०३ महाव्रतविधिपटलः

महाव्रतस्य माहात्म्यं व्रतानामुत्तमोत्तमम्
महाव्रतस्य माहात्म्यं ++++++ १
धर्मार्थकाममोक्षार्थं कर्तव्यं ज्ञानसिद्धिदम्
शिवनिर्वाणसिध्यर्थं विशेषात्कामदं भवेत् २
तस्मात्सर्वप्रयत्नेन मर्त्यस्तद्व्रतमाचरेत्
मेषादिमीनपर्यन्तं सर्वमासेषु संग्रहेत् ३
कन्याकर्क टकं चापि धनुः कु म्भस्तथैव च
वृश्चिकं तु क्रमेणैव वर्जयेत्तु प्रयत्नतः ४
इतराण्यपि राशि स्यात् संग्रहेत्तु विचक्षणः
सर्वमासेषु कर्तव्यं शुक्लपक्षे व्रतं परम् ५
अश्वी मृगशिरश्चैव आर्द्राचाश्लेष एव च
माघचैत्रे सरोहिण्यौ वैष्णवं तु यथोचितम् ६
हेमराजतताम्रैर्वा निष्ककुं जसमन्वितम्
वज्रायुधं च शूलं च खड्गं खेटं च संयुतम् ७
पूर्व ++ लक्षणं प्रोक्तं निष्ककुं जं पृथक्पृथक्
शिवमंत्रसमायोग्यान् भूसुरानेकविंशतिम् ८
युवत्यौ गणिकाश्चैव संख्यै एकादश स्मृतः
द्विजातिशूद्रपर्यन्तं कर्तव्यं तु महाव्रतम् ९
मण्डपं तु प्रकर्तव्यं सप्तहस्तादिविंशतिः
आयामं चतुरश्रं वा ++ श्रं वाथ कारयेत् १०
सर्वालंकारसंयुक्तं लक्षणं पूर्ववत्कु रु
दक्षिणे पश्चिमे सौम्ये काले तत्र प्रकल्पयेत् ११
तत्साले लाजकं कु र्यात् एकद्वित्रिकपंचकम्
मध्यात्पंचमभागे तु वेदी हस्तप्रमाणतः १२
सार्धोत्सेधसमायुक्तं निम्नोन्नतविवर्जितम्
तत्पूर्वे योनिकु ण्डं तु हस्तं वापि द्विहस्तकम् १३
तत्पूर्वे मण्डलार्थाय वेदीं कृ त्वा विचक्षणः
द्विहस्तं वा त्रिहस्तं वा उत्सेधं द्वादशांगुलम् १४
शिल्पिनं तु विसृज्याथ गोमयालेपनं कु रु
शुद्धं कृ त्वा विधानेन पुनः पुण्याहमाचरेत् १५
रजनीपिष्टचूर्णं च नानाचित्रविचित्रितैः
निश्चित्य दिवसात्पूर्वे त्रिदिने पंचमेऽपि वा १६
प्रातस्संध्यावसाने वा चण्डपूजावसानके
देशिको यजमानश्च भूसुराश्चापि योजितः १७
तैलाभ्यंगसमायुक्तं शुद्धस्नानं समाप्य च
शुद्धवस्त्रेण संवेष्ट्य देहशुद्धिं विधाय च १८
तन्मण्डपं प्रविश्याथ दक्षिणे भूसुराः स्थिताः
उत्तरे योषितः स्थाप्य ऐशान्ये कक्षसंस्थितिः १९
सिंहासनं च वेद्यूर्ध्वे तदूर्ध्वे वस्त्रपादिते
तदूर्ध्वे स्थलिकां न्यस्य तदूर्ध्वे त्वायुधान्न्यसेत् २०
पूर्ववेद्युपरि न्यस्य सर्वतो भद्रमेव च
गौरी तिलकमन्यद्वा पार्वती कान्तमेव वा २१
उत्तरे स्थण्डिलं कल्प्य कुं भं संस्थापनं कु रु
तत्कु म्भे चन्द्रमभ्यर्च्य चन्द्रबीजं शतं जपेत् २२
मण्डपस्य तु तन्मध्ये उत्तराभिमुखः स्थितः
आचार्यः सकलीकृ त्य सोष्णीषस्सोत्तरीयकः २३
विघ्नेशं पूजयेत्पूर्वं संकल्पं च यथाक्रमम्
पुण्याहं वाचयेत्तत्र पंचगव्यं च साधयेत् २४
पंचामृतेन कर्तव्यं चाष्टमृत्सलिले तथा
तत्पूर्वे स्थण्डिलं कल्प्य पंचकोष्ठं समालिखेत् २५
पृथिव्यादीनि बीजानि कोष्ठमध्ये लिखेद्बुधः
तत्संख्यकु म्भमादाय क्षालयेत्पशुमंत्रतः २६
कोष्ठपूजानि संपूज्य पृथिव्यादीनि मंत्रकैः
तदूर्ध्वे स्थापयेत्कुं भान् पूरयेद्गोलिताम्भसा २७
रत्नं वापि सुवर्णं वा निक्षिपेद्धृदयेन तु
पुरुषुतायेति मंत्रेण मध्य कुं भे सुपूजयेत् २८
ओजसेहेति मंत्रेण पूर्वकुं भे सुपूजयेत्
शंनो देवीति मंत्रेण दक्षिणे पूजयेद्बुधः २९
प्रजापतेति मंत्रेण सौम्ये कु म्भे सुपूजयेत्
एतन्मंत्रं जपेद्धीमान् तत्तन्मन्त्रमनुस्मरन् ३०
स्नानमण्टपमावेश्य स्नानश्वभ्रं च कल्पयेत्
स्थलिकासहिताञ्चास्त्रान् स्नानवेद्युपरि न्यसेत् ३१
वेदघोषैश्च वाद्यैश्च कु रवशब्दसमाकु लम्
पुरो वाच्य जलेनैव स्नापयेत्पतिमंत्रकैः ३२
पंचगव्यं च संस्नाप्य व्योमरूपमनुस्मरन्
पंचामृतं च कर्तव्यं शिवद्विजमिहोच्यते ३३
अष्टमृत्स्नपयेद्धीमान् विष्णुबीजं समुच्चरन्
स्नानान्तरे प्रकर्तव्यं शुद्धतोयाभिषेचनम् ३४
पंचब्रह्म समुच्चार्य पयसा स्नानमाचरेत्
शतप्रस्थं समारभ्य यथालाभं समारभेत् ३५
तत्तदायुधबीजैश्च तत्तन्न्यासक्रमेण तु
मध्यकु म्भं समादाय वज्रमूर्ध्न्यभिषेचयेत् ३६
शूलबीजं समुच्चार्य मंत्रपुष्पं सुदापयेत्
दक्षिणे कु म्भमादाय खड्गमूर्ध्न्यभिषेचयेत् ३७
खड्गमंत्रं समुच्चार्य मंत्रपुष्पं समर्चयेत्
पश्चिमे कु म्भमादाय खेटमूर्ध्न्यभिषेचयेत् ३८
खेटमंत्रं समुच्चार्य मंत्रपुष्पं समर्चयेत्
स्थालिकासहितान्बिम्बान् पूर्वस्थाने नियोजयेत् ३९
सौम्ये कु म्भं समादाय शम्बरैर्मन्त्रमुच्चरन्
भूसुरान्प्रोक्षयेत्पूर्वं योषितस्तदनन्तरम् ४०
कुं कु मागरुकर्पूर कस्तूरीचन्दनादिकान्
नानाविधसुपुष्पैश्च पात्रे संपूर्य देशिकः ४१
गौर्धेनुमंत्रमुच्चार्य शस्त्रान्संपूज्य पुष्पकैः
भूसुरान्लेपयेद्गन्धान् पुष्पानभ्यर्च्य पूजयेत् ४२
योषितो लेपयेद्गन्धं तत्पुष्पं दापयेत्सुधीः
पूर्वास्यश्चोत्तरास्यो वा भूसुरास्तत्र संस्थिताः ४३
प्रणवादि नमोन्ताश्च कालाग्निरुद्रसंयुतम्
श्रीं ह्रीं क्लीं बीजसंयुक्तं मंत्रं सम्यग्जपेद्बुधः ४४
शिवः पशुपतिश्चैव शंभुरीशकपर्दिनौ
महेशः शूलपाणिश्च किरीटो विक्रमस्तथा ४५
पिनाकी धूर्जटिश्चैव त्रिणेत्रो नीललोहितः
शंकरश्चैव भूतेशो वृषवाहनविक्रमः ४६
कालहारी प्रमर्दश्च वैनतेयः खगेश्वरः
एवं नामानि मंत्राणि क्रमेणैव तु भूसुराः ४७
सनकादीन् ऋषींश्चैव भूसुरान्भावयेद्गुरुः
गणिकाश्चापि तत्रैव रुद्रकन्याश्च भावयेत् ४८
एवं कृ त्वा तदन्ते तु चन्द्रकु म्भे समर्चयेत्
ततो होमं प्रकर्तव्यं अग्निकार्योक्तमार्गतः ४९
समिदाज्य चरुं लाजान् सर्षपांश्च यवांस्तिलान्
नालिके रगुलं चैव इक्षुखण्डमपूपकम् ५०
पयोदधिसमायुक्तं नानाफलसमन्वितम्
प्रतिमंत्रेण कर्तव्यं होमयेत्तु पृथक्पृथक् ५१
पंचाशत्संख्यया चैव द्रव्यं प्रति च होमयेत्
जपादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत् ५२
शुचि वो हेति मन्त्रेण पूर्णाहुतिमथाचरेत्
वह्निबीजं समादाय तत्तन्मूलेन योजयेत् ५३
पायसान्नं गुलान्नं च शुद्धान्नं कृ सरान्नकम्
फलादिरसवद्द्रव्याणि दापयेत्तु विचक्षणः ५४
धूपदीपसमायुक्तं उपचाराणि पूर्ववत्
स्तोत्रं जपं नमस्कारं यथाशक्ति तथा कु रु ५५
तदन्ते देवालयं प्राप्य देवदेवस्य संनिधौ
तत्प्रसादेन कर्तव्यं यत्क्रियाश्च ग्रहे ततः ५६
इति विज्ञाप्य देवेशं नमस्कृ त्य समर्चयेत्
पूर्वस्थाने प्रविश्याथ आचार्यो भूसुरास्सह ५७
गणिकाश्च समायुक्तं तत्तत्स्थाने निवेशयेत्
क्रमेणैव तु कर्तव्यं आदराद्भोजनं भवेत् ५८
कर्पूरं दापयेत्पश्चात् कस्तूरी ++ न्दं च संकु लम्
नानाविधकथाः कु र्वन् संतोष्य परमेश्वरम् ५९
एवं प्रतिदिनं कृ त्वा तद्दिने तु विशेषतः
पूजासमाप्तियुक्काले तत्काले प्रार्थयेच्छिवम् ६०
देवालयाग्रे कर्तव्यं प्रपां कृ त्वा विचक्षणः
स्नानवेदीं न्यसेन्मध्ये यजमानान्तसंस्थितिम् ६१
पूर्वास्यश्चोत्तरास्यो वा हृदयाञ्जलिमुद्रया
आचार्यः शस्त्रमादाय यजमानस्य मूर्धनि ६२
यजमन्त्रं समुच्चार्य आयुधं विन्यसेद्बुधः
चन्द्रकु म्भं समादाय तद्बीजं हृदि विन्यसेत् ६३
तज्जलं स्नाप्य तत्स्थाने आर्द्रवस्त्रं त्यजेत्बुधः
शुद्धवस्त्रेण संवेष्ट्य चन्द्रचन्दनलेपयेत् ६४
आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः
गोभूमिसहिरण्यैश्च आचार्याय प्रदापयेत् ६५
द्विजानां दापयेत्तत्र पादुकं छत्रसंयुतम्
वस्त्रं स्वर्णसमायुक्तं यथा शक्ति प्रदापयेत् ६६
गणिकाश्चैव कर्तव्याश्चित्रवस्त्रं च दापयेत्
अपरे दिवसे धीमान् शंभुं तत्रैव पूजयेत् ६७
वसन्तोत्सवक्रमेणैव तोषयेत्प्रभुमादरात्
आयुधं गृह्य कर्तव्यं वित्तमध्ये प्रतिष्ठयेत् ६८
तत्फलं लभते मर्त्यः सपुण्यां गतिमाप्नुयात्
महाव्रतमिदं प्रोक्तं ++++++++++ ६९
इत्युत्तरस्वायंभुवे प्रतिष्ठातन्त्रे महाव्रतविधिपटलः ४