०९ महाहविः-पटलः

अथ वक्ष्ये विशेषेण प्रभूतहविषं शृणु
नृपाणां जन्मनक्षत्रं मासनक्षत्रमेव वा १
विषुवायनकालेषु ग्रहणान्ते कु तूहले
न++++ दशी चैव शुक्लपक्षे शुभं परम् २
अन्यस्मिन्मंगले काले प्रतिष्ठान्तोत्सवादिके
ब्रह्मराक्षसवेतालकू ष्माण्डा भैरवादयः ३
कालीकाश्च रशल्याश्च राक्षसादिकमर्दनम्
अथान्ये अशुभाश्चापि मुच्यन्तेऽपि न संशयः ४
वर्षार्थं च जयार्थं च पुत्र दारसुखप्रदम्
पशूनां काम्यदं प्रोक्तं इष्टकाले सुयोजयेत् ५
निश्चित्यदिवसात्पूर्वे रात्रौ दीपावसानके
सायरक्षावसाने च निवेद्यान्ते सुराशिके ६
मूलदेवं समभ्यर्च्य विज्ञापनमथाचरेत्
भगवन्ननुज्ञया ग्राह्य प्रतिमाग्रे विशेषतः ७
गोमयालेपनं कृ त्वा पिष्टचूर्णैरलंकृ तम्
विघ्नेशं पूजयेत्पूर्वं संकल्पमिति बुद्धिमान् ८
भूसुरान्युग्मसंख्यैश्च पुण्याहं वाचयेत्ततः
प्रतिमं कारयेत्तत्र नत्व बर्हिषि पूर्ववत् ९
प्रातः संध्यावसानान्ते मण्डपं कल्पयेद्बुधः
आस्थानमण्डपे वापि सर्वालंकारशोभितम् १०
वेदिकु ण्डसमायुक्तं पूर्ववल्लक्षणं कु रु
वस्त्रादिभिरलंकृ त्य प्रतिमं च विशेषतः ११
सिंहासनं च वेद्यूर्ध्वे सुदृढं कारयेत्ततः
तन्मध्ये स्थाप्य देवं तु सूरिबृन्दैश्च सेवितम् १२
तद्देवाग्रे विशेषेण गोमयालेपनं कु रु
निवेद्यार्थं तण्डुलं ग्राह्य तत्संख्याश्च ततः शृणु १३
दशभारं समारभ्य पंचपंच विवर्धनात्
यावत्सहस्रंभारान्तं यथाशक्ति तथा कु रु १४
उत्तमोत्तममित्युक्तं उत्तमामध्यमाधमा
विद्याधिकशतं त्रीणि त्रिशतं चैव भारकम् १५
द्विशतं चैव चत्वारि उत्तमादित्रयं भवेत्
द्विशतं चैव भारं च विद्याधिकशतं भवेत् १६
शतभारसमायुक्तं मध्यमत्रयमेव च
दशन्यूनशतं चैव षष्टिसंख्यासमायुतम् १७
त्रिंशद्भारसमायुक्तं कन्यसप्रयमेव च
व्यञ्जनं तु चतुर्थांशं तत्समं फलमुच्यते १८
नानाव्यंजनसंयुक्तं नानाफलसमन्वितम्
पूगीफलं च ++++++++++
++ पत्रं च तत्संख्या तैलमिश्रितम्
कर्पूरं युक्तिना चैव अष्टांशं घृतमेव च १९
पयो दधि घृतं चैव क्षौद्रशर्क रया युतम्
अन्यानि रसवस्तूनि पूजोपकरणानि च २०
एतत्सर्वं समापाद्य वाद्यघोषसमन्वितम्
तद्देवाग्रे न्यसेद्धीमान् विज्ञापनमथाचरेत् २१
तद्देवस्याज्ञया चैव समस्तैः परिचारकैः
पचनालयं प्रकर्तव्यं पक्वद्रव्यं च संग्रहेत् २२
मूलदेवं च संप्राप्य स्नपनाद्यैर्विशेषतः
लिंगशुद्धिं ततः कृ त्वा द्वारादीन्पूजयेत्ततः २३
पंचाचार्यक्रमेणैव पूजयेत्परमेश्वरम्
स्नानद्रव्यैश्च सर्वेषु स्नानकालेऽभिषेचयेत् २४
तत्काले प्रतिमाग्रे तु पिष्टचूर्णैरलंकृ तम्
देशिकः सकली कृ त्य एकचित्तेन धीमता २५
विघ्नेशयजनं पूर्वं पुण्याहं तत्र कारयेत्
साधयेत्पंचगव्यं च ततः पंचामृतं क्रमात् २६
आढकार्धार्धकं चैव एकपात्रे सुयोजयेत्
पात्रं पूर्यं तु शेषाणां प्रोक्षयेदस्त्रमंत्रतः २७
अन्यानि रसवस्तूनि स्नापयेत्प्रभुमादरात्
प्रथमं गन्धतैलं च द्वितीयं पंचगव्यकम् २८
पंचामृतं तृतीयं च सर्वद्रव्यं चतुर्थकम्
पंचमं गन्धतोयं च रत्नोदकं तु षष्ठकम् २९
पुष्पोदकं धातुभागे पश्चात्फलोदकं भवेत्
स्वर्णोदकं च नवमं पश्चात्तिलोदकं भवेत् ३०
पश्चात्पत्रोदकं चैव द्वादश स्नपनं भवेत्
एवं द्वादशकाले तु द्रव्यान्ते च निवेदयेत् ३१
धूपदीपसमायुक्तं ताम्बूलं दापयेत्क्रमात्
सर्ववाद्यसमायुक्तं तत्तत्काले तु घोषयेत् ३२
उक्ततालक्रमेणैव तोषयेत्पारशवं स्मृतम्
भूसुरास्सर्वभक्ताश्च उक्तस्थाने स्थितस्थितः ३३
एवं स्नानं तदन्ते तु नैवेद्यविधिरुच्यते
निवेद्यादीनि सर्वाणि मूलदेवस्य दापयेत् ३४
परिवाराणि सर्वाणि सर्वद्रव्यं निवेदयेत्
प्रतिमाग्रे विशेषेण गोमयेनानुलेपयेत् ३५
पिष्टचूर्णैरलंकृ त्य शुक्लवस्त्रेण पातिते
कदलीपत्रं तदूर्ध्वे तु तदूर्ध्वे स्रावयेद्घृतम् ३६
अन्नमापूर्य तत्पात्रे आक्वतं चैव वेदिका
व्यञ्जनादीनि परितो उपवेदीं च पूर्य च ३७
अस्योर्ध्वे अवटं कल्प्य पयश्शुष्केन पूरयेत्
नानाविधफलादींश्च मध्वाज्यं तत्र निक्षिपेत् ३८
परितः पत्रमाच्छाद्य त्रिपादीं विन्यसेत्त्ततः
तत्त्रिपादीं तदूर्ध्वे तु स्थलिकां विन्यसेत्ततः ३९
अन्तस्सर्वत्र पत्रेषु पूर्य निम्नोन्नतं त च
व्यजनादीनि सर्वाणि तत्पात्रे विन्यसेत्सुधीः ४०
अतुर्विधैरपूपैश्च तत्तत्पात्रे सुपूरयेत्
ततो होमं प्रकर्तव्यं अग्निकार्योक्तमार्गतः ४१
समिदाज्यचरुं लाजान् सर्षपांश्च यवांस्तिलान्
++++ एषयेत्सर्वं उक्तमंत्रैर्निवेदयेत् ४२
निर्माल्यं च विसृज्याथ स्थलशुद्धिं च कारयेत्
नालिके रगुलं चैव इक्षुखण्डं फलं तथा ४३
मूर्धादिशस्त्रपर्यन्तं होमयेत्तु क्रमेण तु
शताहुतिं समारभ्य सहस्रं वा तदर्धकम् ४४
युक्तिना होमयेत्कार्यं द्रव्यान्ते व्याहृतिं हुनेत्
प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् ४५
मध्याह्नपूजा संमिश्रं तस्माद् होमबलिं ददेत्
पादप्रक्षालनं कृ त्वा प्रविशेदालयं प्रति ४६
धूपदीपसमायुक्तं ++++++++++
पानीयाचमनार्घ्यं च धूपदीपं ददेद्गुरुः ४७
पंचब्रह्मषडंगैश्च दिवातन्मंत्रमुच्चरन्
तत्काले ++++ घण्टारवसमन्वितम् ४८
आरात्रिकं तु कर्तव्यं नीराजनमथाचरेत्
वादित्रलयसंयुक्तं गणिकानृत्तमाचरेत् ४९
मुखवासं च कर्तव्यं भस्मानं दापयेत्ततः
आशीर्वादं च कर्तव्यं ++ शुद्धं समाचरेत् ५०
चण्डेश्वरं समभ्यर्च्य भस्मानं दापयेत्ततः
सकलोच्छिष्टं चतुर्थांशं एकांशं परिचारके ५१
तत्संबन्धाश्च सर्वाश्च एकांशं चैव दापयेत्
मूलदेवस्य नैवेद्यं युक्तिना दापयेत्क्रमात् ५२
सर्वालंकारवद्बेरं सर्ववाद्यसमन्वितम्
ध्वजादिच्छत्रपर्यन्तं धामं पूर्वोक्तवर्त्मना ५३
प्रविशेदालयं पश्चाद् देवस्याचमनीयकम्
अपूपादि निवेद्याथ धूपदीपं ददेद्गुरुः ५४
शुद्धनृत्तादिलीलान्तं कारयेच्छिवसंनिधौ
एवं क्रमेण कर्तव्यं राजरक्षाविधिं शृणु ५५
इत्युत्तरस्वायंभुवे प्रतिष्ठातन्त्रे महाहविः पटलः १०