संकोचं तु प्रवक्ष्यामि शृणु षण्मुख सुव्रत
उत्तमश्चरराशिः स्यान् मध्यमोभयराशिकम् १
तद्राशियुभयं युक्तं सर्वमंगलसंयुतम्
स्तापनाद्दिवसात्पूर्वे त्रिदिने पंचमेऽथ वा २
अंकु रं कौतुकं चैव सायाह्ने चन्द्रसंयुते
बीजावापं प्रकृ त्वा तु यथा विधि पुरस्सरम् ३
चन्द्रादि परिवाराणां नैवेद्यं धूपदीपकम्
अंकु रार्पणहीनं चेद् राजराष्ट्रं विनश्यति ४
एतत्सामान्यमुद्दिष्टं विशेषमधुनोच्यते
अधिवासं च संकोचं अंकु रं कौतुकं तथा ५
यागारम्भादिपूजा च पलवादीनुस्त्सवादि च
लेयतानि कारयेद्रात्रौ दिव्यै तानि न कारयेत् ६
द्वात्रिंशत्स्तम्भसंयुक्तं षोडशस्तम्भसंयुतम्
अष्टस्तम्भसमायुक्तं श्रेष्ठं मध्यमकन्यसम् ७
एवमन्तर्विमानं स्यात् तन्मध्ये वेदिकां कु रु
हस्तमात्रसमुत्सेधं दर्पणोदरसंनिभम् ८
कु ण्डानि परितः कु र्यात् पूर्ववन्मंत्रवित्तमः
वास्तुहोमं ततः कृ त्वा पर्यग्निकरणं तथा ९
पैशाचानां बलिं दत्वा प्रवेशबलिमेव च
रक्षोघ्नहोमं कृ त्वा तु यथाविधिपुरस्सरम् १०
स्थापनाद्दिवसात्पूर्वरात्रावेव विशेषतः
मूलाग्रे तु विशेषेण कल्पिते स्थण्डिले शुभे ११
कु म्भान्संस्थाप्य आचार्यो मन्त्रजापसमन्वितः
शक्त्यादिशक्तिमभ्यर्च्य विद्येशानां तथैव च १२
आसनं मूर्ति विन्यस्य कु म्भे च विधिवत्तथा
मूललिंगं च संपूज्य आसनावरणादिभिः १३
संपूज्य देवदेवेशं नैवेद्यं धूपदीपयुक्
यात्राहोमादिसिध्यर्थं सिकतैः स्थण्डिले कृ ते १४
विधिनाग्निं समाधाय समिदाज्यचरुं क्रमात्
यवसर्षपलाजांश्च चरूणां शतसंख्यया १५
प्रत्येकं शतमर्धं वा तत्तन्मूलांगकैः क्रमात्
होमयेच्च तदन्ते तु बीजमुख्येन सर्पिषा १६
होमयेद्देशिको धीमान् संक्लावि+++ पुरोक्तया
पूर्णां सर्वात्मना तत्र जुहुयाद्देशिकोत्तमः १७
मूलेन होमयेद्विद्वान् अंगानां च दशांशतः
मधुप्लुतं तु दूर्वादि मृत्युंजयमनुस्मरन् १८
सहस्रं वा तदर्धं वा अष्टोत्तरशतं तु वा
एवं हुत्वा तदन्ते तु क्षणहोमं समाचरेत् १९
वासरैस्सूर्यपूर्वैश्च नक्षत्रैस्तुरगादिभिः
मेषादिमासकैश्चैव तिथिभिः प्रथमादिभिः २०
जुहुयादेकयाहुत्या प्रतिवत्सरमाचरेत्
ऋगाद्यध्ययनं कु र्यात् संस्वतं वेदपारगाः २१
तत्र मंत्रा ऋगाद्यास्तु जप्तव्या मूर्तिहेतवः
सद्यो जातस्तु मश्व्येदो वामदेवो यजुः स्मृतः २२
अघोरस्सामवेदस्तु अथर्वः पुरुषः स्मृतः
अष्टोत्तरसहस्रं वा तदर्धं वा तदर्धकम् २३
अष्टोत्तरशतं वाथ जपेद्वैदिक भद्धये
मूर्तिपानामलाभे तु देशिकस्सर्वमाचरेत् २४
मूललिंगं च संपूज्य गन्धाद्यैरुपचारकैः
प्रणम्य देवदेवेशं कर्ता कर्मविचक्षणः २५
एकमुत्सममारभ्य संकल्पदिवसान्तकम्
तेष्वन्तरेन प्रत्यर्थं पुनः संस्थापयाम्यहम् २६
इति विज्ञाप्य देवेशं आचार्यो मूर्तिपैस्सह
लिंगाद्देवं समावाह्य कुं भमध्ये तु योजयेत् २७
पीठाद्देवीं सामयाकं सर्वमग्नि कार्योक्तमार्गतः
मूलेनैवेति मन्त्रेण आषाढं समिधं हुनेत् २८
घृतं मिमिक्षमंत्रेण आज्यहोमं समाचरेत्
अघोरेणैव मन्त्रेण चरुहोमं समाचरेत् २९
पुरुषेणैव मन्त्रेण लाजाहुतिमथाचरेत्
प्रत्येकं शतमर्धं वा यथा शक्त्या तु होमयेत् ३०
द्रव्यान्ते व्याहृतिं हुत्वा क्षणहोमं समाचरेत्
वारै रम्भोत्यकाद्यैश्च नक्षत्रैस्तुरगादिभिः ३१
मेषाद्या मासिकानां च तिथिभिः प्रथमादिभिः
सप्त ते इति मन्त्रेण पूर्णाहुतिमथाचरेत् ३२
कु म्भस्थं देवमभ्यर्च्य गन्धपुष्पादिदीपयुक्
आचार्यो मूर्तिपाश्चैव वेदघोषसमन्वितम् ३३
कु म्भानुत्थाप्य मन्त्रेण परिचारकमूधनि
आचार्यो वर्धनीं ग्राह्य विद्येशान्मूर्तिपादयः ३४
स्वस्तिघोषसमायुक्तं छत्रचामरसंयुतम्
++++++++++++ दीपज्वालासमन्वितम् ३५
शनैः प्रदक्षिणं कृ त्वा सर्वातोद्यसमायुतम्
यागशालां ततो गत्वा आचार्यो मूर्तिपैस्सह ३६
वेदिमध्ये तु संस्थाप्य वर्धनीं तस्य वामके
परिवाराष्टकु म्भांश्च तत्तत्स्थानेषु विन्यसेत् ३७
धूपदीपं हृदा दत्वा ततोग्नियजनं चरेत्
कु ण्डार्चनं समाख्यातं परिधीन् पधाय च ३८
विष्टरांश्चैव दर्भांश्च प्रणीता प्रोक्षणं तथा
आज्यशुद्धिं ततः कृ त्वा +++++++++ ३९
अग्निमध्ये तु संपूज्य यवादीन्समिधं हुनेत्
स्विष्टमग्नेति जुहुयात् प्रायश्चित्ताहुतिं चरेत् ४०
दिक्पालानां बलिं दत्वा ततो होमं समापयेत्
एवं संपूजयेद्रात्रौ प्रभाते विमले सति ४१
स्नात्वा कृ ताह्निकोपेतः यागपूजां समाचरेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः ४२
एवं यः कु रुते मर्त्यः स पुण्यां गतिमाप्नुयात्
इति चिन्त्यशास्त्रे संकोचविधिः पंचपंचाशत्पटलः १४