तुलसी बिल्वपत्रं च कल्हारं कमलं तथा
जातिनीलोत्पलं चैव पुन्नागं हेमधूर्धुरम् १
श्वेताब्जं कु टजं चैव दान्तं चैव तु पट्टिका
सुभभंत्री च संयुक्तं नैवेद्यान्ते तु दापयेत् २
एकविंशतिपुष्पाणि महेशादीनि मंत्रकैः
महेशश्च शिवंश्चैव शिवोद्भवशिखण्डिनः ३
श्रीकण्ठश्च कपाली च कपर्दी कालहारिणः
महेश्वरायनमः । शिवाय नमः ।
शिखण्डिने नमः । श्रीकण्ठाय नमः ।
कपालीशाय नमः । कपर्दिने नमः ।
कालहारिणे नमः ।
ज्ञाने ज्ञानरूपी च पशुपतिः शूलिनस्तथा ४
हारिणश्च क्रमेणैव तत्पुष्पं सम्यगर्चयेत्
अष्टपुष्पं च कर्तव्यं आसनं मूर्तिमूलकैः ५
ज्ञानाय नमः । ज्ञनरूपिणे नमः ।
पशुपतये नमः । शूलिने नमः ।
हारिणे नमः । श्रीमहागणपतये नमः ॥
आयुष्करं विधिं वक्ष्ये श्रूयतां निधिनेश्वर
चेतना चेतनं चैव द्विविधं परिकीर्तितम् ६
आत्मवर्गो द्विधा प्रोक्तः तद्भेदो बहुधा भवेत्
चेतनस्य विशेषोऽस्ति पुण्यपापविधायकम् ७
अल्पकाले च मर्त्यानां नाशो जातं च निश्चयः
तत्काले द्विविधं प्रोक्तं उत्तमं मध्यमाधमम् ८
शतं विंशोत्तरं वर्षं उत्तमं त्विति कीर्तितम्
शतवर्षसमायुक्तं मध्यमं तु विधीयते ९
विंशत्यूनशतं वर्षं कन्यसं तु क्रमाद्बुधः
एवं कल्पान्तरे काले नाशनं किं कथं प्रभो १०
ईश्वर उवाच
साधु साधु महाप्राज्ञ यत्त्वया परिचोदितम्
तत्तत्सर्वमहं वक्ष्ये एकचित्तेन धीमता ११
अनेकयोनि +++ किल्बिषं च भवेत्तथा
किल्बिषस्यांशमानं च द्रोगादिक्षय संभवेत् १२
सुश्रेयसोंशमानं चेत् राज्यभोगादिकं दिशेत्
उभयोरपि कृ त्यं तत् कालं वा कालनाशनम् १३
मनोवाक्कायकार्माघैः यथा द्रुह्यति संभवेत्
प्रथमं दूषणं वाच्यं मनो हिंसा द्वितीयकम् १४
आत्महिंसा तृतीयं च कायहिंसा चतुर्थकम्
एवं रूपं च बहुधा व्याधिरूपेण बाध्यते १५
योग्यायोग्यविभागं च अवमानेन योजयेत्
अपमृत्युर्भवेत्तत्र कालान्ते कालमृत्यवः १६
अपमृत्युविनाशार्थं वक्ष्येहं निधनेश्वर
अपमृत्युविनाशं स्याद्भोगमोक्षफलप्रदम् १७
सर्वमासेषु कर्तव्यं कर्तुर्वाच्छ्वावशान्नयेत्
मण्डलं च त्रिगुणित दिनसंख्या यथाक्रमम् १८
अथ निश्चित्य दिवसं तावद्भजनपूजनम्
दिनं प्रति विशेषेण पूजानियम उच्यते १९
पातःस्नानादिकं नित्यं विप्रादीनां क्रमेण तु
तैस्तु शुद्धमनुष्ठेयं शिवालयेत्वथवासनम् २०
अर्धयामात्परं नास्ति धामबाह्ये प्रवेशयेत्
भूमिशुद्धिं ततः कृ त्वा दर्भशय्योपरि न्यसेत् २१
कम्बलं शुद्धवस्त्रेण क्षत्रियस्य विशेषतः
काषायं वैश्यवर्गस्य वस्त्रं शूद्रस्य तल्पकम् २२
अनिद्रकदिवाकाले शृणुष्व शिवलीलया
प्रातर्मध्याह्नसाये वा प्रातस्सायमथापि वा २३
अथवा एककालं वा स्नानतर्पणसंयुतः
प्रदक्षिणं त्वेकविंशत्येकविंशति वन्दनम् २४
कर्तुश्शक्तिर्यथाकार्या तथा कु र्यात्तु देशिकः
कालनिग्रहमूलं च मृत्युंजयं सदाजपेत् २५
त्रियम्बकं जयं चैव गौलामंत्रं पतिं क्रमात्
विप्रादीनां तु वर्णानां मंत्रमेवं विधीयते २६
देशिकस्याज्ञया चैव एतन्मन्त्रं जपेत् ++
अयुतं तत्र संख्या च चत्वारिंशद्दिनैर्युतम् २७
यावत्प्रतिदिनं कार्यं ततो होमं जपार्थकम्
अंगुष्ठप्रमुखादींश्च अष्टमूर्तींश्च कल्पयेत् २८
शतरुद्रांश्च सर्वेषां शतं विंशोत्तरं मतम्
तदाद्यन्तं क्रमेणैव होमं चैव जपेद्बुधः २९
द्रव्यं प्रति विशेषेण अष्टोत्तरशतं हुनेत्
तदर्धं वा तदर्धं वा यथाशक्ति हुनेत्क्रमात् ३०
होमसंख्या जपित्वा तु अग्निकार्यं च पूर्ववत्
त्र्यश्रकु ण्डसमायुक्तं अन्यकु ण्डानि वर्जयेत् ३१
शतं विंशोत्तरं देवान् अंगुष्ठादिरिहोच्यते
अंगुष्ठं भुवनेशं च ईशानं चैकमेव च ३२
पिंगेक्षणं चोद्भवं च वामदेवं हरं तथा
सर्वाभरणसंयुक्तं त्रिणेत्रं भीमरूपिणम् ३३
रक्तवस्त्रधराः सर्वे अभयवरदान्विताः
शूलटंकसमायुक्ता अंगुष्ठप्रमुखाः स्मृताः ३४
अंगुष्ठादिरिति ख्याता अष्टमूर्तिरिहोच्यते
भवश्शर्वस्तथेशानः पशुपत्युग्र एव च ३५
रुद्रा भीमो महादेवश्चाष्टमूर्तिः प्रकीर्तिताः
चतुर्भुजास्त्रिणेत्रास्तु जटामकु टधारिणः ३६
वरदाभयहस्ताश्च कृ ष्णापरशुधारिणः
सर्वाभरणसंयुक्ता रक्तक्षौभधरा इमे ३७
अष्टमूर्तिरिति ख्याता शतरुद्रांस्ततः शृणु
शंभुर्विभुर्गुणाध्यक्षः त्रियक्षो देववन्द्यकः ३८
सुवाहश्च विवाहश्च नगो हलस्तथैव च
विचक्षणोन्तकः पाल धीनो पातालवासिनः ३९
धृत उग्रश्च उग्रश्च लोहितस्सर्वतो मुखः
विद्याधिपो ज्ञानगम्यः समज्ञो वेदपारगः ४०
मातृवक्षः पिंगलाक्षो भूतपालो बलिप्रियः
सर्वविद्याधिपो ध्याता सर्वदुःखहरः प्रियः ४१
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः
पंचात्मकः पंचशिखः कपर्दी मेघवाहनः ४२
बलश्चातिबलश्चैव पाशहस्तो महाबलः
श्वेतः श्वेतबलन्ताश्च बटवामुखपराङ्मुखः ४३
सुर्भामो भूतयो भूषः हन्ता क्रू रश्च भावनः
अन्तकश्चोर्ध्वके शश्च विरूपो धूम्रलोचनः ४४
याम्यो मृत्युहरो ध्याता विधाता कर्ता च कारकः
धर्म इशो यमश्चैव सुयोक्ता र्वियमानसः ४५
अग्नी रुद्रः कृ शानुश्च पिंगलो घातकस्तथा
ज्वलनो दहनो बभ्रुः भस्मान्तश्च भयापहः ४६
अन्तकश्च कपालीशो अजो बन्धुश्च देहिनः
प्रमर्दो रक्तरक्तश्च निशिधरो रूपश्च धन्यवः ४७
सौम्यः प्रमर्दः सुप्रीतो लक्ष्मिवन्द्यो धरात्मकः
प्रसादकः कामरूपः सुदंष्ट्रश्च प्रकीर्तितः ४८
एवं च शतरुद्राणां शतरुद्रं पृथक्पृथक्
कालाधिपः कालनाशः कालस्संहारताण्डवः ४९
रुद्ररूपं विना कार्या संहारबीजसंयुतम्
भास्करोदयमारभ्य स्नानादिजपमन्तकम् ५०
मध्याह्नपूजासंमिश्रं स्नानं नैवेद्यहोमकम्
द्रव्यसाधनमारभ्य पूजानियम उच्यते ५१
गणेशयजनं पूर्वं पुण्याहं च द्वितीयकम्
पंचगव्यं ततः प्रोक्तं पंचामृतं तदन्तके ५२
पंचकं नवकं स्नाप्य शैवं मृत्युंजयं जपेत्
स्नानद्रव्याणि सर्वाणि सप्तमं साधयेत्क्रमात् ५३
वस्त्रं गन्धं च पुष्पं च अष्टा पंचाभिषेचयेत्
द्वारादिस्नपनान्तं च गुह्यं मृत्युं च मंत्रकम् ५४
मंत्रपुष्पं च मंत्रान्नं जयमंत्रेण दापयेत्
शुम्भुं वस्त्राद्यलंकृ त्य आवृतान्सम्यगर्चयेत् ५५
अपमृत्युविनाशाय तृतीयं मंत्रमुच्चरन्
द्विशतं शतमर्धं वा दिनं प्रति निवेदयेत् ५६
निवेद्यार्थं तण्डुलं ग्राह्य भारमेवं विधीयते
शिवत्रयं समारभ्य दिनं प्रति विवर्धनात् ५७
निश्चित्य दिवसान्तं यद् अशक्तं वा लभेत्क्रमेत्
व्यंजनं तु चतुर्थांशं अष्टांशं घृतमेव च ५८
पयो दधि घृतं चैव यथा लाभसमन्वितम्
सूपकादिसमायुक्तं पयः शुष्केन पूरयेत् ५९
फलानि रसवस्तूनि मधुरप्लुतदेशिकः
सर्वं निवेद्य देवाय कृ त्वा चाचमनक्रियाम् ६०
पूर्ववद्धोमसंयुक्तं विशेषमधुना शृणु
अपूपं नालिके रं च इक्षुखण्डं फलं तथा ६१
आषाढसमिधा चैव अर्कं चैवाब्जकन्दकम्
पूर्वसंख्या क्रमेणैव नित्यहोमं पृथक्पृथक् ६२
नित्योत्सवं पुरा प्रोक्तं ताम्बूलं च निवेदयेत्
कर्पूरयुक्तिना चैव अश्मचूर्णसमन्वितम् ६३
तद्बहिस्तैलसंमिश्रं क्रमुकं द्विफलं तथा
पूर्गाफलं च पूर्णं च प्रस्थस्यैव फलं तथा ६४
फलाच्चतुर्गुणं पत्रं सजिह्वाघ्राणवर्जितम्
धूपदीपादि नृत्तान्तं सर्ववाद्यैश्च घोषयेत् ६५
शंखध्वनिसमायुक्तं चण्डेश्वरं समर्चयेत्
पूजान्ते वाथ होमान्ते देशिकस्याज्ञया सह ६६
मिश्रपुष्पाणि सिध्यर्थं यथा शक्ति समर्चयेत्
पापभक्षणमन्त्रेण कर्ता वा सम्यगर्चयेत् ६७
हुतभस्म गृहीत्वा तु पूजान्ते कल्प्य देशिकः
कर्तुस्सर्वाभिलाषाय तद्देहे लेपयेत्क्रमात् ६८
भूसुरान्भोजयित्वा तु कर्ता संभोजयेत्ततः
एवं प्रतिदिनं कार्यं भोजनान्ते विशेषतः ६९
नवकादि नवान्तं च स्नपनं शक्तियुक्ततः
महाहविः क्रमेणैव पूजयेत्कालनिग्रहम् ७०
आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः
इहलोके सुखं प्राप्य सोऽन्ते सायुज्यमाप्नुयात् ७१
यत्फलं लभते मर्त्यः सत्यं सत्यं वदाम्यहम्
भजनार्चन इत्युक्तं तन्निषेध इहोच्यते ७२
आचार्यकृ तहीनं यत् तद्दोषशमनाय च
नवाक्षरं जपेद्धीमान् शतमष्टोत्तरान्तकम् ७३
क्षीराभिषेकं कर्तव्यं तत्क्रियां पुनराचरेत्
पूजाद्रव्यविहीने च कर्तुश्च व्याधिसंभवे ७४
घृतस्नानं तदर्धं च पंचविंशति होमयेत्
तत्तन्मन्त्रे जपेद्धीमान् अष्टोत्तरशतान्तकम् ७५
होमतर्पणहीने तु भार्या तस्य विनश्यति
जयमंत्रं जपेद्धीमान् पश्चाद् अष्टगन्धं सुयोजयेत् ७६
पुनर्होमादि कर्तव्यं शेषं पूर्ववदाचरेत्
प्रदक्षिणनमस्कारजपस्तोत्रविहीनके ७७
श्वित्रं संजायते मूकः सप्तजन्मसु निर्धनः
शतप्रस्थ घृतस्नानजयशम्बरमंत्रकैः ७८
कर्ता वा देशिको वापि प्रेष्यको भक्ति संयुतः
प्रेष्यस्य शिवदीक्षा चेद् उत्तमोत्तममिष्यते ७९
तत्संख्या यन्त्र दिवसे तद्दिनान्तं समाचरेत्
कर्तुरर्चनहीने स्याद् अर्चनं द्विगुणं मतम् ८०
घृतस्नानादिसंयुक्तं तोषयेत्परमेश्वरम्
सामान्यमिति विज्ञेयं विशेषमधुना शृणु ८१
अनानं परपीडा च सूतिकाशौ च शौचकम्
एतद्धीनं च भजनं श्रुत्वा बाधा भविष्यति ८२
तद्दोषशमनार्थाय हीमान्ते तु विशेषतः
ब्राह्मणान्भोजयित्वा तु मधुस्नानं शिवस्य च ८३
क्षीरस्नानं तदन्ते तु पुनर्भजनमारभेत्
इहलोके सुखं प्राप्य सोऽन्ते सायुज्यमाप्नुयात् ८४
इति स्वायंभुवे भजनपूजा-विधिपटलः ११