०४ ब्रह्मकूर्चाभिषेकविधिपटलः

ब्रह्मकू र्चाभिषेकं तु विधानमधुनोच्यते
महोत्पातेषु जातेषु शान्तये तत्प्रवक्ष्यते १
प्रस्थत्रयार्धं क्षीरं तु प्रस्थार्धं दधि कीर्तितम्
प्रस्थमात्रं घृतं प्रोक्तं चतुःप्रस्थं तु गोमयम् २
गोमूत्रं प्रस्थ षट्कं तु मात्रे यं पंचगव्यजा
एकस्य कलशस्यैवं अष्टोत्तरशतं जपेत् ३
कलशानां तथा ज्ञेयं अंकु रार्पणमादितः
अधिवासनकर्म स्यात् वेदपारायणं तथा ४
पलाशोदुम्बराश्वत्थवटप्लक्षसमुद्भवाः
एकैकं समिधः पंच शतमाहुर्मनीषिणः ५
आज्यं चरुं च लाजं च सर्षपाश्च यवास्तिलाः
माषमुद्गकु लुत्थं च द्रव्याण्याहुर्मनीषिणः ६
हुत्वैतानि निवेद्यार्थे महाहविरुदाहृतः
तैलाज्यदधिसर्पिर्भि नालिके रेक्षु पायसा ७
मधुना सितया च स्यात् अभिषेकश्शिवस्य तु
चन्दनागरुकर्पूर कस्तूरीकुं कु मं तथा ८
एलोशीरलवंगैश्च लेपयेत्सर्वतश्शिवम्
इति स्वायंभुवे ब्रह्मकूर्चाभिषेकविधिपटलः १२