अधुना विधिना वक्ष्ये राजरक्षाविधिं शृणु
युवराजाधिराजा च सार्वभौमस्त्रिधा भवेत् १
सार्वभौमस्य सायुज्यं भोगमोक्षाधिराजकम्
युवराजस्य कर्तव्यं परनिग्रहकारणम् २
युवराजा रमां प्राप्य दधिराजा सरस्वती
सार्वभौमादिशक्तीनां प्राप्यते जगति ध्रुवम् ३
सर्वरोगनिवृत्त्यर्थं सर्वशान्तिकरं भवेत्
सर्वसंपत्समृध्यर्थं प्राणिनां भोगमोक्षदम् ४
पूजाकालविधानेन तत्कालमधुनोच्यते
युवराजाजन्मनक्षत्रे सर्वमासेषु संग्रहम् ५
अधिराजाधिनक्षत्रे अभिषेकर्क्षमेव वा
सार्वभौमे विशेषेण मनसा चिन्त्यते यदि ६
तत्काले पूजनं कृ त्वा तत्फलं भवति ध्रुवम्
निश्चित्य दिवसात्पूर्वे नव ++ दिनेऽपि वा ७
भूसुरान्भोजयेत्तत्र दक्षिणां संप्रदापयेत्
ग्रहपीडादि शान्त्यर्थं भास्करं पूजयेत्ततः ८
क्षुद्र ++णादिशान्त्यर्थं कालिका पूजनं कु रु
कालिकापूजने किं तु मधुमांसं ददेत्क्रमात् ९
यक्षादिपीडाशान्त्यर्थं शास्तारं पूजयेत्ततः
तद्दिनस्य तु कर्तव्यं भास्करोदयमारभेत् १०
विघ्नेशं पूजयेद्धीमान् संकल्पमिति बुद्धिमान्
पुण्याहं वाचयेत्तत्र पंचगव्यं च साधयेत् ११
पंचामृतं च संस्थाप्य नवकं स्थापयेद्बुधः
नवभाण्डं समादाय क्षालयेच्छुद्धवारिणा १२
देवाग्रे तु विशेषेण मण्डलानि विधीयते
ककारं च दकारं च ओंकारादीनि विन्यसेत् १३
तदूर्ध्वे शालिभिश्चैव नवकोष्ठं पृथक्पृथक्
तदूर्ध्वे भाण्डानि संस्थाप्य पूरयेत्क्षालिताम्भसा १४
द्रोण ++ जलेनैव +++++++ संपूरयेत्
गंगा च यमुना चैव नर्मदा च सरस्वती १५
सिन्धुर्गोदावरी चैव कावेरी ताम्रपर्णिका
मध्यमे पुण्यतीर्थे च ++ मतं च यथाक्रमम् १६
गन्धपुष्पादिभिः पूज्य नववस्त्रैश्च छादयेत्
तदन्ते द्वारमभ्यर्च्य गर्भगेहं प्रविश्य च १७
पूर्वपुष्पं विसृज्याथ गज त्रंच मर्दयेत्
पूर्ववल्लिंगशुद्धिं च तज्जले नाभिषेचयेत् १८
ऋगाद्यध्ययनं कु र्यात् तत्काले तु विशेषतः
शिवबीजं समुच्चार्य कु म्भतोयाभिषेचनम् १९
मंत्रपुष्पं समभ्यर्च्य मंत्रान्नं च निवेदयेत्
देशिकानुज्ञया चैव कर्ता पूर्वं समर्चयेत् २०
नमो भगवते ताण्डव रुद्राय नीलकण्ठाय नमो नमः
वस्त्रादीनिरलंकृ त्य गन्धमाल्यैरलं कृ तम् २१
निवेद्यादीनि कर्तव्यं उत्तमा मध्यमाऽधमा
तद्द्रव्यं पंचधा कृ त्वा एकांशं पूर्वमेव हि २२
पूर्वमेव क्रमेणैव नैवेद्याथ प्रदापयेत्
नित्याग्नियजनं कु र्याच्छान्तिहोमं समारभेत् २३
अन्तर्बलिसमायुक्तं बलिदानं तु कारयेत्
नित्योत्सवविधानेन बलिदानं तु कारयेत् २४
धूपदीपसमायुक्तं सर्ववाद्यसमायुतम्
द्वितीयापूजा कर्तव्यं विघ्नेशं पूजयेद्बुधः २५
पुण्याहं वाचयित्वा तु पंचगव्यं विशेषतः
पंचविंशतिसंख्यैश्च स्नपनं तत्र साधयेत् २६
मौनकुं भं तु संस्थाप्य तदर्थं मण्डलं भवेत्
यकारादि हकारान्तं अक्षरं लोकयेत्क्रमात् २७
तदूर्ध्वे शालिभिः कृ त्वा स्थण्डिलं तु पृथक्पृथक्
अगस्त्यश्च पुलस्त्यश्च विश्वामित्रः पराशरः २८
वसिष्ठः कार्तिके यश्च गौतमो भृगुरेव च
ऋषीणामधिदैवत्यं पूजयेद्गन्धपुष्पकैः २९
पूर्वकद्वारमभ्यर्च्य ततो लिंगं प्रविश्य च
तैलादिस्नपनान्तं च गवेरैरभिषेचनम् ३०
मंत्रपुष्पं च कर्तव्यं मंत्रान्नं च निवेदयेत्
पूर्वमेव क्रमेणैव जातिपुष्पं समर्चयेत् ३१
श्रीकण्ठाय नमस्तुभ्यं गंगाधर नमोनमः
पदक्रमेण जप्त्वा तु भूसुरान्वेदपारगान् ३२
निवेद्यादीनि कर्तव्या तद्दशांशं निवेदयेत्
शान्तिहोमं च कर्तव्यं पूर्वोक्तेन बलिं ददेत् ३३
धूपदीपसमायुक्तं पूजयेत्तु विचक्षणः
तृतीय पूजा कर्तव्यं मध्याह्ने पूजनं कु रु ३४
प्रथमं विघ्नपूजा च संकल्पं च तृतीयकम्
इक्षुसारफलं चैव तृतीयां साधयेद्बुधः ३५
एकोनपंचाशत्संख्यास्नपनं च यथाक्रमम्
पंचममक्षरन्यासं चकारादिक्रमान्न्यसेत् ३६
तदूर्ध्वे स्थण्डिलं प्रोक्तं तत्तन्मंत्र क्रमेण तु
हिमंभजं च कर्पूरं एकपात्रे सुपूरयेत् ३७
स्थण्डिलोर्ध्वे न्यसेद्धीमान्बीजमुख्यैश्च पूजयेत्
एवं सर्वं समाप्याथ द्वारं संपूजयेत्ततः ३८
तत्काले सर्ववाद्यं च कु रवशब्दसमाकु लम्
स्थापितस्य क्रमेणैव स्नापयेत्परमेश्वरम् ३९
पतिबीजं जपेद्धीमान् बीजमुख्य समन्वितम्
बिन्दुनाद समायुक्तं अभिषेकं च कथ्यते ४०
मंत्रान्नं मंत्रपुष्पं च गौलामंत्रेण दापयेत्
ततः कर्ता च कर्तव्या देशिकानुज्ञया सह ४१
पद्मपुष्पं समादाय अर्चयेत्तु विचक्षणः
त्रिसप्तमकर्णगमै कयुतोऽर्धचन्द्रवान् ४२
त्रिपंचमो बिन्दुयुतो +++ त्रवादिकम्
मनसा मृत्युंजयं +++ आत्मकस्फु टम् ४३
++++ समीरण स्माधकं रक्षरक्ष माम्
एवं मंत्रं समुच्चार्य अष्टाधिकशतं क्रमात् ४४
अर्चनान्ते तु कर्तव्यं नैवेद्यं च प्रदापयेत्
पंचांशांशं च कर्तव्यं हृदयेन प्रदापयेत् ४५
तदन्ते होमयेत्सम्यक् नित्याग्नौ शान्तिहोमकम्
अन्तर्बलिसमायुक्तं परिवारबलिं ददेत् ४६
धूपदीपसमायुक्तं उपचाराणि पूर्ववत्
चतुर्थे पूजा कर्तव्या विघ्नेशं पूजयेद्बुधः ४७
अपूपादि निवेद्याथ धूपदीपं ददेद्गुरुः
पुण्याहं वाचयित्वा तु संकल्पमिति बुद्धिमान् ४८
पनसाम्रफलं चैव स्नापनं च विशेषतः
मध्यमामध्यमं ज्ञेयं स्नपनं च यथाक्रमम् ४९
कु टजं मल्लिका पुष्पं नीलोत्पलं चतुर्थकम्
हरिबेरं च संमिश्रं एकपात्रे सुपूरयेत् ५०
पंचब्रह्माणि विन्यस्य पूजयेत्तु विचक्षणः
पूर्वोक्तविधिना चैव अभिषेकं समाचरेत् ५१
मंत्रान्नं मंत्रपुष्पं च व्योमरूपेण दापयेत्
तदन्ते मिश्र पुष्पाणि अर्चयेत्तत्क्रमेण तु ५२
पश्चाद्धोमं समारभ्य शान्तिहोमं तु कारयेत्
द्वारादिबलिपीठान्तं बलिदानं तु कारयेत् ५३
धूपदीपं तदन्ते तु ताम्बूलं भस्म दापयेत्
विघ्नेशं पूजयेत्पूर्वं नवकं स्नापयेत्प्रभुम् ५४
नालिके रं गुलं चैव इक्षुखण्डं फलं तदा
सर्वं निवेद्य देवाय शिवं मंत्रमनुस्मरन् ५५
पुण्याहं वाचयेत्तत्र संकल्पं चैव बुद्धिमान्
अष्टोत्तरशतं चैव स्नपनं पूर्ववत्क्रमात् ५६
नानाविधसुपुष्पाणि कांस्यपात्रे सुपूरयेत्
पंचब्रह्मषडंगैश्च अभिमंत्र्य च बुद्धिमान् ५७
द्वारस्थदेवान्संपूज्य वास्तुब्रह्माणमर्चयेत्
लिंगशुद्धिं पुरा कृ त्वा पंचब्रह्ममनुस्मरन् ५८
तत्काले सर्वथोषैश्च अभिषेकं क्रमात्कु रु
मंत्रान्नं मंत्रपुष्पं च अष्टपुष्पं च दापयेत् ५९
शाम्भवि तमन्त्रेण पूजयेत्तु समर्चयेत्
नैवेद्यं दापयेत्पश्चाद् तद्देवांशं निवेदयेत् ६०
पायसान्नं गुलान्नं च पायसं च निवेदयेत्
ततो होमं प्रकर्तव्यं कू ष्माण्डाहुतिमाचरेत् ६१
शुभ ++ हं च कर्तव्यं मिन्दाहुतिमथाचरेत्
अग्निं विसृज्य विधिवद्बलिदानं तु कारयेत् ६२
उपचाराणि सर्वाणि पूर्वमेव समाचरेत्
कलबेरं च कर्तव्यं पूजयेत्तु विशेषतः ६३
आशीर्वादं च कर्तव्यं भस्मानं दापयेत्ततः
राजरक्षाविधिः प्रोक्तो योगपूजा विधिं शृणु ६४
इत्युत्तरस्वायंभुवे प्रतिष्ठातन्त्रे राजरक्षा-विधि-पटलः २