परसंहार ++++++++ णं च विशेषतः
तस्मात्सर्वप्रयत्नेन इमां पूजां समाचरेत् १
नृपाणां जन्मनक्षत्रे अभिषेकर्क्षमेव वा
विषुवायनकाले वा ग्रहणान्ते कु तूहले २
उत्सवादौ च कर्तव्यं प्रतिष्ठान्ते विशेषतः
अन्यस्मिन्मंगले काले यथा कर्तुर्मनोरमम् ३
तस्मात्पूजाविधानेन पूजाकर्मविधिं शृणु
दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् ४
द्विगुणं त्रिगुणं वापि चतुःपंचगुणं तथा
षट्सप्तगुणसंख्यातं कर्मसिध्यन्तमेव वा ५
पूजा वै शिवमिख्याता पूर्वोक्तफलवादिनी
नैमित्तिकन्तु नित्यान्ते कर्तव्यं संनिबोधत ६
नित्ये प्रवर्तमाने तु यदा नैमित्तिकं भवेत्
समाल्प्याल्प्येन महता नित्यनैमित्तिकं चरेत् ७
सन्ध्यापरार्धकाले चेद् पूर्वार्धे विद्यते यदि
नैमित्तिकं स्वकाले तु कर्तव्यमविचारतः ८
सन्ध्यामप्यर्धकालेन चापरार्धं समाचरेत्
तन्त्रेण चाप्यनुष्ठानं काम्यमेव विधिं शृणु ९
स्नानान्तं वाथ नैवेद्य पर्यन्ते नित्यमेव वा
विधाय प्राप्तकाले तु काम्यं चैव समाचरेत् १०
एकमावरणानां तु संध्याशेषं समाप्य च
नैमित्तिकं तु नित्यान्ते सायाह्नात्पूर्वमेव हि ११
संकल्पं च यथापूर्वं विद्येशं पूजयेत्ततः
तथैवोहि क्रमेण संकल्पमिति बुद्धिमान् १२
पुण्याहं वाचयित्वा तु भूसुरैर्देशिकैस्सह
पंचगव्यं तु संस्थाप्य पंचामृतं तदन्तके १३
अष्टोत्तरशतं चैव स्नपनं च यथा कु रु
एवं सर्वं च संस्थाप्य शान्तिहोमेन हूयते १४
पूर्वं द्वारं समभ्यर्च्य बेरशुद्धिं समाचरेत्
गन्धतैलं समारभ्य पिष्टामलकसंयुतम् १५
पंचगव्यं च संस्नाप्य पंचामृतं तदन्तके
ईशाने न तु मंत्रेण क्षीरं चैवाभिषेचयेत् १६
पंचब्रह्मषडंगैश्च बिम्बशुद्धिं समाचरेत्
त्रियम्बके न मन्त्रेण पद्मपुष्पं समर्चयेत् १७
वस्त्राद्याभरणं चैव अलंकृ त्य विशेषतः
धूपदीपसमायुक्तं पंचसंध्या विधिं शृणु १८
अष्टाक्षरं समुच्चार्य बीजमुख्येन सेचनम्
श्वेतवस्त्राद्यलंकृ त्य शिवबीजं जपेद्बुधः १९
तद्बीजेन समादाय दान्तं चैव तु दापयेत्
दध्यन्नं च निवेद्याथ पाद्यादीन्क्रमशः कु रु २०
आलेपनं च गन्धाद्यैः हिमतोयाभिषेचनम्
आर्द्रवस्त्रं त्यजेत्पश्चात् शुद्धवस्त्रेण वेष्टयेत् २१
सर्वाभरणसंयुक्तं सर्वपुष्पैरलंकृ तम्
दशबीजं समुच्चार्य चम्पकं च प्रदापयेत् २२
वर्धनीं शिवकु म्भं च किं चिद्भेदं विशेषतः
ध्वजादिच्छत्रपर्यन्तं सर्ववाद्यसमाकु लम् २३
स्वस्तिवाचकसंयुक्तं कु रवशब्दसमाकु लम्
तत्स्थानाच्च समादाय परिचारकमूर्धनि २४
कु म्भं व वर्धनीं न्यस्त्वा कु म्भमग्रे विशेषतः
एवं प्रदक्षिणं कृ त्वा देवाग्रे स्थण्डिले न्यसेत् २५
अष्टत्रिंशत्कला न्यस्त्वा मातृकान्यासमेव हि
श्रीकण्ठादीनि विन्यस्य गोलका न्यासमेव हि २६
धूपदीपसमायुक्तं नीराजनसमन्वितम्
हस्तेन पुष्पमादाय ++++ सुयोजयेत् २७
शिवबीजमनुस्मृत्य शिवकु म्भाभिषेचनम्
एवमावरणादीनि कलशं तु पृथक्पृथक् २८
मन्त्रपुष्पं तदन्ते तु मंत्रान्नं च निवेदयेत्
सर्वालंकारसंयुक्तं सर्वाभरणभूषितम् २९
एवमेव क्रमेणैव महेशस्य प्रदापयेत्
तद्देवाग्रे विशेषेण गोमयालेपनं कु रु ३०
रजनीपिष्टचूर्णं च नानाचित्रविचित्रकैः
पात्राधारं न्यसेत्पश्चाद् स्थलिकायां न्यसेत्ततः ३१
स्थलिकायां क्रमेणैव आवृतं च विशेषतः
शन्नो देवीति मन्त्रेण तन्मूर्ध्नि स्रावयेत्घृतम् ३२
दर्व्या लक्षणयुक्तेन पात्रमन्नेन पूरयेत्
तदूर्ध्वे अवटं तत्र पायसा पूरयेत्सुधीः ३३
व्यंजनं परितः पूर्य नानाफलसमन्वितम्
एवं पात्राणि संपूर्य पानीयाचमनं कु रु ३४
धूपदीपं हृदा दत्वा घण्टारवसमन्वितम्
सर्ववाद्यसमायुक्तं उक्तमंत्रं निवेदयेत् ३५
पानीयं च निवेद्याथ निर्माल्यं च विसर्जयेत्
स्थलशुद्धिं ततः कृ त्वा ताम्बूलं च निवेदयेत् ३६
अर्घ्यं शिरसि दातव्यं मुखवासं च दापयेत्
धूपदीपसमायुक्तं आरात्रिकसमन्वितम् ३७
सर्ववाद्यसमायुक्तं गीतनृत्तसमन्वितम्
सर्वालंकारवद्बेरं सर्ववाद्यसमन्वितम् ३८
ध्वजादिच्छत्रपर्यन्तं धारं पूर्वोक्तवर्त्मना
प्रविशेदालयं पश्चाद् देवस्याचमनीयकम् ३९
अपूपादि निवेद्याथ धूपदीपं ददेद्गुरुः
शुद्धनृत्तादिलीलान्तं कारयेच्छिवसंनिधौ ४०
एवमेव क्रमेणैव सायाह्नान्तं समाचरेत्
सायरक्षां ततः कृ त्वा नित्यार्चनं च पूर्ववत् ४१
आचार्यं पूजयेत्पश्चात् वस्त्रहेमांगुलीयकैः
विशेषपूजाविधिः प्रोक्तो महाहविर्विधिं शृणु ४२
इत्युत्तरस्वायंभुवे सकलार्चनविधिपटलः १५