अधुना विधिना वक्ष्ये प्रसन्नयजनं शृणु
महामारीविनाशार्थं महारोगक्षयं तथा १
ग्रामवृद्धिकरं शान्तं राष्ट्रदुर्भिक्षनाशनम्
अपमृत्युविनाशार्थं सर्वप्राणिहितावहम् २
परसंहारकर्तव्यं नृपाणां च विशेषतः
तस्मात्सर्वप्रयत्नेन इमां पूजां समाचरेत् ३
नृपाणां जन्मनक्षत्रे अभिषेकर्क्षमेव वा
विषुवायनकाले च ग्रहणान्ते ++++ ४
उत्सवादौ च कर्तव्यं प्रतिष्ठान्ते विशेषतः
अन्यस्मिन्मंगले काले यथा कर्तुर्मनोरमम् ५
तस्मात्पूजाविधानेन पूजाकर्मविधिं शृणु
निश्चित्यदिवसात्पूर्वे तृतीये पंचमेऽपि वा ६
भूसुरान्पूजयेत्तत्र यथा शक्ति विशेषतः
तदन्ते नित्यपूजां च तदन्ते कलश पूजनम् ७
यामलोक्तक्रमेणैव यथा विभवविस्तरः
तदन्ते विघ्नपूजां च भेदं चैव विशेषतः ८
+++ तिलमुद्गं च लाजं चैव कु लस्थकम्
पृथुकं चैव सक्युं च दशद्रोणं पृथक्पृथक् ९
इत्थं खण्डं च कर्तव्यं नानाफलसमन्वितम्
नालिके रं विशेषेण योग्यायोग्यक्रमेण तु १०
एकद्रव्यं तु संमिश्रं शुद्धपात्रोपरि न्यसेत्
अतः प्रधाने कर्तव्यं सांभवाय प्रकल्पयेत् ११
भास्करोदयमारभ्य गणेशं पूजयेद्बुधः
स्वगुरुं पूजयेत्पूर्वं पुण्याहं वाचयेत्ततः १२
बेरशुद्धिं च कर्तव्यं हिमतोयाभिषेचनम्
पयसा स्नापयेद्धीमां छतप्रस्थावसानकम् १३
गन्धतोयाभिषेकं च मंत्र पूर्वं समर्चयेत्
वस्त्रमाभरणं चैव गन्धमाल्यानुलेपनम् १४
पायसं च निवेद्याथ ताम्बूलं च निवेदयेत्
गणेशाग्रे विशेषेण तद्द्रव्यं च विनिक्षिपेत् १५
पाशुपतेन शास्त्रेण प्रोक्षयेदम्भसा ततः
सर्ववाद्यसमायुक्तं + व शब्दसमाकु लम् १६
द्रव्येन पूजयेद्विघ्नं गणभाथेति मंत्रतः
तदूर्ध्वे सर्वपुष्पाणि षडक्षरेण दापयेत् १७
चतुर्विधमपूपं च शुद्धान्नं कृ सरान्नकम्
पायसान्नं गुलान्नं च नानाविधफलानि च १८
निवेदयेद्धृदा मंत्री पानीया चमनं कु रु
ताम्बूलं च निवेद्यैव स्तोत्रं मंगलसेवितम् १९
धूपदीपसमायुक्तं जलशब्दसमाकु लम्
अपूपादीनि सर्वाणि तत्तत्काले प्रदापयेत् २०
चतुर्वर्णसमायुक्तं उत्तमोत्तममिष्यते
+++++ या चेत्तु नालिके रं च संग्रहेत् २१
देवाग्रे च विशेषेण नालिके रं च भिद्यते
चतुर्वर्णसमायुक्तं गानलीलासमन्वितम् २२
एवं क्रमेण विधिना सायाह्नान्तं समारभेत्
सायाह्नसमये काले तद्द्रव्यं च बहिः पुनः २३
सर्वभक्ताय दातव्यं भस्मानं दापयेत्ततः
इमां पूजां विशेषेण विभवाण्यनुकारयेत् २४
अपरे दिवसे चैव पूर्वसंध्यावसानके
संकल्पं च यथापूर्वं विघ्नेशं पूजयेत्ततः २५
तद्दैवोद्दिश्य कर्मेण संकल्पमिति बुद्धिमान्
पुण्याहं वाचयित्वा तु भूसुरं देशिकैस्सह २६
पंचगव्यं च संस्थाप्य पंचामृतमतः क्रमात्
अष्टमृत्साधनं चापि वल्कलोदकमेव च २७
पत्रोदकं तु मेवं च पुष्पोदकं तथा भवेत्
शुद्धोदकं तु मेवं च गन्धतैलं तथा भवेत् २८
अष्टोत्तरशतं चैव स्नापनं च यथा कु रु
एवं सर्वं संस्थाप्य शान्तिहोमेन भूयते २९
पूर्ववद्द्वारमारभ्य ततो लिंगं प्रवेशयेत्
गन्धतैलं समारभ्य यावद्गन्धोदकं तथा ३०
पंचब्रह्मषडंगैश्च लिंगशुद्धिं समाचरेत्
त्रियम्बके न मंत्रेण पद्मपुष्पं समर्चयेत् ३१
पंचमावरणं पूर्वं अति ++ कं क्रमाद्गुरुः
वस्त्राद्याभरणं चैव अलंकृ त्य विशेषतः ३२
धूपदीपसमायुक्तं पायसं च निवेदयेत्
ताम्बूलं च निवेद्यैव सर्ववाद्यसमाकु लम् ३३
चतुर्थावरणं पश्चात् शम्बरैरभिषेचनम्
वस्त्रादीनिरलंकृ त्य सुशिवोहं जपेद्बुधः ३४
तद्बीजं च समुच्चार्य जातिपुष्पं समर्चयेत्
कृ सरान्नं निवेद्यं च पाद्यादीनुपचारकैः ३५
चतुर्थावरणं प्रोक्तं तृतीयावरणं शृणु
शिवमंत्रं जपेद्धीमान् अभिषेकं च कारयेत् ३६
रक्तवस्त्राद्यलंकृ त्य करवीरं समर्चयेत्
हृल्लेखाबीजमुच्चार्य तद्बीजं च विशेषतः ३७
मुद्गान्नं च निवेद्याथ धूपदीपं ददेद्गुरुः
तृतीयावरणं प्रोक्तं द्वितीयावरणं शृणु ३८
गौलामंत्रमनुस्मृत्य तद्बीजेनाभिषेचयेत्
कृ ष्णवस्त्राद्यलंकृ त्य कु टजं चैव दापयेत् ३९
अघोरास्त्रं जपेद्धीमान् तद्बीजेन समर्चयेत्
शुद्धान्नं च निवेद्याथ धूपदीपसमन्वितम् ४०
द्वितीया वरणं ह्येवं प्रथमावरणमुच्यते
अष्टाक्षरं समुच्चार्य अजमुत्थेन सेचनम् ४१
श्वेतवस्त्राद्यलं कृ त्य शिवबीजं जपेद्बुधः
तद्बीजेन समादाय धूपदीपं तु दापयेत् ४२
दध्यन्नं च निवेद्याथ पाद्यादीन्क्रमशः कु रु
आलेपनं च गन्धाद्यैः हिमतोयाभिषेचनम् ४३
आर्द्रवस्त्रं त्यजेत्पश्चाद् शुद्धवस्त्रेण वेष्टयेत्
सवाभरणसंयुक्तं सर्वपुष्पैरलं कृ तम् ४४
दशबीजं समुच्चार्य चम्पकं च प्रदापयेत्
धूपदीपसमायुक्तं +++ न्नं च निवेदयेत् ४५
एवमावरणादीनि सृष्टिं वा भंगमात्ततः
वर्धनीं शिवकुं भं च किं चिद्भेदं विशेषतः ४६
ध्वजादिच्छत्रपर्यन्तं सर्ववाद्यसमाकु लम्
स्वस्ववाचकसंयुक्तं कु रवशब्दसमाकु लम् ४७
तत्स्थानं तु समादाय परिचारकमूर्धसु
कुं भं च वर्धनीं न्यस्त्वा कु म्भमग्रे विशेषतः ४८
एवं प्रदक्षिणं कृ त्वा देवाग्रे स्थण्डिले न्यसेत्
अष्टत्रिंशत्कला न्यस्त्वा मातृकान्यासमेव हि ४९
भूषणादीनि विन्यस्य गोलकान्यासमेव हि
शिवबीजमनुस्मृत्य शिवतोयाभिषेचयेत् ५०
मनोन्मनीं समुच्चार्य वर्धनीमभिषेचनम्
मंत्रपुष्पं तदन्ते तु मंत्रान्नं च निवेदयेत् ५१
सर्वालंकारसंयुक्तं सर्वाभरणभूषितम्
एवमेव क्रमेणैव महेशस्य प्रदापयेत् ५२
निवेद्यार्थं तण्डुलं ग्राह्य तत्संख्या च मया शृणु
हेमशाली महाशाली कृ ष्णशाली तथैव च ५३
सितशाली रक्तशाली सौगन्धिकमथोत्तमः
वैणवं च यवं चैव ईवीच्छाली च माधुरी ५४
कु स्तुंवरी च नीवारं मध्यमाश्चेति कीर्तिताः
++ साधारण मही ईषत्कृ ष्णं च विष्टिमम् ५५
तथा वैसूरिका व्रीहि हृस्ववर्ज्रा च कन्यकाः
शालीनां तण्डुलं श्रेष्ठं नैवेद्यार्थं व्रतोस्तथा ५६
चातुर्वर्णमये वस्त्रे समनिक्षिप्य लूखले
प्राहृत्य मुसलेनैव कणकम्बुं च वर्जयेत् ५७
द्विशतं पंचविंशत्या व्रीहयः शक्तिरुच्यते
तलं प्र ++ शं प्रसृतिं कु डवं च तथांजलि ५८
प्रस्थं पात्रार्थकं शैवं द्रोणं खारिक्रमेण तु
शुक्तेस्तु गणयेन्मंत्री द्विगुणं तु पृथक्पृथक् ५९
खारित्रयं तु भारं स्यात् एवं स्यात्परिमाणकम्
नित्यं नैमित्तिकं काम्यं नैवेद्यं त्रिविधं भवेत् ६०
नित्यं नवविधं प्रोक्तं तथा नैमित्तिकं नव
यथेष्टं काम्यमित्युक्तं तेषां भेदमिहोच्यते ६१
परिमाणं समारभ्य पंचपंचविवर्धनात्
कन्यसादित्रयं प्रोक्तं द्विशतान्तसमावधि ६२
मध्यमत्रितयं प्रोक्तं द्विगुणी कृ त्य बुद्धिमान्
उत्तमादित्रयं प्रोक्तं त्रिगुणी कृ त्य बुद्धिमान् ६३
एवमेव क्रमेणैव विभागाण्यनुकारयेत्
कू ष्माण्डं पनसं लाबुं कालिं + बृहतीद्वयम् ६४
त्रपुसं कर्क री चैव सतुषं विशनीं तथा
कदली कारवीथांघ्री आम्रमुर्वारुकं तथा ६५
वल्कमूलं तथा कन्दं मूलमन्यद्रसैर्युतम्
प्रस्थस्यैकपलं प्रोक्तं आमं वा पक्वमेव वा ६६
यथा लाभोपदंशैश्च पाचयेत्तु विशेषतः
सर्वोपदंशकानुक्तान्मरीची लवणाद्यकान् ६७
जीरकाम्ररसोपेतं यथायोगं पचेत्पृथक्
सिता च लवणं चैव ++++ सुयोजयेत् ६८
एवं पक्त्वा सूयं तु कदली पनसं क्षिपेत्
एलालवंगकर्पूर रसवस्तूनि दापेयेत् ६९
क्रमेण पूगीफलं च पर्णं च तत्संख्यातैलमिश्रकम्
कर्पूरं युक्तिकं चैव कु मुदं द्विपलं तथा ७०
एवं संपाद्य सर्वं तु युक्तिना कारयेद्बुधः
तद्देवाग्रे विशेषेण गोमयालेपनं कु रु ७१
रजनीपिष्टचूर्णं च नानाचित्रविचित्रकैः
पात्रौवारन्यसेत्पश्चात् स्थलिकायां न्यसेत्ततः ७२
स्थलिकायां क्रमेणैव +++ ञ्च विशेषतः
शन्नोदेवीति मंत्रेण तदूर्ध्वे स्तावयेद्बुधः ७३
दध्ना बलिस्तु युक्तेन पारमन्नेन पूरयेत्
दूर्वा टं तत्र पयसा पूरयेत्संधि ++++ ७४
++++ पुण्य नाना फलसमन्वितम्
एवं पात्राणि संपूर्य पानीया चमनं कु रु ७५
धूपदीपं हृदा दद्यात् ++++ समन्वितम्
सर्ववाद्यसमायुक्तं उक्तमंत्रैर्निवेदयेत् ७६
पानीयं च निवेद्याथ निर्माल्यं च विसर्जयेत्
स्थलशुद्धिं ततः कृ त्वा ताम्बूलं च निवेदयेत् ७७
अर्घ्यं शिरसि दातव्यं मुखवासं च दापयेत्
+++ श समायुक्तं तस्माद्धोमबलिं ददेत् ७८
होमसंख्याविशेषेण अयुतं प्रयुतं तथा
सहस्र +++ दश्य द्रव्यं प्रति विशेषतः ७९
होमद्रव्याणि सर्वाणि पूर्वमेव सुभागितम्
पंचब्रह्मषडंगैश्च प्रतिमंत्रं विशेषतः ८०
शुचिवोहेन कर्तव्यं व्योमरूपं विशेषतः
पाशुपतेन कर्तव्यं कू ष्माण्डं च विशेषतः ८१
सर्वद्रव्यं चरुं मिश्रं पूर्णाहुतिमथाचरेत्
तदन्ते बलिदानं च नित्यमेव समाचरेत् ८२
प्रविशेदालयं पश्चाद् धूपदीपसमन्वितम्
ताम्बूलं च निवेद्याथ मुखवासं च दापयेत् ८३
उपचाराणि सर्वाणि नित्यमेव समाचरेत्
एवमेवक्रमेणैव सायाह्नान्तं समाचरेत् ८४
सायाह्नान्तं समारभ्य नित्यपूजां समारभेत्
प्रसन्नपूजा कर्तव्यं राजराष्ट्रविदिं शृणु ८५
इत्युत्तरस्वायंभुवे सूत्रे प्रसन्नपूजाविधिपटलः १