अथ वक्ष्ये विशेषेण मृत्युंजयविधिं शृणु
जन्मान्तरकृ तात्पापादपमृत्युर्विनश्यति १
अपमृत्युविनाशार्थं क्रियतेऽथ व्रतं मया
कालाग्निगृहदेवेशं पूजयेत्तु गुरूत्तमः २
शान्तिः स्यात्संपदं प्राप्य चिरं कालमवर्धतम्
पूजाक्रमं कथं देव द्रव्यं मंत्रं कथं प्रभो ३
ईश्वर उवाच
कर्तुर्जन्मदिने वापि रुद्रश्रवण एव च
पर्वद्वये च संक्रान्तौ सर्वमासे प्रशस्यते ४
त्रिपंचसप्तदिवसा उत्तमा मध्यमाधमा
निश्चित्य दिवसात्पूर्वे प्रातस्संध्यावसानके ५
देशिकः सकलीकृ त्य स्वगुरुं पूजयेद्बुधः
अभीष्टं प्रार्थयित्वा तु गणेशं पूजयेत्क्रमात् ६
गन्धतैलेन संस्नाप्य पंचगव्यामृतादिभिः
इक्षुसारं पयः स्नाप्य नवकं स्नापयेद्गुरुः ७
मंत्रान्नं मंत्रपुष्पं च मूलमंत्रेण दापयेत्
देवदक्षिणदिग्भागे प्रपां कृ त्वा विचक्षणः ८
मृत्पात्रे जलमापूर्य कर्पूरेण विमिश्रयेत्
पूर्वास्यश्चोत्तरास्यो वा तर्पयेन्मूलमंत्रतः ९
अष्टोत्तरशतं ज्ञेयं नैवेद्यं पूर्ववद्भवेत्
कु ण्डे वा स्थण्डिले वापि होमं कु र्याद्यथाविधि १०
नालिके रं गुलं चैव कदलीफलमेव च
तण्डुलं तिलमिश्रं च तत्तत्संख्या च होमयेत् ११
वह्निस्थदेवमादाय तद्बिम्बे योजयेत्सुधीः
धूपदीपसमायुक्तं उपचाराणि पूर्ववत् १२
मया कृ तं च यत्कर्म निविघ्ना त्वं प्रसीद मे
भस्मानं दापयेत्तत्र स्तोत्रं कु रु यथेप्सितम् १३
एवं गणेशपूजां च पूर्ववन्नित्यमेव च
देवाग्रे चैव कर्तव्यं सौरपूजां पुरोक्तवत् १४
प्रातस्सन्ध्यावसाने तु देशिकस्सकली कृ तः
विघ्नेशं पूजयित्वा तु संकल्पमिति बुद्धिमान् १५
पुण्याहं वाचयेत्पश्चात् पंचगव्यं च साधयेत्
पंचामृतं ततो स्थाप्य स्नानद्रव्याणि साधयेत् १६
ऋगाद्यध्ययनं कु र्यात् चतुर्दिक्षु जपं कु रु
वारैरंगारगाद्यैश्च तत्कर्तेस्तु रगादिभिः १७
तत्तन्मन्त्रं जपेद्धीमान् तत्तद्ध्यानमनुस्मरन्
विभवाद्यनुसारेण स्नपनं कारयेत्सुधीः १८
नीलोत्पलं च दान्तं च बिल्वपत्रं च मिश्रकम्
सुगन्धान्यन्यपुष्पाणि एकपात्रे सुपूरयेत् १९
शुचिवोयं जपेद्धीमान् पंचविंशतिसंख्यया
द्वारपूजां ततः कृ त्वा लिङ्गशुद्धिं समाचरेत् २०
स्नानकाले विशेषेण मृत्युंजयं स्मरेद्गुरुः
आत्वाह ++ मित्यादि भूसुरेण जपेत्सुधीः २१
कालाग्निग्रहमूलेन स्नपनं कारयेत्प्रभुम्
मन्त्रान्नं मन्त्रपुष्पं च तन्मन्त्रेणैव दापयेत् २२
कृ ष्णवस्त्राद्यलंकृ त्य सुगन्धादीनि लेपयेत्
महाहविः क्रमेणैव नैवेद्यं च निवेदयेत् २३
दक्षिणे पश्चिमे वापि उत्तरे वाग्रके ऽपि वा
द्विहस्तं वा त्रिहस्तं वा कु ण्डं प्रागुक्तवत्कु रु २४
तत्पात्रे जलमापूर्य त्रिपाद्युपरि विन्यसेत्
कुं कु मागरुकर्पूरतज्जले मिश्रमेव च २५
सुगन्धिपुष्पैरभ्यर्च्य अमृतं भावयेच्छतम्
सहस्रमर्धमर्धं वा तर्पयेत्कालमंत्रकम् २६
ततो होमं प्रकर्तव्यं अग्निकार्योक्तमार्गतः
कालनिग्रहदेवेशं उमेशं संप्रपूजयेत् २७
आश्वत्थसमिदाज्यं तु कृ सरं गुलमेव च
तण्डुलं नालिके रं च इक्षुखण्डं गुलं तथा २८
कदलीफलं च पनसं सर्वद्रव्यं चरुं हुनेत्
तर्पणात्त्रिगुणाधिक्यं द्रव्यं प्रति विशेषतः २९
कालनिग्रहमूलं च कालमूर्तेश्च मूलकम्
मृत्युंजयद्वयं चैव शुचिवोहं त्रियक्षरम् ३०
त्रिपंचाष्टनवं चैव एकाक्षरक्रमेण तु
पूर्णाहुत्यन्तमेव स्यात् प्रायश्चित्तं हुनेत्क्रमात् ३१
वह्निस्थदेवमादाय मूललिंगे सुयोजयेत्
निरोधार्घ्यं प्रकर्तव्यं नित्योत्सवमथाचरेत् ३२
देशिकस्याज्ञया चैव कर्ता पुष्पं प्रगृह्य च
मृत्युंजयेन वाभ्यर्च्य अष्टाधिकशतं स्मरेत् ३३
तदन्ते धूपदीपं च उपचाराणि पूर्ववत्
सर्ववाद्यसमायुक्तं कु रवशब्दसमन्वितम् ३४
तत्र देवेशमाराध्य अपमृत्युविनाशनम्
इति विज्ञाप्य देवेशं तत्प्रसादं प्रगृह्य च ३५
आचार्यं पूजयेत्पश्चाद् वस्त्रहेमांगुलीयकैः
गोभूमिसहिरण्यं च आचार्याय प्रदापयेत् ३६
हुतभस्म गृहीत्वा तु तद्भस्म दापयेत्ततः
चण्डेश्वरं समभ्यर्च्य यथा शक्ति जपेद्बुधः ३७
यदुक्तं कारयेद्धीमान् तच्छेषं कामिकोक्तवत्
इहलोके सुखं प्राप्य सोऽन्ते सायुज्यमाप्नुयात् ३८
मृत्युंजयविधिः प्रोक्तो +++++
इत्युत्तरस्वायंभुवे मृत्युंजयविधिपटलः ५