अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम्
स्नानं वैदिकशैवं च तर्पणं सूर्यतर्पणम् १
हीनं चेन्मलवृद्धिः स्याद् श्वानजन्मावलभ्यते
घोरं पाशुपतं चैव अष्टोत्तरशतं जपेत् २
पुनः स्नानादिकं कृ त्वा तत्तन्मन्त्रेण योजयेत्
आर्द्रवस्त्रसमायुक्तं शिवसन्धिविहीनकम् ३
सौरपूजाविहीनं च कु ष्ठरोगादिकं भवेत्
यावत्क्रियाविघ्नमाप्नोति सुप्नन्त्येतान्न संशयः ४
तत्तद्बीजं जपेद्धीमान् पंचविंशतिसंख्यया
गणेशं गुरुपूजां च पूर्वोक्तविधिना सह ५
पुण्याहोऽत्र विहीनं चेत् स्थानशुद्धिं च कारयेत्
पंचगव्यविहीनं तु तत्क्रमं विपरीतकम् ६
लिंगशुद्धिविहीनं तु पुत्रसौभाग्यहीनकम्
प्रतिमन्त्रं जपेद्धीमान् पुनः कर्म समाचरेत् ७
पंचामृतविहीनं च क्षुधे च क +++ भवेत्
शिवमन्त्रं जपेद्धीमान् पुनः पंचामृतं भवेत् ८
पाद्यादीनि विहीनं तु महामारी प्रकोपनम्
प्रासादबीजमेवं तु पंचविंशति संख्यया ९
पूर्वद्रव्ययुतं पाद्यपाद्यादीनि ग्रहेत्ततः
वारपूजाविहीनं च लोके दुर्भिक्षमेव च १०
नन्दिमन्त्रादिमंत्रं च अष्टोत्तरशतं जपेत्
पुनर्द्वारं समभ्यर्च्य द्वारदेवान्सुपूजयेत् ११
लिंगशुद्धिविहीनं च आसनेन विहीनकम्
अभिषेकविहीनं च सकलीकरणहीनकम् १२
मन्त्रपुष्पविहीनं च अष्टपुष्पविहीनकम्
मन्त्रान्नं हीनमेव स्यात् पर्जन्यं तु विसर्जयेत् १३
शान्तिहोमं च कर्तव्यं पतिपन्नं जपेच्छतम्
तत्क्रियां पुनरेवोक्तक्रमेणैव यथाविधि १४
आभरणार्चनाहीनं वस्त्राभरणहीनकम्
गन्धपुष्पविहीनं च नित्यं शुद्धिविहीनकम् १५
निर्माणदीपहीनं च इति दोषं च संभवेत्
शिवगायत्रिमन्त्रेण पंचविंशतिसंख्यया १६
घृतस्नानं च कर्तव्यं पूर्ववत्सम्यगाचरेत्
गव्यार्चनविहीने तु सकलनिर्माल्यहीनकम् १७
परिवारार्चने हीने महाज्वरमवाप्नुयात्
मृत्युंजयं शतं जप्त्वा शान्तिहोमेन शाम्यति १८
पुनरर्चनमेवोक्तं यथावित्तानुसारतः
पचनालयपूजां च पुल्लीपूजाविहीनकम् १९
काष्ठशुद्धिविहीनं च तन्मूलक्वालहीनकम्
++ शाश्शुद्धिविहीनं च स्थलिका शुद्धिहीनकम् २०
शंखध्वनिविहीनं च छत्रदीपविहीनकम्
आच्छादनविहीनं च पक्षिणा दर्शनं तथा २१
नैवेद्यं वर्जयित्वा तु तच्छेषं प्राश्य बुद्धिमान्
तिर्यङ्मार्जारमर्त्याश्च कुक्कुटाश्च तथा भवेत् २२
अग्रे गच्छेद्गृहीत्वा तु अबरं तत्र वर्जितम्
पुरोवाच्य जले प्रोक्ष्य अस्त्रमंत्रं समुच्चरन् २३
स्थलशुद्धिविहीनं च स्थलिकापुरणं न हि
व्यंजनं घृतहीनं च नैवेद्यं तु प्रदापयेत् २४
सस्यानां नाशनं प्रोक्तं मूलमंत्रशतं जपेत्
क्षीराभिषेकं कर्तव्यं पुनर्नैवेद्यमाचरेत् २५
मार्जारस्पर्शनेनैव मृगादिस्पर्शने तथा
अघोरास्त्रं जपित्वा तु नैवेद्यं तु निवेदयेत् २६
मरीचीलवणे हीले व्यंजनं तु पृथक्पृथक्
अतिपक्वमपक्वं च कृ तकं च विवर्जयेत् २७
पुनर्नैवेद्यपाकं तु गुह्यमंत्रं जपेच्छतम्
स्नानादिमत्स्ययुक्तं चेद् अस्थियुक्तं यथा भवेत् २८
राष्ट्रनाशं प्रकर्तव्यं संप्रोक्षणमथाचरेत्
मार्जारादि च विष्ठाश्च लिंगादि स्पर्शनेऽपि वा २९
स्नपनं शान्तिहोमं च कारयेत्तु विचक्षणः
वेदयेत्परमं प्रोक्तं व्यंजनं तु यथा भवेत् ३०
पाद्याचमनहीनं च निर्माल्यं तु विमर्ज च
नित्याग्निहोमहीने च तद्द्रव्यं तु विहीनके ३१
अन्तर्बलिविहीनं च तन्मन्त्रं च विहीनके
होमयोग्यविहीनं च अनावृष्टिश्च कथ्यते ३२
मधुना स्नापयेद्धीमान् शिवमन्त्रं जपेच्छतम्
पद्यादीनि ततः कु र्यात् क्रमेण विधिवत्कु रु ३३
भेरीताडनहीनं च बलिदानविहीनके
पादपाषाणमावेश्य कण्टकं पदमाविशेत् ३४
पीठसंस्कारहीनं च सौख्यदीपविहीनकम्
घण्टारवविहीनं च बेरिकापतितं तथा ३५
तत्कोणपतितं चैव बलिपात्रं तथा भवेत्
बलिबेरविहीनं च जीर्णोद्धारक्रमेण तु ३६
तद्बेरपतितं चैव रक्षोघ्नं च समाचरेत्
बालानां नाशनं प्रोक्तं गोनाशं च तथा भवेत् ३७
अघोरास्त्रं शतं जप्त्वा पुनस्सन्धानमाचरेत्
गन्धपुष्पविहीनं च वाद्यवंशविहीनकम् ३८
नृत्तकाले विशेषेण गणिका पतिता भवेत्
श्लोकपाठविहीनं च दुर्भिक्षं जायते मया ३९
बल्यन्ते शान्तिहोमं च पुरुषमन्त्रं जपेच्छतम्
ताम्बूलचर्वणं चैव अपहास्यं च संभवम् ४०
अस्त्रमंत्रशतं जप्त्वा अपवादमिदं तथा
प्रतिलोमानुलोमं च स्पर्शनं कष्टसंभवम् ४१
तत्रस्थानेव कर्तव्यं नवकस्नानमाचरेत्
खड्गमंत्रं शतं जप्त्वा शेषकर्माणि पूर्ववत् ४२
पादप्रक्षालहीनं च पशुमंत्रदशं जपेत्
पाद्यादीनिविहीनं च धूपदीपविहीनकम् ४३
उपचारविहीनं च सकलादीन्यथा भवेत्
नृपाणां युद्धमाप्नोति क्षीराभिषेकमेव च ४४
मूलमन्त्रशतं जप्त्वा दन्यसंधिसमायुतम्
चण्डपूजाविहीनं च शुचिवोहं जपेद्बुधः ४५
चण्डपूजा च कर्तव्या अन्यसंधिश्च कथ्यते
सायाह्नसमये काले नृत्तवाद्य विहीनकम् ४६
दीपारोहणहीनं च दीपद्रव्यविहीनकम्
पीठद्वारालयोर्मध्ये वर्धनी पतिते यदि ४७
नयनोच्छिष्टं प्रवर्तन्ते शान्तिमंत्रं जपेद्बुधः
काले अधिकहीनं च देवानां च हितासिना ४८
गौरीमन्त्रशतं जप्त्वा घृतस्नानं शतं भवेत्
पुनः कर्मसमायुक्तं युक्तायुक्तिं तु कारयेत् ४९
विनोदालोकनं हीनं गननृत्तविहीनकम्
यौवनागणिकाहीनं विकटांगं च संभवम् ५०
दशबीजं जपेद्धीमान् पंचविंशतिसंख्यया
पादुकाराधनाहीनं उपांगप्रत्यंगहीनकम् ५१
यानकाले तु पतनं परपीडा भविष्यति
क्षीराभिषेकं कर्तव्यं प्रसन्नयजनं कु रु ५२
भोगां रामर्चनाहीनं तदर्थं नैवेद्यहीनकम्
ताम्बूलहीनमेवं च अपूपं च विहीनकम् ५३
नरेन्द्रो देहहीनः स्यात् पतिमन्त्रं शतं जपेत्
ततः कर्मसमायुक्तं भोगांगमर्चनं क्रमात् ५४
क्षेत्रपालार्चने हीने क्षेत्रनाशं यथा भवेत्
मृत्युंजयं शतं जप्त्वा क्षेत्रपालार्चनं कु रु ५५
वस्त्रादि चामरादिर्वा दीपाग्निं दापयेत्ततः
नवकं शान्तिहोमं तु बीजमुख्यं जपेच्छतम् ५६
घटिका न्यूनातिरिक्तं च तत्तत्काले विशेषतः
खड्गमन्त्रं शतं जप्त्वा निधनेश श्रुतं मया ५७
इत्युत्तरस्वायंभुवे नित्यपूजाविधिप्रायश्चित्तविधिपटलः १६