०६ गौरीव्रतविधिपटलः

गौरीव्रतमथो वक्ष्ये व्रतानामुत्तमोत्तमम्
आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् १
आषाढे पूर्वपक्षे तु चतुर्दश्यावधि व्रतम्
शुक्लपक्षेऽप्यथाष्टम्यां नित्यसंध्यावसानके २
देवदेवं नमस्कृ त्य व्रतं विज्ञाप्य देशिकः
देवालयं प्रविश्याथ देवीं स्नानं समाचरेत् ३
वस्त्रादिभिरलंकृ त्य तिलकं चन्दनेन तु
अथवा सर्वमासेषु शुक्लपक्षे चतुर्दशी ४
विघ्नेशं पूजयेत्पूर्वं रक्षाबन्धः पुरोक्तवत्
भूसुरान्भोजयेत्पश्चाद् यथावित्तानुसारतः ५
मण्डपं कल्पयेत्तत्र आयामं चतुरश्रकम्
सर्वलक्षणसंयुक्तं वितानाद्यैरलंकृ तम् ६
मध्ये वेदी प्रकर्तव्या हस्तमात्रप्रमाणतः
तत्समं पूर्वभागे तु युगाश्रं कु ण्डमेव च ७
पूर्ववेदीं तदूर्ध्वे तु गौरीतिलकमण्डपम्
पश्चिमे वेदिमध्ये तु रजनीचूर्णमास्तरेत् ८
कर्पूररेणुना चैव अक्षरं लेखयेत्सुधीः
योगासनादिदैवत्यं तद्बीजं लेखयेत्क्रमात् ९
तदूर्ध्वे वस्त्रमाच्छाद्य देवीं तत्रैव विन्यसेत्
सप्तपंचत्रिसंख्यैश्च ब्राह्मणैर्वेदपारगैः १०
समाहूय क्रमेणैव पूर्ववत्पूजयेद्बुधः
दीपपूजावसाने तु व्रतं सम्यक् समाचरेत् ११
देशिकः सकलीकृ त्य विघ्नेशं पूजयेत्ततः
दीपे दुर्गां समभ्यर्च्य तन्मंत्रं च स्मरन्गुरुः १२
श्रीं ह्रीं बीजं समादाय अष्टोत्तरशतं जपेत्
मण्डले पूर्ववत्पूज्य शिवबीजं तथा जपेत् १३
देवदेवं समुद्दिश्य देवीं सम्यक् समर्चयेत्
कु ण्डमध्ये विशेषेण सिंहासनं प्रकल्पयेत् १४
महेशमूर्तिमाबाह्य परिवारगणैस्सह
कर्पूरं कुं कु मं पत्रं लवंगं च पलत्रयम् १५
चन्दनोशीरलोहैश्च हिमतोयेन मिश्रकम्
रक्तपद्मं पलाशं च रक्तोत्पलं च पाटली १६
मौसली चैव धूर्धूरं बृहती करवीरकम्
व्याघ्री च रक्तमन्दारं ++++ पट्टिक तथा १७
अस्त्रं बीजं समुच्चार्य गन्धमालेपयेत्प्रभुम्
क्ष्मं सौं बीजं समुच्चार्य पृथ्वीं प्रति समर्चयेत् १८
दुकू लपट्टवस्त्राद्यैः शिवबीजेन योजयेत्
पाद्यमाचमनं चार्घ्यं क्षुरिके णैव योजयेत् १९
समिदाज्य चरुं लाजान् इक्षुखण्डं फलं तथा
नालिके रं गुलं चैव कृ सरं माषमेव च २०
प्रशातायेति हृदयं प्रणवात्मने नमः शिरः
शिवाय हुं शिखामन्त्रं याह्नुंकार पुरुष्टुतः २१
फट्कारस्तु स्मृतं चास्त्रं ओं जुं सौ नेत्रमध्यमे
ह्रीं श्रीं क्लीं सौं नम इति स्वाहान्तेनैव होमयेत् २२
वर्णसंख्या क्रमेणैव द्रव्यं प्रति विशेषतः
शिवबीजं समुच्चार्य पूर्णाहुतिमथाचरेत् २३
पायसान्नं निवेद्याथ दीपं कर्पूरवर्तिना
कर्पूरं च निवेद्याथ प्रार्थयेत्तु विचक्षणः २४
वह्नेर्बीजं समादाय मण्डलस्थं सुयोजयेत्
गुह्यं मंत्रं समुच्चार्य मण्डले तु सुपूजयेत् २५
भूसुरान्पूजयित्वा तु ऋषीणां मन्त्रमुच्चरन्
शुद्धान्नं पायसं वाथ देव्यै तत्र निवेदयेत् २६
कु ण्डस्य वामपार्श्वे तु भूसुरांस्तत्र संस्थितान्
आत्वाहामीत्यादिपूर्वसंध्यां जपेत्क्रमात् २७
कु ण्डदक्षिणभागे तु देशिकः सकलीकृ तः
नवाक्षरं जपेद्धीमान् अष्टोत्तरशतान्तकम् २८
एवं जागरणं रात्रौ प्रभाते विमले शुभे
नित्यस्नानादिकं कृ त्वा प्रदक्षिणमथा चरेत् २९
रुद्रश्च द्वादशश्चैव पक्षश्च षोडशस्तथा
पादात्पादान्तरं कृ त्वा करौ च निलवर्जितौ ३०
नानास्तोत्रसमायुक्तं भूसुरा देशिकैस्सह
प्रातस्संध्यावसाने तु पूर्ववद्व्रतमाचरेत् ३१
एवं प्रतिदिनं कु र्यात् त्रिपंचसप्तदिनेऽपि वा
चतुर्दश्याविधिर्यावद्दीपपूजां प्रयत्नतः ३२
महाहविर्निवेद्याथ तोषयेत्परमेश्वरीम्
तदन्ते वृषभं पूज्य तदग्रे स्थण्डिलं कु रु ३३
कु ण्डमण्डलयोर्बीजं शृंगमध्ये सुयोजयेत्
रक्षाबन्धं विसृज्याथ स्थण्डिले तु समर्चयेत् ३४
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं मया कृ तम्
अकृ तं च मया दत्तं संपूर्णं कु रु शंकर ३५
इत्येवं प्रार्थयित्वा तु दक्षिणां दापयेत्ततः
आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः ३६
भूसुरान्दापयेत्तत्र गोवस्त्रतिलसंयुतम्
पार्वतीसहितो देव सर्वकाम्ये प्रदापयेत् ३७
एतद्व्रतं च कर्तव्यं लोकानां हितकाम्यया
एवं क्रमेण कर्तव्यं लोकानां हितकाम्यया ३८
गौरीव्रतविधिः प्रोक्तो जयपूजाविधिं शृणु
इत्युत्तरस्वायंभुवे प्रतिष्ठा तन्त्रे गौरीव्रतविधिपटलः ७