्
सर्षपं चैव पात्रेषु महाबीजमनुस्मरन् १८९
राजिकालवणं कल्प्य एकपात्रे सुसंभृतम्
कार्पासबीजमेकं तु बीजमुख्यमनुस्मरन् १९०
एकपात्रं तु कर्तव्यं निम्बं पत्रं च गुह्यकम्
प्लावयेत्तु महाशासु पूर्वभागे द्विपात्रकम् १९१
तत्तन्मंत्रेण संप्रोक्ष्य दीपं तत्र प्रपूजयेत्
मूललिंगे च संप्राप्य पाद्यमाचमनार्घ्यकम् १९२
धूपदीपं हृदा दत्वा नेत्रमन्त्रमनुस्मरन्
आरात्रिका त्रिधा भ्राम्या शिखामन्त्रेण बुद्धिमान् १९३
वादित्रलयसंयुक्तं गणिका नृत्तमाचरेत्
द्रव्याण्यथ क्रमेणैव आवृत्य वृत्य लिंगके १९४
भस्मानं दापयेच्छंभोः दिग्बन्धं चास्त्रमन्त्रतः
दर्पणादीनि सर्वाणि दर्शयेत्तु यथाक्रमम् १९५
तिलादिनिम्बपात्रान्तं तदग्नौ निक्षिपेत्ततः
मद्गणिका गणिकावाग्र विहाय दीपपात्रकम् १९६
सर्ववाद्य समायुक्तं बलिपीठाग्रके क्षिपेत्
सकलादिषु बेराणि धूपदीपं ददेद्गुरुः १९७
सर्वभक्ताश्च सर्वाश्च भस्मानं दापयेत्ततः
लिंगाग्रे वा प्रकर्तव्यं महेशाग्रे विशेषतः १९८
स्तुतिगीतं च वाद्यं च तोषयेच्छम्भुमादरात्
दीपपूजावसाने तु निशि पूजां समाचरेत् १९९
पूर्ववद्वारमभ्यर्च्य लिंगशुद्धिं ततः कु रु
आसनावरणादीनि पूर्ववत्कल्पयेद्बुधः २००
निवेद्यादीनि चण्डान्तं पूर्ववत्सम्यगाचरेत्
अर्धयामं च कर्तव्यं आचार्यं सकलीकृ तम् २०१
पुण्याजिनं पुनः कृ त्वा पंचामृतं च कल्पयेत्
फलानि रसवस्तूनि स्नानद्रव्यं च कारयेत् २०२
द्वारं पूर्ववदभ्यर्च्य स्नानं पूर्ववदाचरेत्
शुद्धान्नं व्यंजनोपेतं पायसान्नमपूपकम् २०३
ताम्बूलं मुखवासं च तत्तन्मन्त्रेण दापयेत्
धूपदीपसमायुक्तं उपचारैश्च पूर्ववत् २०४
महेशं नृत्तमूर्तिं च नैवेद्यं दापयेत्ततः
आचमनं च कर्तव्यं ताम्बूलं दापयेत्ततः २०५
भोगांगं च ततः कु र्यात् शिवं विज्ञाप्य देशिकः
पादुकौ च समाराध्य स्थलिकामध्यमे न्यसेत् २०६
रथे वा शिबिकायां वा आरोप्याच्छाद्य वस्त्रकैः
वस्त्रं शस्त्रं तथा पुष्पं गन्धादीन्संग्रहेत्ततः २०७
गेयनृत्तसमायुक्तं शंखकाहलघोषकैः
वेदध्वनिसमायुक्तं गणिकादिभिरावृतम् २०८
तालवृन्तसमायुक्तं मृदुगत्या विशेत्ततः
पादप्रक्षालनं कृ त्वा आलयं तु प्रवेशयेत् २०९
भोगांगस्थानदेश स्यात् देव्यानुग्रहकारणम्
मण्डपे शयनं कल्प्य क्षेमाध्वे पंचतल्पयेत् २१०
अण्डजान्यैस्तु संकल्प्य ऊर्ध्वदाभुच्छादनस्तु वा
शस्त्रं तस्योपरिन्यस्य वस्त्रगन्धसुपुष्पकम् २११
अधस्तात्पादरक्षं तु विन्यसेत्पादपीठकैः
एवं न्यस्त्वा क्रमेणैव देवीमावाहयेद्गुरुः २१२
पयो दधिसमायुक्तं शुद्धान्नं व्यंजनैर्युतम्
सर्वोपचारैः संपूज्य संक्रमेणैव बुद्धिमान् २१३
अथवा पूपभक्ष्यादीन् दापयेत्तु शिवाय च
गौरीसूक्तेन संयोज्यं ताम्बूलं दापयेद्धृदा २१४
धूपदीपं समायोज्य भस्मानं दापयेत्ततः
पुष्पांजलिं ततः कृ त्वा क्षिपेद्यवनिकां तथा २१५
तदन्ते क्षेत्रपालस्य पूजनं सम्यगाचरेत्
द्विरपार्श्वे तु कर्तव्यं आनन्दं मण्डभैरवम् २१६
वारुणे पूर्वदिग्भागे अर्चयित्वा विशेषतः
क्षेत्रपालं च संस्नाप्य मूलैरभ्यर्च्य मूलतः २१७
तत्तद्धृदादि मन्त्रेण न्यासं कृ त्वा विचक्षणः
पूर्वादीशानपर्यन्तं मण्डजाद्यष्टमूर्तयः २१८
अण्डमाण्डं च विकृ तं प्रहोदरं कालभैरवम्
कपालं नागमेवं च कोपमित्यभिधीयते २१९
इत्येतेनैव कर्तव्यं नैवेद्यं धूपदीपकम्
घोषयेत्सर्ववाद्यैश्च पार्थयित्वा विशेषतः २२०
स्वामिन् क्षेत्रपालेश +++ ध्यान्याश्च रक्षयेत्
उद्वास्य सर्वमर्त्याश्च गृहं प्रति विशेषतः २२१
इत्येवं पूजनं कु र्यात् शिवसांनिध्यकारणम्
तस्मात्सर्वप्रयत्नेन इमां पूजां समाचरेत् २२२
अथार्चनं प्रवक्ष्यामि निर्मितं निधनेशन
वश्यार्थं च जयार्थं च लोकानुग्रहकारणम् २२३
अष्टपत्रदलं वापि चक्रमेव विधीयते
शूलादिलोहजं चैव चन्द्रवैरं च कथ्यते २२४
पूर्वास्यः पश्चिमास्यो वा स्नापयेन्निधनेश्वरम्
मण्डकर्पं वापि तन्मध्ये विन्यसेद्बुधः २२५
षडार्थं मानसं प्रोक्तं तन्मध्ये चन्द्रमूर्तिनम्
अधस्थादीनि कर्तव्यं के सरे सुप्रकल्पयेत् २२६
प्रागाद्यष्टदलेष्वादौ रोहिणीकृ त्तिके तथा
रेवती भरणी चैव रात्री आर्द्रां तथैव च २२७
कालायै च कलायै च पूर्वादिक्रमशो यजेत्
सूर्यं चैव बुधं चैव बृहस्पतिं भार्गवं न्यसेत् २२८
आग्नेयादिषु कोणेषु कर्णिकामूलमाश्रितः
अंगारको यती चैव राहुके त्वितनुं भवेत् २२९
पूर्वादिलोकपालाश्च यथा स्थाने भवेत्क्रमात्
मूर्तिमंत्रमनुस्मृत्य मूर्तिमावाह्य देशिकः २३०
रोहिणी कृ त्तिका चैव दक्षिणे दक्षिणे न्यसेत्
सूर्यपूजावसाने तु चन्द्रपूजा विधीयते २३१
शिवपूजावसाने तु महेशादीनि पूजयेत्
एककालं द्विकालं वा पूजयेत्तु यथाविधि २३२
स्वयप्रदानं कर्तव्यं उत्सवादिशिवोत्तमः
सांगं चेत्तु विशेषेण परिवारोक्तक्रमेण तु २३३
इत्युत्तरस्वायंभुवे प्रतिष्ठातन्त्रे नित्यपूजाविधिपटलः १७