अथ वक्ष्ये विशेषेण प्रसन्नयजनं कुरु
महामारी-विनाशार्थं महारोगक्षयाय च १
परसंहारकारणं नृपाणां च विशेषतः
नृपाणां जन्मनक्षत्रे अभिषेकर्क्षमेव वा २
उत्सवादौ च कर्तव्यं प्रतिष्ठान्ते विशेषतः
अन्यस्मिन्मंगले काले यथा कर्तुर्मनोरमम् ३
निश्चित्य दिवसात्पूर्वे त्रिदिने पंचमेऽपि वा
भूसुरान्भोजयेत्तत्र यथा शक्ति विशेषतः ४
तद्दिने चैव कर्तव्यं पूर्वसंध्यावसानके
आचार्यः सकली कृ त्य सोष्णीषस्सोत्तरीयकः ५
तत्रैवोद्दिश्य कर्मांगं संकल्पमिति बुद्धिमान्
पुण्याहं वाचयित्वा तु भूसुरैस्सह देशिकः ६
पंचगव्यं तु संस्थाप्य पूर्वोक्तविधिना सह
अष्टोत्तरशतं चैव स्नपनं च यथा कु रु ७
एवं सर्वं च संस्थाप्य शान्तिहोमं समाचरेत्
पूर्वद्वारं समभ्यर्च्य ततो लिंगं प्रपूजयेत् ८
लिंगशुध्यवसाने तु पंचब्रह्मषडंगकैः
त्रियम्बके न मन्त्रेण पद्मपुष्पैस्समर्चयेत् ९
गन्धमालेपनं कृ त्वा हिमतोयाभिषेचनम्
आर्द्रवस्त्रं त्यजेत्पश्चात् शुद्धवस्त्रेण वेष्टयेत् १०
दशबीजं समुच्चार्य चम्पकं च प्रदापयेत्
घृतान्नं च निवेद्याथ निरोधार्घ्यं ददेद्गुरुः ११
अष्टत्रिंशत्कलान्यासं मातृकान्यासमेव च
शिवबीजं समुच्चार्य वर्धनीमभिषेचनम् १२
मन्त्रान्नं मन्त्रपुष्पं च हृदयेन प्रदापयेत्
श्वेतवस्त्रेण संवेष्ट्य दान्तथैव तु दापयेत् १३
प्रथमावरणं कु र्याद् बीजमुख्येन सेचनम्
दध्यन्नं च निवेद्याथ पाद्यादीन्क्रमशः कु रु १४
शिवमंत्रमनुस्मृत्य तद्बीजेनाभिषेचयेत्
कृ ष्णवस्त्रैरलंकृ त्य कु टजं चैव दापयेत् १५
अघोरास्त्रं जपेद्धीमान् एकविंशत्समर्चयेत्
हृल्लेखाबीजमुच्चार्य एकविंशत्समर्चयेत् १६
मुद्गान्नं च निवेद्याथ धूपदीपं ददेद्गुरुः
चतुर्थावरणं पश्चात् शम्बरैरभिषेचनम् १७
वस्त्रादिभिरलंकृ त्य शुचीवोहं जपेद्बुधः
तद्बीजं च समुच्चार्य जातिपुष्पं समर्चयेत् १८
कृ सरान्नं निवेद्यं च पाद्यादीनुपचारकैः
पतिमंत्रं समुच्चार्य अभिषेकं क्रमाद्गुरुः १९
चित्रवस्त्रैरलंकृ त्य पायसान्नं निवेदयेत्
मृत्युंजयं समुच्चार्य बिल्वपत्रं समर्चयेत् २०
एकविंशत्समभ्यर्च्य कर्ता देशिकसंयुतः
सर्वालंकारसंयुक्तं सर्वाभरणभूषितम् २१
महाहविः क्रमेणैव नैवेद्यं कारयेद्बुधः
धूपदीपं हृदा +++++++++ २२
वस्त्रेणोद्वर्तनं कृ त्वा तत्तद्धृदयमन्त्रतः
धौतवस्त्रं च मालां च भूषणं गन्धमाहिषम् २३
दापयित्वोपवीतं च आसनावरणादिकम्
अर्चयित्वा विशेषेण तत्तन्मूलषडंगकैः २४
पूर्वोक्तानि च पुष्पाणि तत्तत्संध्यासु दापयेत्
महेशमूलमन्त्रेण पंचब्रह्मषडंगकैः २५
गौर्या मूलषडंगेन मूर्तिमावाहयेत्ततः
सांगोपांगप्रत्यंगं +++++++++ २६
दत्वा पाद्यादिकं तत्र अर्चयित्वा विशेषतः
धूपदीपं ददेत्ताभ्यां नैवेद्यं व्यंजनैर्युतम् २७
दापयित्वा विशेषेण पानीयं दापयेत्ततः
अचमनं दापयेच्छंभोः देव्याश्चैव समन्वितम् २८
बलिबेरन्तु वेरांशात् पूर्वोक्तविधिना कु रु
बलिबेरं समभ्यर्च्य अर्धनारीश्वरात्मकम् २९
नैवेद्यं दापयित्वा तु नित्याग्नियजनं क्रमात्
मूलेन शिवमावाह्य अर्चयेच्छक्तिसंयुतम् ३०
नैवेद्यात्षोडशभागैकं बल्यर्थं तु हविर्भवेत्
गन्धपुष्पं च धूपं च यथा वै पूर्ववद्विधि ३१
नित्योत्सवं ततः कु र्यात् बलिदानसमन्वितम्
सर्वातोद्य समायुक्तं नृत्तगेयसमाकु लम् ३२
बलिदीपसमायुक्तं गणिकादिभिरावृतम्
परिचारान्समाहूय सोष्णीषान्सोत्तरीयकान् ३३
खेटके शिबिकायां वा बलिबेरं समानयेत्
सोष्णीषस्सोत्तरीयश्च अर्ध्यपात्रकरो गुरुः ३४
मार्जनं लेपनं चैव देवदासी विशेषतः
पुनश्शिष्योऽभिषिच्यापि देशिको बलिमाचरेत् ३५
द्वारस्य दक्षिणे नन्दिगंगां घोषं बलिं ददेत्
द्वारस्य वामपार्श्वे तु यमुनां योगिनीं तथा ३६
वृषं वह्निं च भृंगीशं मातॄणां च विशेषतः
विनायकं वीरभद्रं विघ्नराजं च षण्मुखम् ३७
ज्येष्ठादुर्गाबलिं दत्वा योगिनीं च तथैव च
अग्रे चैव धरां देवीमर्चयित्वा विशेषतः ३८
गोपुरे वाद्यनिश्शब्दं शंखघोषसमन्वितः
वरिष्ठं भुजगं यक्ष्वा महोक्षस्य बलिं ददेत् ३९
भूतेशमर्चयित्वा तु सोपचारसमन्वितम्
इन्द्रं चैव तथाग्निं च यमं च निरृतिं तथा ४०
वरुणं चैव वायुं च सोममीशानमेव च
षोडशाक्षरयोर्मध्ये क्षेत्रेशव्य +++++ ४१
प्रसन्नयजनम् १३