०२ योगपूजाविधिक्रमः

अथ वक्ष्ये विशेषेण योगपूजाविधिक्रमम्
चैत्रादिभाद्रमासान्तं शुक्लपक्षे शुभं परम् १
चतुर्थी पंचमी चैव अष्टमी दशमी तथा
महेशस्य तु नक्षत्रे आर्द्रानक्षत्रमेव वा २
राज्ञां जन्म दिने वापि शुभवारसमन्वितम्
योगपूजा प्रकर्तव्यं तत्फलं बहुधोच्यते ३
विप्रादीनां नराणां च +++++++
तद्देशाधिपती राजा शिवसायुज्यमाप्नुयात् ४
योगपूजाविधानज्ञो शिवद्विजकु लोद्भवः
पूजां कृ त्वाथ विधिवन् नटेशस्य विशेषतः ५
पूजारम्भदिनात्पूर्वं नवमे सप्तमेऽपि वा
त्रिदिने वा प्रकर्तव्यं वारं भूसुरभोजनम् ६
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा
तैलाभ्यंगसमायुक्तं आदराद्भोजनं नयेत् ७
दक्षिणां दापयेत्पश्चाद् यथाशक्तिविशेषतः
ततोन्यदिष्टान्संपूज्य अतिथिं पूजयेत्ततः ८
रुद्राक्षं संख्यया प्रोक्तं द्विशतं मूर्ध्नि धारणम्
वर्णसंख्या गलं चैव बाहुसंख्या दशाष्टकम् ९
सर्वमेतत्क्रमेणैव द्विगुणी कृ त्य बुद्धिमान्
क्षौमपट्टादिसूत्राद्यैः योजयेत्सुदृढं कु रु १०
मुखे मुखं च संयोज्य पुच्छे पुच्छं च योजयेत्
अथवान्य प्रकारेण अन्तरे ग्रन्थिसंयुते ११
प्रवालं मौक्तिकं मिश्रं योजयेत्तु विचक्षणः
सावित्र्यंगुलमात्रेण वेत्रदण्डं समा भवेत् १२
कनिष्ठांगुलिपरीणाहं शार्दूलं चर्म संगृहेत्
कौपीनं दण्डसंयुक्तं तस्याधा ++ संगृहेत् १३
पूर्ववद्दक्षिणं चैव भिक्षापात्रं कमण्डलुम्
एवं सर्वं समापाद्य युक्तियुक्तेन शोभितम् १४
तद्दिनात्पूर्वदिवसे रात्रौ पूजावसानके
सापरक्षावसाने वा नृत्तमण्टपमाविशेत् १५
सर्वालंकारसंयुक्तं मण्टपं भूषयेत्ततः
नृत्तमूर्तिमलं कृ त्य दक्षिणाभिमुखस्थितम् १६
सर्वद्रव्यान्समादाय देवाग्रे स्थण्डिले स्थितम्
विज्ञापनं च कर्तव्यं आज्ञया गृह्य बुद्धिमान् १७
विघ्नेशं पूजयेत्पूर्वं संकल्पमिति बुद्धिमान्
पुण्याहं वाचयित्वा तु रक्षाबन्धं तु पूर्ववत् १८
नटेशं प्रदक्षिणीकृ त्य इतराण्यपि पूर्ववत्
भास्करस्योदयात्पूर्वं इमां पूजां समारभेत् १९
आचार्यः सुप्रसन्नात्मा सोष्णीषः सोत्तरीयकः
उत्तराभिमुखः स्थित्वा सकलीकृ तविग्रहः २०
गणेशं पूजयेत्पूर्वं गणानां त्वेति मंत्रतः
पुण्याहं वाचयित्वा तु भूसुरान् संख्यकाम् २१
चतुर्था स्थण्डिलं कल्प्य तण्डुलादिविचित्रितैः
अष्टमृत्साधनं चापि पंचगव्यं च साधयेत् २२
विद्यापीठं च संस्थाप्य गुरुकु म्भं च विन्यसेत्
तत्कु म्भे स्वगुरुं पूज्य उपदेशस्य मार्गतः २३
ससूत्रान्सापिधानांश्च सवस्त्रान्हेमसंयुतान्
एवं तु नवकं स्थाप्य तत्र देवीं विना बुधः २४
तद्द्रव्यं चाम्भसंस्नाप्य शुद्धपात्रोपरि न्यसेत्
देवस्य वामभागे तु स्थापयेद्देशिकोत्तमः २५
ततो होमं प्रकर्तव्यं अग्निकार्योक्तमार्गतः
रुद्राक्षं शिवबीजेन ब्रह्मबीजेन दण्डकम् २६
शार्दूलं प्रणवं चापि मात्रादण्डं त्रियक्षरम्
कौपीनं करिवद्ध्यात्वा लकु लीं भस्मधारिणीम् २७
रमांगमण्डलं पूज्य तीर्थपात्रं षडक्षरम्
एवं द्रव्याणि सर्वाणि तत्तन्मन्त्रक्रमेण तु २८
गन्धपुष्पादिभिः पूज्य संपाता भूतिमाचरेत्
पात्रमध्ये स्थितं द्रव्यं देहैराच्छाद्य शास्त्रकैः २९
परितो यवनिकाच्छाद्य अन्तस्थो देशिको भवेत्
शिवमंत्रं जपेद्धीमान् रात्रिशेषं व्यपोह्य च ३०
प्रातःस्नानादिकं कृ त्यं देशिकस्सम्यगाचरेत्
अन्तर्हारस्य वामे तु प्रपां कृ त्वा सलक्षणाम् ३१
तन्मध्ये स्नानवेदीं च कल्पयेत्कल्पवित्तमः
नटेशं तत्र विन्यस्य शुद्धतैलं च मर्दयेत् ३२
पंचगव्याभिषेकं च अष्टमृत्सलिलं तथा
धूपदीपसमायुक्तं कु म्भतोयाभिषेचनम् ३३
अनन्तादींश्च कुं भाश्च तत्तत्स्थानेऽभिषेचयेत्
वेदध्वनिसमायुक्तं भेरिकाघोषणैस्सह ३४
मंगलार्थं च कर्तव्यं सर्ववाद्यसमाकु लम्
स्नानोद्वर्तनकं कु र्यात् पूर्वस्थाने निवेशयेत् ३५
तन्मध्ये मण्डलं कल्प्य द्विशतैर्दर्भमाहरेत्
शार्दूलाजिनमेवं च ऊर्ध्वे योगासनं भवेत् ३६
तदूर्ध्वे स्थापयेत्कुं भं दक्षिणाभिमुखस्थितम्
शंभुं कौपीनमाच्छाद्य बीजमुख्यं समुच्चरन् ३७
क्षौमेन वा दुकू लेन नववस्त्रेण वेष्टयेत्
श्वेतचन्दनलिप्तांगं दिव्यमाल्यैरलंकृ तम् ३८
ततो होमं प्रकर्तव्यं सहस्रं शाम्भवि+ तम्
शुक्रं बृहस्पतिं पूज्य स्वगुरुं पूजयेत्ततः ३९
संभातामृतिमेवोक्तं सोमबीजेन बुद्धिमान्
प्रथमं मूर्ध्नि विन्यस्य शिवायनमसंयुतम् ४०
द्वितीयांगुलिमूलं च वाकारेण समन्वितम्
तृतीयं बाहुके चैव वौकारं मंत्रमुच्चरन् ४१
ततः प्रकोष्ठसंयुक्तं नकारं मंत्रमुच्चरन्
कण्ठालम्बनमेवोक्तं मकारं मंत्रमुच्चरन् ४२
एवं क्रमेण संयोज्य बिन्दुनादसमन्वितम्
सहस्रं नाममभ्यर्च्य प्रणवादिनमोन्तकैः ४३
अन्यद्द्रव्याणि सर्वाणि देवाग्ने विन्यसेत्ततः
त्रिपादीं तत्र विन्यस्य जलद्रोणीं च विन्यसेत् ४४
तत्पात्रे जलमापूर्य जलद्रव्यं च संग्रहेत्
कर्पूरं कुं कु मं पात्रं कल्हारं कमलं तथा ४५
चन्दनं तुलसी चैव हरिबेरं च कोष्ठकम्
सर्वतीर्थानि संकल्प्य हृन्मंत्रेण विनिक्षिपेत् ४६
पत्तिमंत्रं जपेद्धीमान् अमृतं भावयेत्स्वयम्
पूर्वास्यश्चोत्तरास्यो वा तज्जलेन तु तर्पयेत् ४७
सहस्रमर्धमर्धं वा शिवबीजेन तर्पयेत्
देवदक्षिणदिग्भागे योगासनं प्रकल्पयेत् ४८
तन्मध्ये प्राङ्मुखः स्थित्वा शताधिकं जपेत्क्रमात्
ततो होमं प्रकर्तव्यं तत्संख्यैश्च पृथक्पृथक् ४९
पूर्णाहुतिं ततः कृ त्वा कृ सरान्नं निवेदयेत्
धूपदीपं हृदा जप्त्वा कर्पूरं च निवेदयेत् ५०
प्रदक्षिणनमस्कारं शिवमुद्दिश्य देशिकः
सायाह्नसमये काले आलयं तु प्रदक्षिणम् ५१
नित्यपूजाविधानेन नित्यपूजां समारभेत्
एकाहं वा त्रियाहं वा पंचाहं चोत्तमं भवेत् ५२
एवं क्रमेण विधिना वि+++ ण्यनुकारयेत्
योगपूजां तदन्ते तु महाहविर्निवेदयेत् ५३
कौपीनं वेत्रदण्डं च यतीनां दापयेत्ततः
मात्रादण्डं च पात्रं च शुद्धयोगिं प्रदापयेत् ५४
कर्णबाह्वोश्च रुद्राक्षं +++ दापयेद्बुधः
प्रकोष्ठसंधिरुद्राक्षं भूसुराणां प्रदापयेत् ५५
इतराण्यपि सर्वाणि आचार्याय प्रदापयेत्
आचार्यं पूजयेत्तत्र गोभूमिस्वर्णसंयुतम् ५६
एवं कृ ते तदन्ते तु तत्फलं भवति ध्रुवम्
योगपूजाविधिः प्रोक्तो +++++++++ ५७
इत्युत्तरस्वायंभुवे प्रतिष्ठातन्त्रे योगपूजाविधिपटलः ३