दीपपूजां प्रवक्ष्यामि शिवज्ञानप्रसिद्धिदम्
पराशक्तिस्वरूपत्वात् कर्तुरायुष्करं परम् १
सर्वमासेषु कर्तव्यं निश्चित्य शुभवारके
निश्चित्य दिवसात्पूर्वे रात्रौ दीपावसानके २
द्रोणादि च द्विभारान्तं द्रोणद्रोणविवर्धनात्
यथा शक्ति प्रकर्तव्यं +++++ गोघृतेन च ३
मृत्पात्रे कांस्यपात्रे वा तत्पात्रं मानवत्कु रु
द्वादशांगुलमारभ्य द्विद्व्यंगुलविवर्धनात् ४
विंशत्यंगुलदैर्घ्यं तु तत्र विस्तारमध्यमे
त्रिचतुः पंच वांगुल्यं भित्तिरुत्सेध उच्यते ५
घनं पादांगुलेनैव त्रिपादमोष्ठविस्तृतम्
पूर्णचन्द्रवदाकारं पात्रलक्षणमुच्यते ६
अनामिकापरीणाहवर्ति कल्पेत्तु पुत्तली
वीरशक्त्यालये चैव तदग्रे वाथ पार्श्वके ७
अधिवासः प्रकर्तव्यः शालिभिस्थण्डिलं कु रु
द्रोणद्वयं समारभ्य दशद्रोणावसानकम् ८
स्थण्डिलद्वितयं कृ त्वा स्थण्डिलादि यथाविधि
हस्तमात्रेण विस्तारं तत्पात्रे विन्यसेद्दृढम् ९
गणेशं पूजयेत्पूर्वं संकल्पं च यथाक्रमम्
भूतशुद्धिश्च कर्तव्या शुभमसीत्यादि मंत्रतः १०
गौरीगायत्रिमंत्रेण तत्पात्रे पूरयेद्घृतम्
पात्रे पूर्यं तु शेषं च मृद्भाण्डे पूरयेत्सुधीः ११
अघोरास्त्रेण संप्रोक्ष्य दर्भैराच्छाद्य देशिकः
तत्पात्रे पूजनं कृ त्वा दिक्षु पूर्वादिषु क्रमात् १२
वामादिशक्तयश्चाष्टौ तत्तद्बीजेन बुद्धिमान्
मध्ये मनोन्मनीं न्यस्त्वा गन्धपुष्पादिनार्चयेत् १३
पुत्तली दीपमारोप्य शक्तिबीजमनुस्मरन्
पायसान्नं निवेद्याथ धूपदीपं ददेद्गुरुः १४
रक्षाबन्धं च कर्तव्यं पूर्वोक्तविधिना सह
सहस्रं वा तदर्धं वा गौरी बीजं जपेद्गुरुः १५
प्रातस्संध्यावसाने तु विघ्नेशं पूजयेद्बुधः
पुण्याहं पंचगव्यं च नवकं पूर्ववत्कु रु १६
द्वारपार्श्वे तु कर्तव्यं दीपाधारं प्रकल्पयेत्
धाम्नस्तु भक्त्या सर्वेषु दीपयज्ञे सुयोजयेत् १७
दीपावलिं यथा युक्ति यथा शोभं प्रकल्पयेत्
दीपपात्रं च संकल्प्य प्रोक्षयेत्पुरुषेण तु १८
मृद्भाण्डे घृतमादाय तत्तत्पात्रे सुपूरयेत्
गृहीत्वाधिवासदीपं देवाग्रे विन्यसेत्सुधीः १९
दीपाद्दीपं समादाय तत्तद्दीपं प्ररोपयेत्
शक्त्यादिशक्तिपर्यन्तं पूजयेद्दीपमालया २०
द्वारं पूर्ववदभ्यर्च्य लिंगशुद्धिं च पूर्ववत्
पयसा स्नापयेच्छम्भुं यथा शक्ति यथा रुचि २१
गन्धतोयेन संस्नाप्य अष्टगन्धं च लेपयेत्
हिमतोयाभिषेकं च स्नपनं स्नापयेत्प्रभुम् २२
मंत्रान्नं मन्त्रपुष्पं च प्राग्वदावरणं यजेत्
महाहविः क्रमेणैव दापयेत्परमेश्वरम् २३
शान्तिहोमं च कर्तव्यं नालीके रगुलं तथा
इक्षुखण्डं फलं चैव होमयेत्तु विचक्षणः २४
अन्यानि रसवस्तूनि पंचविंशतिसंख्यया
वामादिमंत्रमुच्चार्य होमयेत्तु क्रमेण तु २५
मनोन्मनीं समुच्चार्य पूर्णाहुतिमथाचरेत्
जयादिरभ्याधानं च राष्ट्रभृच्चैव होमयेत् २६
अन्तर्बलिसमायुक्तं परिवारबलिं ददेत्
धूपदीपसमायुक्तं उपचाराणि पूर्ववत् २७
सूरिबृन्दैश्च कर्तव्यं तोषयेत्परमेश्वरम्
एतत्पूजां समाप्यान्ते दीपपूजां समापयेत् २८
पूजां समाप्य तत्काले प्रार्थयेच्छिवसंनिधौ
एवं पूजाविधानेन तत्फलं लभते ध्रुवम् २९
दीपपूजाविधिः प्रोक्तो प्रभूतहविरुच्यते
इत्युत्तरस्वायंभुवे प्रतिष्ठातन्त्रे दीपपूजाविधिपटलः ९