०५ मार्गशीर्षमास-प्रभातपूजापटलः

अथ वक्ष्ये विशेषेण अरुणपूजाविधिक्रमम्
रूरु ++ विकटाद्याश्च देवैर्युद्धं प्रवर्तते १
अथ ++ देवास्तत्रापि विष्णुमूर्तीसहाश्रये
असभ्यविष्णुरूपेण शिवमूर्ते सहाश्रय २
देवदेवनमस्तुभ्यं सर्वरक्षाय ते नमः
इति विज्ञाप्य तत्काले तोषयेच्छम्भुमादरात् ३
दक्षिणान्ते प्रभां तस्या तत्काले उदमीश्वरम्
संतुष्टं शिवरूपेण राध्य सा दिक्प्रदर्शयेत् ४
असुराणां क्षयं दृष्ट्वा अच्युतादीन्क्रमेण तु
प्रभुराज्ञां समावेश्य लोकरक्षाय ते नमः ५
संधिद्वयं यथा कामी तत्काले शिवमर्चयेत्
तस्मात्सर्वप्रयत्नेन अरुणपूजां समाचरेत् ६
तत्पूजाद्विविधं धेनु नित्यनैमित्तकं भवेत्
अब्दं प्रतिविशेषेण मार्गमासादिके यथा ७
नैमित्तिकमिति प्रोक्तं तत्पूजाविधिनोच्यते
भास्करस्योदयात्पूर्वे त्रिपादेन त्रिनाडिका ८
निवेद्यार्थं तण्डुलं ग्राह्यं तत्संख्यां च ततः शृणु
द्रोणद्वयं समारभ्य द्रोणं चैव विवर्धनात् ९
त्रिभारान्तं यथायोग्यं उत्तमा मध्यमाधमा
व्यंजनं तु चतुर्थांशं तत्समं फलमुच्यते १०
अष्टांशं घृतसंयुक्तं सूपं तत्सममुच्यते
पयो दधिगुलादीश्च यथावित्तानुसारतः ११
अष्टांशमर्धमर्धं वा मुद्गमेवं प्रकीर्तितम्
नन्द्यावर्तं च दान्तं च गन्धादीन्संग्रहेत्ततः १२
पूजोपकरणं येन सर्वं संपाद्य यत्नतः
भोगांगनिलये चैव द्वाररक्षान्समाविशेत् १३
शीघ्रं नीत्वा कवाटं च अन्तस्थो देशिको भवेत्
देवदेवं नमस्कृ त्वा विज्ञापनमथाचरेत् १४
देवेशस्याज्ञया चैव इमां पूजां समारभेत्
नित्यस्नानं यथा पूर्वं सकलीकृ तविग्रहः १५
प्रथमं विघ्न पूजां च स्नानद्रव्यं च साधयेत्
द्वारपूजां ततः कृ त्वा लिंगशुद्धिं समाचरेत् १६
स्नानद्रव्याणि सर्वाणि स्नानकालेऽभिषेचयेत्
तदन्ते मंत्रपुष्पं च गौलामन्त्रेण दापयेत् १७
प्रथमस्य चतुर्थन्तु चक्रमेकं निवेशयेत्
चतुर्थ +++ मुद्धृत्य सप्तमादिद्वितीयकम् १८
पंचमात्पंचमस्यैव तच्चतुर्थमुदाहृतम्
सप्तमस्य त्रयं येन द्वितीयस्य व्र ++ भवेत् १९
चतुर्थस्य द्वितीयं तु तत्पंचं प्रथमान्तकम्
सप्तमादिसमायोज्य गौलामंत्रमिति स्मृतः २०
चतुर्धारिसंख्यैश्च मंत्रपुष्पं च दापयेत्
मन्त्रान्नं दापयेच्छम्भुं तन्मन्त्रेणैव बुद्धिमान् २१
वस्त्रादिभिरलंकृ त्य स्थलशुद्धिं ततः कु रु
पश्चात्त्रिपादीन्विन्यस्य पंचसप्तनवान्तकम् २२
दर्व्या लक्षणयुक्तेन + पात्र म ++ पूरयेत्
तन्मध्यमेऽवटं कल्प्य पयः शुष्कं च पूरयेत् २३
अन्यानि रसवस्तूनि मध्वाज्यानि च निक्षिपेत्
व्यंजनापूर्वपरितो ++ तदूर्ध्वं स्रावयेद्द्रुतः २४
तथैव विघ्ने नैवेद्यं एकपात्रे प्रदापयेत्
अहमस्मीति मन्त्रेण भूसुरेण जपेत्सह २५
देशिको दापयित्वा तु स्मरणेनैव बुद्धिमान्
परिवारामरादींश्च पूर्वोक्तविधिना सह २६
निर्माल्यं तु विसृज्याय स्थलशुद्धिं समापयेत्
ताम्बूलं तु निवेद्याथ धूपदीपं ददेद्गुरुः २७
मुखवासं च कर्तव्यं दर्पणादीनि दर्शयेत्
दान्तं च नन्द्यावर्तं च अरविन्दं च मिश्रकम् २८
एकपात्रे समापूर्य तत्काले शिवमर्चयेत्
श्रीकण्ठाय नमस्तुभ्यं गंगाधर नमोनमः २९
पिनाकिने नमस्तुभ्यं शूलपाणे नमोनमः
कपालिने नमस्तुभ्यं विश्वरूप नमोनमः ३०
जगत्कर्त्रे नमस्तुभ्यं लोकसाक्षिन्नमोनमः
ईशानाय नमस्तुभ्यं अम्बिका पतये नमः ३१
चिदम्बर नमस्तुभ्यं चित्प्रकाश नमोनमः
अरूपिणे नमस्तुभ्यं रूपिने च नमो नमः ३२
एवं मन्त्रं गृहीत्वा तु भानुसंख्यां समर्चयेत्
उपचाराणि सर्वाणि पूर्ववत्कथितं मया ३३
वेदाध्यनमन्त्रेण अर्धमण्डपमाविशेत्
शिवदीक्षाय मर्त्यांश्च द्वारबाह्ये प्रवेशयेत् ३४
आचार्यः सुप्रसन्नात्मा बीजमुख्यं शतं जपेत्
चण्डपूजाविना कार्यं अरुणमिश्रमिहोच्यते ३५
एवं क्रमेण कर्तव्यं प्रातस्संध्यां समारभेत्
अरुणपूजाविधिः प्रोक्तो ++++++++ ३६
इत्युत्तरस्वायंभुवे प्रतिष्ठातन्त्रे मार्गशीर्षमासे प्रभातपूजापटलः ६