अथ वक्ष्ये विशेषेण जयपूजाविधिं शृणु
इष्टकाम्याय मर्त्यानां भूपतीनां विशेषतः १
परसंहारकरणं अपमृत्युविवर्जितम्
सर्वमासेषु कर्तव्यं तत्तज्जन्म दिनेऽपि च २
पूजोपकरणं सर्वं देवाग्रे विन्यसेत्ततः
विज्ञापनं च कर्तव्यं संपूज्य गुरुशंकरम् ३
प्रातस्संध्यावसाने तु आचार्यस्सकली कृ तः
गणेशं पूजयेत्पूर्वं संकल्पं पूर्ववद्गुरुः ४
पुण्हाहं पंचगव्यादि पूर्वोक्तविधिना सह
स्नपनं कारयित्वा तु मध्यमोक्तक्रमेण तु ५
पूर्वाद्याशासु कर्तव्यं वसुकु म्भं प्रतिष्ठितम्
महाशासु ऋगादीनि शुचिवोऽहं तु वर्तिके ६
राक्षसे वारुणं सूक्तं वारुणे स्कन्दसूक्तकम्
आत्वाहरार्धमित्यादि ऐशान्ये च यथाक्रमम् ७
अष्टोत्तरशतं जप्त्वा भूसुरान्वेदपारगान्
मूर्तिपैश्चैव कर्तव्यं मृत्युंजयमनोर्जपम् ८
एवं संकल्प्य मतिमान् द्वारपूजां समारभेत्
वास्तुब्रह्म च संपूज्य बेरशुद्धिं च पूर्ववत् ९
स्नानद्रव्याणि सर्वाणि स्नानकालेऽभिषेचयेत्
पूर्वादिना क्रमेणैव वेदकु म्भाभिषेचनम् १०
तदन्ते स्नपनं स्नाप्य मंत्रान्नं मंत्रपुष्पकम्
नीलोत्पलं च दान्तं च पद्मं चैव सुजातिकम् ११
एतत्पूर्वं च संमिश्रं कांस्यपात्रे सुपूरयेत्
अष्टोत्तरशतं जप्त्वा मूर्तिमंत्रं च बुद्धिमान् १२
देशिकस्याज्ञया चैव कर्ता पुष्पं प्रगृह्य च
प्रथमं प्रतिमंत्रं च द्वितीयं जयमन्त्रकम् १३
एकाक्षरी तृतीयं च शिवमंत्रं चतुर्थकम्
प्रणवादिकमध्यस्थं क्रमोऽन्तं मंत्रमुच्चरन् १४
वर्णं प्रति विशेषेण वर्णसंख्या समर्चयेत्
एतत्संख्यां समभ्यर्च्य कर्ता देशिकसंयुतः १५
पश्चाच्छंभुमलंकृ त्यार्चयेदावरणादिकम्
महाहविः क्रमेणैव नैवेद्यं दापयेत्क्रमात् १६
तदन्ते शान्तिहोमं च होमद्रव्यं विशेषतः
नालिके रं पयश्चैव इक्षुदण्डमपूपकम् १७
मधुशर्क रया युक्तं कदलीफलसंयुतम्
सद्यादिमूर्ध्निपर्यन्तं स्वाहान्तं प्रणवादिकम् १८
बीजसंख्या क्रमेणैव द्रव्यं प्रति च होमयेत्
अन्तर्बलिसमायुक्तं परिवारबलिं ददेत् १९
उपचाराणि सर्वाणि पूर्वमेव क्रमेण तु
सकलादिषु कर्तव्यं पूजयेत्तु विशेषतः २०
देवदेवं नमस्कृ त्य कर्ता देशिकसंयुतः
प्रार्थयेत्सर्वकार्याणि देशिकं वाचयेत्ततः २१
एवं विज्ञाप्य तत्काले तत्फलं प्रतिगृह्य ताम्
जयपूजाविधिः प्रोक्तो दीपपूजाविधिं शृणु २२
इत्युत्तरस्वायंभुवे प्रतिष्ठातन्त्रे जयपूजाविधिपटलः ८