४७ ध्वजपटलक्षणम्

अथ देवं नमस्कृ त्य पर्यपृच्छ पितामहः
सर्वदेवार्चनं प्रोक्तं न श्रुतं भास्करार्चनम् १
कस्य मन्त्रं च मुद्रा च स्थापनं पूजनं तथा
तेषां कर्मफलं चापि ब्रूहि मे ++ श्वरः २
ईश्वरः
अहमर्वाग्निरित्युक्तो मुक्तेरध्यस्य मध्यगः
एकमेव सदासूर्यः पदार्थं प्रतितिष्ठति ३
सर्वेषां कालकर्ता च सूर्य एवेति निश्चयः
तस्मात्सूर्य सदाराध्य सर्वसिद्धिकरस्मृत ४
तस्य नाड्या समुद्भूतः सोमस्तस्मात्तु तारकः
भास्कराद्या ग्रहास्सर्वे सर्वेषां ज ++++ ५
तस्मादादित्यपूर्वस्तु संपूज्योऽथ नवग्रहाः
शुभाशुभानि सर्वेषां गृहीत्वा सञ्चरन्ति ते ६
तस्माद्ग्रहा इति ख्याता सूर्यपूर्वा इमे ग्रहाः
भास्करं प्रथमं प्रोक्तं द्वितीयं तु बृहस्पतिः ७
भौमस्तृतीय इत्युक्तो चतुर्थस्तु बुधस्तथा
शनैश्चर ततः प्रोक्तो षष्ठश्शुक्र इति स्मृतः ८
सप्तमस्तु तथा राहुरष्टमस्सोम उच्यते
नवमः के तुरित्युक्तो सूर्यपूर्वा इमे ग्रहाः ९
अर्क भौमबुधो रक्तो श्वेतो गुर्विन्दुभार्गवः
कृ ष्णो मन्दश्च राहुश्च चित्राः के तुमुदाहृतः १०
भास्करः पद्महस्तं च मण्डलेन तु मण्डितः
के तकीपुष्पहस्तस्तु राहुर्वै फणमण्डितः ११
सोमः कु मुदहस्तस्तु मण्डलेन तु मण्डितः
शतमुद्रासमायुक्तं ग्राहा शेषा इति स्मृताः १२
शुद्धस्थानमनुप्राप्य गोमयालेपनं ततः
गत्वरस्युपरे मन्त्री ग्रहाणामनुपूर्वशः १३
सान्तं भास्करबीजं स्यात् खान्तं विद्याद्गुरोस्तथा
हान्तं भौमस्य बीजं स्यात् पान्तं विद्याद्बुधस्य तु १४
हान्तं मन्दस्य बीजं स्यात् ढान्तं शुक्रस्य कीर्तितम्
धान्तं धूमस्य बीजं स्यात् षान्तं सोमस्य कीर्तितम् १५
खान्तं के तोस्समाख्यातं बीजं तेषां प्रचोदितम्
प्रणवाद्यं तथा बीजमग्निबीजेन संयुताः १६
चतुर्थस्वरसंयुक्तं बिन्दुनादसमन्वितम्
नमस्कारान्त इत्युक्ता ग्रहपीडाः प्रकीर्तिताः १७
प्रणवाद्यास्तथा बीजा हुङ्कारेण समन्विताः
चतुर्थ्यन्तेन नाम्नाथ युक्ता मूला इति स्मृताः १८
अकारेण समायुक्तं मन्त्रास्तु हृदयास्तथा
इकारेण समायुक्तं शिरोमन्त्रा प्रकीर्तिताः १९
उकारेण समायुक्ता शिखामन्त्राः प्रकीर्तिताः
ऋकारेण समायुक्ता कवचा इति कीर्तिताः २०
सविसर्गपदन्ताश्च अस्त्रमन्त्राः प्रकीर्तिताः
सानुस्वरा सनादाश्च बीजयुक्ता स्वरास्तथा २१
आदौ प्रणवसंयुक्ता मध्ये नाम समन्विताः
नम स्वाहा वषट् वौषट् हुंफट् तारसमन्विताः २२
षडङ्गं सर्वसामान्यं मन्त्रास्तु समुदाहृताः
अर्कः स्वपद्ममुद्रां च गुरोश्शान्ता विधीयते २३
भौमस्य शोधनीमुद्रा बुधस्य शशिकर्णिका
अस्त्रं शतेश्वरं प्रोक्तं नमस्कार भृगोस्तथा २४
राहोस्तु निष्ठुरा मुद्रा सोमस्य मुकु लं तथा
ध्वजमुद्रास्तथा के तोसर्वकार्येषु योजयेत् २५
विधिराचमनस्याद्यं प्रवक्ष्यामि यथातथम्
हस्ते तीर्थानि च ज्ञात्वा सदाचमनमारभेत् २६
अङ्गुष्ठमूलब्राह्मं तु तीर्थमित्यभिधीयते
करमङ्गुलिमूलं स्यादङ्गुल्यग्रं तु दैविकं २७
पैतृकं हस्तमध्यं तु तीर्थं दक्षिणहस्तजम्
पैतृके न पिबेत्तोयं ततो ब्राह्म्येन मार्जयेत् २८
दैविके न स्पृशेदङ्गान्त्येषां तृप्तिः प्रय्च्छति
पितृतः तृप्तिमायाति पानेन प्रथमेन तु २९
पितामहा द्वितीयेन चान्येन प्रपितामहः
मार्जनेनाथ पूर्वेण ब्रह्मा तृप्यन्ति पद्मजः ३०
प्रजापतिद्वितीयेन यत्तु दक्ष इति स्मृतः
चक्षुषो स्पृष्टयोस्तृप्तिश्चन्द्रादित्यो प्रयास्यतः ३१
नासिकापुटयोस्तृप्तिस्पृष्टयोर्यातिमत्रि वै
अश्विनौ तृप्यतः प्रीतौ कर्णयोस्पृष्टयोरपि ३२
तृप्यन्ति भुजयोश्चैव नाभौ विष्णुरिति स्मृतिः
हृदये च महाविष्णुस्सदा विष्णुश्च मूर्धनि ३३
अङ्गुष्ठानामिकाभ्यां तु चक्षुषी च तथा स्पृशेत्
अङ्गुष्ठतर्जनीभ्यां तु स्पृशेन्नासपुटद्वये ३४
श्रोत्रोऽङ्गुष्ठकनिष्ठाभ्यां बाहुश्चाङ्गुष्ठके न तु
नाभिं मध्यमयो स्पृष्ट्वा चतुर्भिर्हृदयं तथा ३५
पञ्चभिश्चैव मूर्धानां स्पृष्ट्वा स्पृष्ट्वा प स्पृशेत्
एवमाचमनं प्रोक्तं सर्वकर्मसु सर्वदा ३६
इति स्वायम्भुसूत्रे संग्रहे ग्रहमन्त्रोद्धारण नाम
सप्तचत्वारिंशति पटलः
स्वायम्भुसूत्रं समाप्तम्

(सुबद्धं पुस्तकं दृष्ट्वा
अबद्धं लिखितं मया
अबद्धं वा सुबद्धं वा
मम दोषो न विद्यते
क्रोधिसंवत्सरे मार्गशिर मासे)